संस्कृत सूची|संस्कृत साहित्य|कवच|
विनियोगः नागराजस्य देवस्...

श्रीनागराजकवचम् - विनियोगः नागराजस्य देवस्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

विनियोगः नागराजस्य देवस्य कवचं सर्वकामदम् । ऋषिरस्य महादेवो गायत्री छन्द ईरितः ॥
ताराबीजं शिवाशक्तिः क्रोधबीजस्तु कीलकः । देवता नागराजस्तु फणामणिविराजितः । सर्वकामार्थसिध्यर्थे विनियोगः प्रकीर्तितः ॥
(कवचम्) अनन्तो मे शिरः पातु कण्ठं सङ्कर्षणस्तथा । कर्कोटको नेत्रयुग्मं कपिलः कर्णयुग्मकम् ॥१॥
वक्षःस्थलं नागयक्षः बाहू कालभुजङ्गमः । उदरं धृतराष्ट्रश्च वज्रनागस्तु पृष्ठकम् ॥२॥
मर्माङ्गमश्वसेनस्तु पादावश्वतरोऽवतु । वासुकिः पातु मां प्राच्ये आग्नेयां तु धनञ्जयः ॥३॥
तक्षको दक्षिणे पातु नैरृत्यां शङ्खपालकः । महापद्मः प्रतीच्यां तु वायव्यां शङ्खनीलकः ॥४॥
उत्तरे कम्बलः पातु ईशान्यां नागभैरवः । ऊर्ध्वं चैरावतोऽधस्तात् नागभेतालनायकः । सदा सर्वत्र मां पातु नागलोकाधिनायकाः ॥५॥
इति श्रीनागराजकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP