संस्कृत सूची|
संस्कृत साहित्य|
कवच|
घृणिर्मे शीर्षकं पातु सूर...
श्रीसूर्यकवचम् - घृणिर्मे शीर्षकं पातु सूर...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
घृणिर्मे शीर्षकं पातु सूर्यः पातु ललाटकम् । आदित्यःपातु नेत्रे द्वे श्रोत्रे पातु दिवाकरः ॥१॥
नासिकां च त्रयीपातु पातु गण्डस्थले रविः । पातूत्तरोष्ठमुष्णांशुरधरोष्ठमहर्पतिः ॥२॥
दन्तान्पातु जगच्चक्षुः जिह्वां पातु विभावसुः । वक्त्रं पातु सहस्रांशुः चिबुकं पातु शङ्करः ॥३॥
पार्शे पातु पतङ्गश्च पृष्ठं पातु प्रभाकरः । कुक्षिं दिनमणिः पातु मध्यं पातु प्रजेश्वरः ॥४॥
पात्वंशुमाली नाभिं मे कटिं पात्वमराग्रणीः । ऊरू पातु ग्रहपतिः जानुनी पातु सर्वगः ॥५॥
जङ्घे धामनिधिः पातु गुल्फौ पातु प्रभाकरः । मार्ताण्डः पातु पादौ मे पातु मित्रोऽखिलं वपुः ॥६॥
फलश्रुतिः । इदमादित्यनामाख्यं कवचं धारयेत्सुधीः । सदीर्घायुस्सदा भोगी स्थिरसम्पद्विजायते ॥७॥
धर्मसञ्चारिणो लोके त्रयीश्री सूर्यवर्मणा । आवृतं पुरुषं द्रष्टुमशक्ता भयविह्वलाः ॥८॥
मित्रयन्तोद्भवन्तस्तं तिरस्कर्तुं तदक्षमम् । विरोधिनस्तु सर्वत्र तदाचरणतत्पराः ॥९॥
दारिद्र्यं चैव दौर्भाग्यं मारकस्त्विह दह्यते । सूर्येति सुरराजेति मित्रेति सुमनास्स्मरन् ॥१०॥
पुमान्न प्राप्नुयाद्दुःखं शाश्वतं सुखमश्नुते । सर्वोन्नतगुणाधारं सूर्येणाशु प्रकल्पितम् ॥११॥
कवचं धारयेद्यस्तु तस्य स्यादखिलं वशम् । सदा गदाधरस्यापि छेत्तुं किं च तदक्षयम् ॥१२॥
तस्य हस्ते च सर्वापि सिद्धीः प्रत्ययदायिनीः । सुखस्वपे यदा सूरः स्वस्य वर्मोपविष्टवान् ॥१३॥
याज्ञवल्क्यो स्तवान् सप्त समक्षं हृदये मुदा । स घृणिस्सूर्य आदित्यस्तपनस्सविता रविः ॥१४॥
कर्मसाक्षी दिनमणिर्मित्रो भानुर्विभुर्हरिः । द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ॥१५॥
तस्य मृत्युभयं नास्ति सपुत्रो विजयी भवेत् । द्वाभ्यां त्रिभिस्त्रिभिर्व??सन्मन्त्रपद्धतिम् ॥१६॥
विज्ञायाष्टाक्षरीमेतां ओङ्कारादि जपेत्कृती । मन्त्रात्मकमिदं वर्म मन्त्रवद्गोपयेत्तथा ॥१७॥
अमन्दविदुषः पुंसो दातुं तद्दुर्लभं खलु । दुर्लभं भक्तिहीनानां सुलभं पुण्यजीविनाम् ॥१८॥
य इदं पठते भक्त्या शृणुयाद्वा समाहितः । तस्य पुण्यफलं वक्तुमशक्यं वर्षकोटिभिः ॥१९॥
इत्यादित्यपुराणे उत्तरखण्डे याज्ञवल्क्य विरचितं श्रीसूर्यकवचं सम्पूर्णम् । स्वर्भुवर्भूरोमित दिग्विमोकः श्री सूर्यनारायण परब्रह्मार्पणमस्तु ।
इति श्रीसूर्यकवचं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 02, 2025

TOP