संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीशाण्डिल्य उवाच । शान...
श्रीहरिमङ्गलकवचम् - श्रीशाण्डिल्य उवाच । शान...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीशाण्डिल्य उवाच । शान्तिकं सम्प्रवक्ष्यामि भक्तानां हितकाम्यया । येन प्रयुज्यमानेन सर्वा भीतिर्निवर्तते ॥१॥
समुद्भूतो यदा ब्रह्मा सृष्ट्वेदमयजद्धरिम् । स्वाहायै पश्यतस्तस्य हेतोर्यातो यदृच्छया ॥२॥
तेन यज्ञात्मना यज्ञे पुरे कृत्वा निवर्तितुम् । यावद्दिष्टं ततस्तावज्जग्राह शिखया शुचिः ॥३॥
तेन सम्पीतमात्रेण देवकार्ये महत्तरे । असूत भगवानग्निः ऋषीन् षष्टिसहस्रिणः ॥४॥
ब्रह्मणा कृपया तेभ्यः सर्वमङ्गलमङ्गलम् । कवचञ्च पाठितं दिव्यं यदुक्तं हरिणात्मने ॥५॥
ये गुप्ता मुनिवरा ब्रह्मघ्नै रावणादिभिः । अधृष्यास्तप आतस्थुः प्रीतो येभ्यो रघूत्तमः ॥६॥
प्रसादशक्तेः सम्पर्कात् पूजनाच्च मधुद्विषः । प्रिया बभूवुस्ते लोके तदहं वच्मि भो द्विजाः ॥७॥
कवचस्यास्य मुनयो ब्रह्माग्नितनया मताः । गायत्रञ्च भवेच्छन्दो देवता श्रीपतिः स्वयम् ॥८॥
प्रसादाख्या भवेच्छक्तिः बीजं लीलाप्रियो हरिः । निष्प्रत्यूहनिजानन्दावाप्तये विनियोजनम् ॥९॥
मूलतोऽस्य षडङ्गानि भाचक्राद्यैश्च रक्षणम् । तीर्थगोपादरजसा न्यासः सर्वाङ्गलैः शुचेः ॥१०॥
अथ श्रीमङ्गलकवचम् । ॐ श्रीहरये नमः । श्रीकृष्णः सर्वतः पायात् शिरः श्रीपुरुषोत्तमः । ललाटमक्षरः पायान्मायेशो नयने उभे ॥१॥
श्रवणे भगवान् कालः नासिके कृतिमान् विभुः । परमात्मा च वाचं मे जीवेशो रसनां मम ॥२॥
हृदयं वासुदेवो मे अहं सङ्कर्षणः प्रभुः । प्रद्युम्नश्च धियं पातु अनिरुद्धोऽपि मानसम् ॥३॥
भुजौ मे यादसामीशः पादौ मे कमठेश्वरः । मूलाधारन्तु वाराहो नृहरिर्मणिपूरकम् ॥४॥
नाभिं मे भार्गवो रामः पार्श्वं मे रघुनन्दनः । पृष्ठं बलः ककुद् बुद्धः कल्किः शेषं कलाधरः ॥५॥
दृष्टिं त्रिविक्रमः पातु कृत्तिं च कमलापतिः । सूत्रं सुदर्शनः पातु अनुसूत्रं महेश्वरः ॥६॥
रूपं रमापतिः पातु रसं रक्षोविनाशनः । गन्धं गणानामधिपः स्पर्शं मे मधुसूदनः ॥७॥
नन्दको मे नभस्तत्त्वं नभस्वन्तं गदाधरः । चक्रपाणिर्हुताशं मे शङ्खभृत्सलिलं सदा ॥८॥
धरां मे कमली पातु स्वरूपं रविमण्डली । अभिधां मे हरिः पातु सर्वतो जगदीश्वरः ॥९॥
अव्यक्तं मां हरिः पायाद् व्यक्तं मां केशवो विभुः । मायिनं मां रमानाथो माधवः परतन्त्रगम् ॥१०॥
गोविन्दो मां निरानन्दं दुर्भगं विष्णुरव्ययः । कर्मणोऽभिमुखं देवो मधुद्विट् प्राकृतं प्रभुः ॥११॥
भूगतं वामनः पातु अन्नगं श्रीधरोऽवतु । रेतस्थं तु हृषीकेशः पद्मनाभोऽपि गर्भगम् ॥१२॥
दामोदरश्चोदरस्थजातं सङ्कर्षणोऽवतु । शिशुं श्रीवासुदेवोऽव्यात् प्रद्युम्नोऽपि स्तनन्धयम् ॥१३॥
मात्राऽनिरुद्धः सार्द्धं मां धात्र्यापि पुरुषोत्तमः । अधोक्षजश्च ताताद्यैः बालैर्नरहरिः स्वयम् ॥१४॥
अच्युतः क्रीडने पातु कुमारन्तु जनार्दनः । भुञ्जानं वा पिबन्तं वा उपेन्द्रो हसितं रतम् ॥१५॥
उच्चरन्तं चरन्तञ्च शयानं श्रीपतिर्हरिः । रुदन्तं क्षुधितं पातु श्रीकृष्णः परिपीडितम् ॥१६॥
ग्रहैर्बालग्रहैर्वापि कृत्रिमैश्च विषैः क्षतैः । जन्तुभिः पापकैर्हिंस्रैः पातु श्रीरघुनन्दनः ॥१७॥
भूतप्रेतक्षेत्रपालैर्महोत्पातैर्महाभयैः । कार्मणैर्डाकिनीभिश्च पातु मां गरुडध्वजः ॥१८॥
विषदंशैर्विषश्वासैर्विषसस्यैर्विषाक्षिभिः । विषयोगैः चोपविषैः शेषशायी सदाऽवतु ॥१९॥
किशोरे कमलाकान्तः पौगण्डे परमेश्वरः । विहरन्तं विहारेषु देवो वै विष्टरश्रवाः ॥२०॥
संस्कारे यज्ञभुक् पातु श्रौतस्मार्तकृतौ हरिः । वार्त्तायां व्यवहारे च श्रीनाथश्च पराश्रयः ॥२१॥
सेवायां परवासे च सदा लाभे सदा व्यये । गृहकृत्येषु सर्वेषु पातु मां जगदीश्वरः ॥२२॥
गृहे पातु सदा रामः बहिः पातु बलाधिकः । सन्धौ सभासु मार्गेषु वैकुण्ठः पातु भूतले ॥२३॥
क्रीडन्तं भार्ययैकान्ते रुक्मिणीशो सदाऽवतु । लालयन्तमपत्यानि पातु द्वारावतीपतिः ॥२४॥
पचन्तं गृहकृत्येषु हसन्तं सखिभिः पुनः । व्रजन्तं दुर्गभागेषु तिष्ठन्तं दुर्जनैरपि ॥२५॥
शार्ङ्गधन्वा हरिः पातु विवदन्तं परैः क्वचित् । विद्यावादे मन्त्रवादे विवादे कलहे परैः ॥२६॥
क्रियासु पौरुषे युद्धे पातु चाणूरदर्पहा । भुक्ताभुक्तैरमुक्तैश्च मुक्तैः शस्त्रास्त्रसञ्चयैः ॥२७॥
मणिमन्त्रौषधैर्यन्त्रैस्तन्त्रैरव्याद्दिशां पतिः । जले तु भगवान्मत्स्यः कमठश्च जले स्थले ॥२८॥
वाराहो धरणीपृष्ठे दुर्गे नरहरिर्हरिः । जलमार्गे दुर्गमार्गे हिममार्गेऽग्निमार्गके ॥२९॥
नानाविधेषु यानेषु खगयानः सदाऽवतु । आकाशाच्छब्दतश्चापि पातु मां परमेश्वरः ॥३०॥
वायुतः स्पर्शतश्चापि पातु मां मुरमर्द्दनः । वैश्वानरात्प्रकाशाच्च पातु मां माधवः स्वयम् ॥३१॥
कीलालाद्रसतः पातु नरकोच्छेदको विभुः । धराया गन्धतः पातु परमात्मा सनातनः ॥३२॥
इन्द्रियेभ्यः क्रियाभ्यश्च पातु दैत्यनिषूदनः । हृषीकेभ्यो गोचरेभ्यो हृषीकेशः सदाऽवतु ॥३३॥
देवताभ्यः प्रकाशेभ्योऽप्यन्तःकरणतः प्रभुः । आत्मनः परतश्चापि देवः पातु स्वभूः सदा ॥३४॥
देशतः कालतश्चापि निजेच्छातोऽप्यदृष्टतः । सर्वतोऽपि हरिः पायादुक्तानुक्तस्वरूपतः ॥३५॥
श्रीकृष्णायेति मामूर्ध्वं गोविन्दायेति मध्यतः । गोपीजनवल्लभाय नमः स्वाहेत्यधोऽवतु ॥३६॥
क्लीं कृष्णाय नमश्चाग्रे ग्लौं कृष्णायेति पृष्ठतः । श्रीकृष्णायेत्यूर्ध्वतो मां मां कृष्णायेत्यधःस्थलात् ॥३७॥
श्रीमन्मुकुन्दचरणं शरणं मे सदा भवेत् । तेन सार्वात्मिकी शुद्धी रक्षा भवतु सर्वतः ॥३८॥
अहं हरेर्मम हरिः हरये सर्वमर्पितम् । तेन मामनुगृह्णातु यशोदानन्दनन्दनः ॥३९॥
हरिदासान् प्रपन्नं मां प्रपन्नं हरिभावुकान् । श्रीमदार्यान् प्रपन्नं मां पातु श्रीगोकुलेश्वरः ॥४०॥
श्रीमद्गुणानां श्रवणे श्रद्धया सक्तमानसम् । श्रवणं मेऽवतु श्रोत्रे मनस्तत्त्वञ्च पातु मे ॥४१॥
कीर्त्तनं वह्निना वाच्यं स्मरणं हृदयं धिया । सेवनं स्थूलगात्रं मे अर्चनं च तनुं तनूम् ॥४२॥
वन्दनं दैवतकुलं दास्ये जीवं पुनातु मे । सख्यं मे भजनानन्दं स्वानन्दञ्चार्पणं ददेत् ॥४३॥
प्रेमस्फूर्तिं सदा मां सा करोतु भगवन्मयम् । येन केनाप्युपायेन अनुगृह्णातु मां हरिः ॥४४॥
ददातु भजनानन्दं भक्तिं मह्यं ददातु सः । दर्शनं निजलीलायाः कृपया कारयत्वथ ॥४५॥
माथुरं मण्डलं पातु पातु दिव्यं व्रजस्थलम् । गोकुलं गिरिराट् पातु वृन्दारण्यञ्च रक्षतु ॥४६॥
श्रीराधिका स्वात्मरूपा नित्यसिद्धा व्रजेश्वरी । अनुगृह्णातु गृह्णातु दासीवर्गे क्वचिच्च माम् ॥४७॥
श्रीमच्चन्द्रावली दिव्यनिगमागमसंस्तुता । नियोजयतु मां कार्ये दासीवर्गे समाश्रितम् ॥४८॥
ललिता ललिता मान्या मुनीन्द्रैर्भक्तवत्सला । पुनातु मां निजप्रेष्या निचये संश्रितं हिता ॥४९॥
कालिन्दिनी महाभागा भक्तवृन्दैर्नमस्कृता । सेवाधिकारसम्पत्तिं देहि देहि हरिप्रिये ॥५०॥
यज्ञपत्न्यो हरेः पत्न्यो गोकुलस्थाश्च गोपिकाः । सर्वास्ताः सर्वदा मह्यं प्रसीदन्तु हरिप्रियाः ॥५१॥
श्रीयशोदा हरेर्माता मिहिरः श्रीहरेः पिता । बलभद्रो हरेर्भ्राता सुभद्रा श्रीहरेः स्वसा ॥५२॥
गोपाला गोपिका गावो व्रजबाला व्रजद्रुमाः । ये केचिद्व्रजलीलास्थास्ते सर्वे कृपयन्तु मे ॥५३॥
अविद्यां पूतनाहन्ता हन्याद् बालग्रहानपि । बकारिर्मम पाषण्डं नागारिर्मम कल्मषम् ॥५४॥
श्रीमद्गोवर्धनधरो देवेभ्योऽपि स रक्षतु । असुरेभ्यश्च कंसारिर्मुरारिः पातु सर्वतः ॥५५॥
रागेभ्यो निजभोगेभ्यः पीडाभ्योऽप्यतिपीडनात् । दावानलाद् हरः पातु सुदर्शनविमोचकः ॥५६॥
परतश्चापि दक्षिणोत्तरतस्तथा । ऊर्ध्वतश्चाप्यधस्ताच्च पातु ब्रह्मविमोहनः ॥५७॥
अङ्गानि सुन्दरः श्यामः प्रत्यङ्गानि मनोहरः । मनसा वचसा चापि पातु चीरहरः प्रभुः ॥५८॥
कालतः कृतितो दैवात्पापेभ्योऽप्यतिपीडितम् । भक्तापराधतः क्षीणं पातु मां खरसूदनः ॥५९॥
इन्द्रियाणाञ्च वैकल्याद्वपुषो जरयापि च । मृत्युनापि वै ग्रस्तं मां पातु गोकुलपालकः ॥६०॥
धनधान्यसमृद्धिर्मे वृद्धिर्वा पुत्रपौत्रिकी । सम्पत्तिः शस्त्रशास्त्रेभ्यो जायतां भवदाश्रयात् ॥६१॥
नान्यत् किमपि वाञ्छामि नान्यत्किमपि संश्रये । तथा मां कुरु कल्याण इति ध्याये महाप्रभो ॥६२॥
इति श्रीमङ्गलं नाम कवचं । फलश्रुतिः । कमलापतिः कुमारेभ्यो जगौ पूर्वं (?) । (?) विरिञ्चिः कमलोद्भवः ॥६३॥
नानेन सदृशं किञ्चिद्वैष्णवानां हिताय वै । सर्वरक्षाकरं विप्रा भक्तेः सम्पत्तिदायकम् ॥६४॥
एतद्धारणतो ब्रह्मा सृष्टिं चक्रे हरिप्रियाम् । रजसापि न सम्बद्धो भक्तानां प्रवरो बभौ ॥६५॥
गोष्ठे सहस्रमभ्यस्य श्रीगोपालस्य सन्निधौ । हुत्वा मधुभिः सिद्धः पालाशैर्जायते ध्रुवम् ॥६६॥
कार्तिके तु पठेन्नित्यं वृन्दारण्ये विशेषतः । यद्वाञ्छति कल्याणं तत्तद्भक्तेः प्रयच्छति ॥६७॥
वेदनासु च घोरासु रोगे मृत्युभयेषु च । तुलसीमूलमृल्लिप्तः पठेदस्माद्विमुच्यते ॥६८॥
नित्यं पठन् भक्तिमान् स्यात्कामी कामानवाप्नुयात् । किं विप्र बहुनोक्तेन श्रद्धया सर्वमश्नुते ॥६९॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे सप्तदशोऽध्याये स्तोत्रकवचनिरूपणं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 02, 2025

TOP