संस्कृत सूची|संस्कृत साहित्य|कवच|
अस्य श्रीपञ्चमुखिहनुमत्कव...

पञ्चमुखिहनुमत्कवचम् - अस्य श्रीपञ्चमुखिहनुमत्कव...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अस्य श्रीपञ्चमुखिहनुमत्कवचस्तोत्रमन्त्रस्य, ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीहनुमान् देवता । रां बीजम् । मं शक्तिः । चन्द्रः कीलकम् । ॐ रौं कवचाय हुम् । हौं अस्त्राय फट् । ॐ हरिमर्कटमर्कटाय स्वाहा ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहरणाय स्वाहा । ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा । ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा । ॐ नमो भगवते पञ्चवदनाय उत्तरमुखाय आदिवराहाय सकलसम्पत्कराय स्वाहा । ॐ नमो भगवते पञ्चवदनाय ऊर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा ।
न्यासाः- अस्य श्रीपञ्चमुखिहनुमत्कवचस्तोत्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः । श्रीरामचन्द्रो देवता । सीता इति बीजम् । हनुमानिति शक्तिः । हनुमत्प्रीत्यर्थे जपे विनियोगः । पुनर्हनुमानिति बीजम् । ॐ वायुपुत्राय इति शक्तिः । अञ्जनासुतायेति कीलकम् । श्रीरामचन्द्रवरप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ अञ्जनासुताय अङ्गुष्ठाभ्यां नमः । ॐ रुद्रमूर्तये तर्जनीभ्यां नमः । ॐ वायुपुत्राय मध्यमाभ्यां नमः । ॐ अग्निगर्भाय अनामिकाभ्यां नमः । ॐ रामदूताय कनिष्ठिकाभ्यां नमः । ॐ सीताशोकनिवारणाय करतलकरपृष्ठाभ्यां नमः ।
ॐ अञ्जनासुताय हृदयाय नमः । ॐ रुद्रमूर्तये शिरसे स्वाहा । ॐ वायुपुत्राय शिखायै वषट् । ॐ अग्निगर्भाय कवचाय हुम् । ॐ रामदूताय नेत्रत्रयाय वौषट् । ॐ पञ्चमुखिहनुमते अस्त्राय फट् । ॐ पञ्चमुखिहनुमते स्वाहा इति दिग्बन्धः ।
ध्यानं- वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ॥
श्रीरामदूताय आञ्जनेयाय वायुपुत्राय महाबलाय सीताशोकनिवारणाय, महाबलप्रचण्डाय, लङ्कापुरीदहनाय, फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय, सप्तसमुद्रान्तराललङ्घिताय, पिङ्गलनयनायामितविक्रमाय, सूर्यबिम्बफलसेवाधिष्ठितपराक्रमाय, सञ्जीवन्या अङ्गदलक्ष्मणमहाकपिसैन्यप्राणदात्रे दशग्रीवविध्वंसनाय, रामेष्टाय, सीतासहितरामचन्द्रवरप्रसादाय । षट्प्रयोगागमपञ्चमुखिहनुमन्मन्त्रजपे विनियोगः । ॐ हरिमर्कटमर्कटाय स्वाहा । ॐ हरिमर्कटमर्कटाय, वं, वं, वं, वं वं वौषट् स्वाहा । ॐ हरिमर्कटमर्कटाय फं, फं, फं, फं, फं, फट् स्वाहा । ॐ हरिमर्कटमर्कटाय खं, खं, खं, खं, खं, मारणाय स्वाहा । ॐ हरिमर्कटमर्कटाय ठं, ठं, ठं, ठं, ठं, स्तम्भनाय स्वाहा । ॐ हरिमर्कटमर्कटाय डं, डं, डं, डं, डं आकर्षणाय सकलसम्पत्कराय पञ्चमुखिवीरहनुमते स्वाहा । उच्चाटने ॐ ढं, ढं, ढं, ढं, ढं, कूर्ममूर्तये पञ्चमुखिहनुमते परयन्त्रतन्त्रोच्चाटनाय स्वाहा । कं, खं, गं, घं, ङं, चं, छं, जं, झं, ञं, टं, ठं, डं, ढं, णं, तं, थं, दं, धं, नं, पं, फं, बं, भं, मं, यं, रं, लं, वं, शं, षं, सं, हं, क्षं, स्वाहा इति दिग्बन्धः । ॐ पूर्वकपिमुखाय पञ्चमुखिहनुमते ठं, ठं, ठं, ठं, ठं, सकलशत्रुसंहरणाय स्वाहा । ॐ दक्षिणमुखाय पञ्चमुखिहनुमते करालवदनाय नरसिंहाय ह्रां, ह्रां, ह्रां, ह्रां, ह्रां सकलभूतप्रेतदमनाय स्वाहा । ॐ पश्चिममुखाय गरुडासनाय पञ्चमुखिवीरहनुमते मं, मं, मं, मं, मं, सकलविषहराय स्वाहा । ॐ उत्तरमुखे आदिवराहाय लं, लं, लं, लं, लं नृसिंहाय नीलकण्ठाय पञ्चमुखिहनुमते स्वाहा । ॐ अञ्जनासुताय वायुपुत्राय, महाबलाय, रामेष्टफाल्गुनसखाय सीताशोकनिवारणाय, लक्ष्मणप्राणरक्षकाय, कपिसैन्यप्रकाशाय, दशग्रीवाभिमानदहनाय, श्रीरामचन्द्रवरप्रसादकाय, महावीर्याय, प्रथमब्रह्माण्डनायकाय, पञ्चमुखिहनुमते, भूत-प्रेतपिशाच-ब्रह्मराक्षस-शाकिनी-डाकिनी- अन्तरिक्ष-गृह-परयन्त्र-परतन्त्र-सर्वग्रहोच्चाटनाय, सकलशत्रुसंहरणाय, पञ्चमुखिहनुमद्वरप्रसादाय, सर्वरक्षकाय जं, जं, जं, जं, स्वाहा ।
पठित्वेदं तु कवचं महान्तं कवचं पठेत् । एकवारं पठेन्नित्यं सर्वशत्रुनिवारणम् ॥१॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्द्धनम् । त्रिवारं पठते नित्यं सर्वसम्पत्करं परम् ॥२॥
चतुर्वारं पठेन्नित्यं सर्वमर्त्यवशङ्करम् । पञ्चवारं पठेन्नित्यं सर्वरोगनिवारणम् ॥३॥
षड्वारं तु पठेन्नित्यं सर्वदेववशीकरम् । सप्तवारं पठेन्नित्यं सर्वकामार्थसिद्धिदम् ॥
अष्टवारं पठेन्नित्यं सर्वसौभाग्यदायकम् । नववारं पठेन्नित्यं सर्वैश्वर्यप्रदायकम् ॥५॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् । एकादशं पठेन्नित्यं सर्वसिद्धिं लभेन्नरः ॥६॥
कवचं स्मृतिमात्रेण महालक्ष्मीफलप्रदम् । तस्माच्च प्रयता भाव्यं कार्यं हनुमतः प्रियम् ॥७॥
श्रीचिन्तामणिरामभद्रे सुदर्शनसंहितायां

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP