संस्कृत सूची|संस्कृत साहित्य|कवच|
अस्य श्री स्वामी कवच स्तो...

श्रीअक्कलकोटस्वामीकवच - अस्य श्री स्वामी कवच स्तो...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अस्य श्री स्वामी कवच स्तोत्रमंत्रस्य । सुव्रत ऋषिः ।  अनुष्टुप् छंदः । स्वामी समर्थ देवता । शङ्करराजे शक्तिः । बाळाप्पा कीलकम् । मम सकलाभीष्टप्राप्त्यर्थं  पाठे विनियोगः ।  । अथ करन्यासः । ॐ ह्रां अङ्गुष्ठाभ्यां नमः ॥
ॐ ह्रीं तर्जनीभ्यां नमः ॥
ॐ ह्रूं मध्यमाभ्यां नमः ॥
ॐ ह्रैं अनामिकाभ्यां  नमः ॥
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ॥
ॐ ह्रः करतलकरपृष्ठाभ्यां  नमः ॥
 ॥अथ षडङ्गन्यासः ॥
ॐ ह्रां हृदयाय नमः ॥
ॐ ह्रीं शिरसे स्वाहा ॥
ॐ ह्रूं शिखायै वषट् ॥
ॐ ह्रैं कवचाय हुं ॥
ॐ ह्रौं नेत्रत्रयाय वौषट् ॥
ॐ ह्रः अस्त्राय फट् ॥
 ॥अथ ध्यानम् ॥
भूमानंदं सहजसुखदं केवलं ब्रह्ममूर्तिम् । विश्वातीतं विमलहृदयं वेदवेदान्त वेद्यम् ॥१॥
शान्तं दान्तं सरलमनसं सर्वसामर्थ्यरूपम् ।ं सर्वातीतं ह्यमरमचलं स्वामिनं तं नमामि ॥२॥
ॐ शीर्षं मे पातु स्वामी वै । भालं नेत्रे च सद्गुरुः ॥१॥
कण्ठं मुखञ्च पातु मे । स्वामीसमर्थ देशिकः ॥२॥
स्कन्धौ मे पातु स्वामी वै । बाहू पातु तु सद्गुरुः ॥३॥
करौ मे पातु स्वामी च । अङ्गुलयश्च देशिकः ॥४॥
प्रज्ञाप्राकारवासी वै । हृदयं पातु मे सदा ॥५॥
उरः स्थलञ्च स्वामी वै । कटिं मध्यं हि सद्गुरुः ॥६॥
नाभिं जङ्घे च स्वामी वै । गुह्यं पातु च देशिकः ॥७॥
ऊरू  जानु समर्थश्च । पादौ स्वामी च पातु मे ॥८॥
देहं मनश्च प्रज्ञाञ्च । प्रज्ञापुरस्थितः सदा ॥९॥
दशदिक्षु स पातु मां । स्वामीसमर्थ सद्गुरुः ॥१०॥
उत्पातान्त्रिविधान्नित्यं । नष्टान् कुर्वन्तु सद्गुरुः ॥११॥
संकटानाधिव्याधींश्च । नश्यन्तु देशिकः सदा ॥१२॥
नानापीडांश्च बाधांश्च जरामरणयातनाः । प्रातिकूल्यादिविघ्नांश्च नश्यन्तु सद्गुरुः सदा ॥१३॥
भूतप्रेतपिशाचांश्च वेतालब्रह्मराक्षसान् । शाकिनिडाकिन्यादींश्च नश्यन्तु स्वामीसमर्थः ॥१४॥
महापापांश्च घोरांश्च ब्रह्महत्यादिदुर्धरान् । समूलान्पातकान्नित्यं नश्यन्तु सद्गुरुस्तथा ॥१५॥
स्वामी समर्थ तेजश्च रक्षतु माञ्च सर्वदा । भूत्वा तत्कवचं मे च अभेद्यं तत्भवेत्सदा ॥१६॥
वज्रकवचमिदं वै च यः पठेद्भक्तिमान्नरः । तीर्त्वा च संकटान्घोरान् सर्वतः सुखमाप्नुयात् ॥१७॥
प्रतिदिनं पठेद्यो भक्तो भावपूरितचित्ततः । संसारसागरं तीर्त्वा भुक्तिं मुक्तिञ्च विन्दति ॥१८॥
साधको यो यदिच्छेच्च गुरुभक्तो हि वर्तते । प्रसन्नो तस्मिन्हि भूत्वा च कृपालुर्भवति शीघ्रतः ॥१९॥
स्वामीसमर्थप्रसादश्च कवचं जानयेद् बुधः ॥
सच्छिष्याय भक्ताय दातव्यं न च कर्हिचित् ॥२०॥
अतिदिव्यं कवचं श्रेष्ठं दत्तं मे स्वामिनाऽधुना । अहं ददामि शिष्याय प्रकाशाय प्रियाय च ॥२१॥
इदं कवचं तस्मै वै शुभं करोति सर्वदा । सर्वेषां मंगलं भूयात् दिव्यं कवचमेव च ॥२२॥
सदिच्छां  प्रकटीकृत्वा समापनं करोम्यहम् । नत्त्वा स्वामीसमर्थं च नमामि श्रीधरं गुरुम् ॥२३॥
प्रकाशस्य निमित्तेन प्रकाशितमिदं स्तवः । तर्हि तत्प्रति चाशींश्च ददामि च पुनः पुनः ॥२४॥
अक्कलकोटवासी च स्वामीसमर्थ सद्गुरुः । भूयात् सर्वमांगल्यं सर्वेषामिति प्रार्थये ॥२५॥
॥  इति सुव्रतविरचितं स्वामीसमर्थवज्रकवचं समाप्तम् ॥

N/A

References : N/A
Last Updated : November 16, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP