संस्कृत सूची|संस्कृत साहित्य|कवच|
भैरव उवाच । श‍ृणु देवि !...

महिषमर्दिनीकवचम् - भैरव उवाच । श‍ृणु देवि !...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

भैरव उवाच । श‍ृणु देवि ! प्रवक्ष्यामि मर्दिन्याः कवचं शुभम् । यस्याराधनमात्रेण महाभैरवतां व्रजेत् ॥१॥
देवैर्देवत्वविषये सिद्धैः खेचरसिद्धये । पन्नगेराक्षसैर्मत्त्यैर्मुनिभिः सेवितं सदा ॥२॥
अस्याः कवचं महापुण्यं स्वयं वक्त्राद्विनिःसृतम् । (ॐ) भूप्रदेशे समे शुद्धे पुष्पप्रकरसङ्कुले । कल्पयेदासनं धीमान् कोमलं कम्बलासनम् ॥३॥
वामे गुरुं पुनर्नत्वा दक्षिणे च गणाधिपम् । मध्ये तु मर्दिनीं नत्वा सर्वे रक्षन्तु मां सदा ॥४॥
आग्नेय्यां नैरॄते पातु चैशान्यां वायवे तथा । उत्तरे पातु ललिता जिह्वाललनभीषण ॥५॥
कौमारी पश्चिमे पातु धनदा च दिशो दशः । शाकिनी डाकिनी पातु मर्दिनी पातु सर्वदा ॥६॥
कल्पवृक्षः सदा पातु विघ्न च रक्तदन्तिका । एतास्तु वरयोगिन्यो रक्षन्तु साधकाग्रतः ॥७॥
पठित्वा पाठयित्वा च कवचं सिद्धिदायकम् । पठेन्मासत्रयं मन्त्रो वारमेकं तथा निशि ॥८॥
रात्रौ वारत्रयं जप्त्वा नाशयेद्विघ्नमेव च । जपन्मासत्रयं विद्यां राजानं वशमानयेत् ॥९॥
भीतो भयात् प्रमुच्येत देवि ! सत्यं न संशयः । अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् ॥१०॥
सत्कुलीनाय शान्ताय सुजने दम्भवर्जिते । दद्यात्स्तोत्रमिदं पुण्यं सर्वकर्मफलप्रदम् ॥११॥
कवचं यो न जानाति जपेन्महिषमर्दिनीम् । दारिद्र्यत्वं भवेत्तस्य सत्यं सत्यं वदाम्यहम् ॥१२॥
अनया सदृशी विद्या नास्ति तन्त्रेषु गोपिता ॥१३॥
इति श्यामारहस्ये भैरवदेवीसंवादे महिषमर्दिन्याः कवचं सम्पूर्णम् ।
॥श्यामारहस्यम् । त्रयोदशः परिच्छेदः ॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP