संस्कृत सूची|संस्कृत साहित्य|कवच|
देव्युवाच - भगवन् श्रोतु...

श्रीयोनिकवचम् - देव्युवाच - भगवन् श्रोतु...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

देव्युवाच - भगवन् श्रोतुमिच्छामि कवचं परमाद्भुतम् । इदानीं देवदेवेश कवचं सर्वसिद्धिदम् ॥१॥
महादेव उवाच - श‍ृणु देवि प्रवक्ष्यामि अतिगुह्यतमं प्रिये । यस्मै कस्मै न दातव्यं दातव्यं निष्फलं भवेत् ॥२॥
विनियोगः - अस्य श्रीयोनीकवचस्य गुप्त ऋषिः, कुलटा छन्दः, राजविघ्नोत्पातविनाशे (पाठे) विनियोगः । ह्रीं योनिर्मे सदा पातु स्वाहा विघ्नविनाशिनी । शत्रुनाशात्मिका योनिः सदा मां पातु सागरे ॥३॥
ब्रह्मात्मिका महायोनिः सर्वान् कामान् प्ररक्षतु । राजद्वारे महाघोरे क्लीं योनिः सर्वदाऽवतु ॥४॥
हूमात्मिका सदा देवी योनिरूपा जगन्मयी । सर्वाङ्गं पातु मां नित्यं सभायां राजवेश्मनि ॥५॥
वेदात्मिका सदा योनिर्वेदरूपा सरस्वती । कीर्तिं श्रीं कान्तिमारोग्यं पुत्रपौत्रादिकं तथा ॥६॥
रक्ष रक्ष महायोने सर्वसिद्धिप्रदायिनि । रजोयोगात्मिका योनिः सर्वत्र मां सदाऽवतु ॥७॥
    फलश्रुतिः । इति ते कथितं देवि कवचं सर्वसिद्धिदम् । त्रिसन्ध्यं यः पठेन्नित्यं राजोपद्रवनाशकृत् ॥८॥
सभायां वाक्पतिश्चैव राजवेश्मनि राजवत् । सर्वत्र जयमाप्नोति कवचस्य जपेन हि ॥९॥
श्रीयोन्याः सङ्गमे देवि पठेदेवमनन्यधीः । स एव सर्वसिद्धीशो नात्र कार्या विचारणा ॥१०॥
मातृकाक्षरसम्पुटं कृत्वा यदि पठेन्नरः । भुञ्जते विपुलान् भोगान् दुर्गया सह मोदते ॥११॥
इति गुह्यतमं देवि सर्वधर्मोत्तमोत्तमम् । भूर्जे वा ताडिपत्रे वा लिखित्वा धारयेद्यदि ॥१२॥
हरिचन्दनमिश्रेण रोचना कुङ्कुमेन च । शिखायामथवा कण्ठे शिवः सोऽपि न संशयः ॥१३॥
शरत्काले महाष्टम्यां नवम्यां कुलसुन्दरि । पूजाकाले पठेदेतत् जयी नित्यं न संशयः ॥१४॥
॥ इति शक्तिकागमसर्वस्वे हरगौरीसंवादे श्रीयोनिकवचं सम्पूर्णम्  ॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP