संस्कृत सूची|संस्कृत साहित्य|कवच|
देव्युवाच धनदा या महाविद...

धनदाकवचम् - देव्युवाच धनदा या महाविद...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

देव्युवाच धनदा या महाविद्या कथिता न प्रकाशिता । इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ॥
शिव उवाच श‍ृणु देवि प्रवक्ष्यामि कवचं मंत्रवग्रहम् । सारात्सारतरं देवि कवचं मन्मुखोदितम् ॥
धनदा कवचस्यास्य कुबेर ऋषिरीरितः । पंक्तिश्छन्दो देवता च धनदा सिद्धिदा सदा ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । धं बीजं मे शिरः पातु ह्रीं बीजं मे ललाटकम् ॥
श्री बीजं मे मुख पातु रकारं हृदि मेऽवतु । तिकारं पातु जठरं प्रिकारं पृष्ठतोऽवतु । येकारं जंघयोर्युग्मे स्वाकारं पादयोर्युगे । शीर्षादिपादपर्यन्तं हाकारं सर्वतोऽवतु ॥
इत्येतत्कथितं कान्ते कवचं सर्वसिद्धिदम् । गुरुमभ्यर्च्य विधिवत् कवचं प्रपठेद्यदि ॥
शतवर्षं सहस्राणां सहस्राणां पूजायाः फलमाप्नुयात् । गुरुपूजां विना देवि नहि सिद्धिः प्रजायते ॥
गुरुपूजात्परो भूत्वा कवचं प्रपठेत्ततः । सर्वसिद्धियुतो भूत्वा विचरेद् भैरवो यथा ॥
प्रातःकाले पठेद्यस्तु मंत्रजापपुरः सरम् । सोऽभीष्टफलमाप्नोति सत्यं सत्यं न संशयः ॥
पूजाकाले पठेद्यस्तु देवीं ध्यात्वा हृदम्बुजे । षण्मासाभ्यन्तरे सिद्धिर्नात्र कार्या विचारणा । सायंकाले पठेद्यस्तु स शिवो नात्र संशयः । भूर्जे विलिख्त गुटिकां स्वर्णस्थां धारयेद्यदि ॥
पुरुषो दक्षिणे बाहौ योषिद्वामभुजे तथा । दक्षिणे बाहौ योषिद्वामभुजे तथा । सर्वसिद्धियुती भूत्वा धनवान् पुत्रवान् भवेत् ॥
इदं कवचमज्ञात्वा यो जपेद्धनदां शुभे । शस्त्रघातमवाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥
कवचेनावृतो नित्यं हि यत्रैव गच्छति । तत्रैव स महादेवि सम्पूज्यो नात्र संशयः ॥
॥ इति धनदा कवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP