संस्कृत सूची|संस्कृत साहित्य|कवच| श्रीगणेशाय नमः ॥ नारद... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... विष्णुकवचं - श्रीगणेशाय नमः ॥ नारद... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र विष्णुकवचं अथवा त्रैलोक्यमङ्गलकवचम् Translation - भाषांतर श्रीगणेशाय नमः ॥ नारद उवाच । भगवन्सर्वधर्मज्ञ कवचं यत्प्रकाशितम् । त्रैलोक्यमङ्गलं नाम कृपया कथय प्रभो ॥१॥ सनत्कुमार उवाच । शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् । नारायणेन कथितं कृपया ब्रह्मणे पुरा ॥२॥ ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि ते । अति गुह्यतरं तत्त्वं ब्रह्ममन्त्रौघविग्रहम् ॥३॥ यद्धृत्वा पठनाद्ब्रह्मा सृष्टिं वितनुते ध्रुवम् । यद्धृत्वा पठनात्पाति महालक्ष्मीर्जगत्त्रयम् ॥४॥ पठनाद्धारणाच्छम्भुः संहर्ता सर्वमन्त्रवित् । त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् ॥५॥ वरदृप्तान् जघानैव पठनाद्धारणाद्यतः । एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥६॥ इदं कवचमत्यन्तगुप्तं कुत्रापि नो वदेत् । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥७॥ शठाय परशिष्याय दत्वा मृत्युमवाप्नुयात् । त्रैलोक्यमङ्गलस्यास्य कवचस्य प्रजापतिः ॥८॥ ऋषिश्छन्दश्च गायत्री देवो नारायणस्स्वयम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥९॥ प्रणवो मे शिरः पातु नमो नारायणाय च । भालं मे नेत्रयुगलमष्टार्णो भुक्तिमुक्तिदः ॥१०॥ क्लीं पायाच्छ्रोत्रयुग्मं चैकाक्षरः सर्वमोहनः । क्लीं कृष्णाय सदा घ्राणं गोविन्दायेति जिह्विकाम् ॥११॥ गोपीजनपदवल्लभाय स्वाहाननं मम । अष्टादशाक्षरो मन्त्रः कण्ठं पातु दशाक्षरः ॥१२॥ गोपीजनवल्लभाय स्वाहा भुजद्वयम् । क्लीं ग्लैं क्लीं श्यामलाङ्गाय नमः स्कन्धौ दशाक्षरः ॥१३॥ क्लीं कृष्णः क्लीं करौ पायात् क्लीं कृष्णो मां गतोऽवतु । हृदयं भुवनेशानः क्लीं कृष्णः क्लीं स्तनौ मम ॥१४॥ गोपालायाग्निजायान्तं कुक्षियुग्मं सदाऽवतु । क्लीं कृष्णाय सदा पातु पार्श्वयुग्ममनुत्तमः ॥१५॥ कृष्णगोविन्दकौ पातां स्मराद्यौ ङेयुतौ मनुः । ? अष्टाक्षरः पातु नाभिं कृष्णेति द्वयाक्षरोऽवतु ॥१६॥ पृष्ठं क्लीं कृष्णकं गल्लं क्लीं कृष्णाय द्विठान्तकः । सक्थिनी सततं पातु श्रीं ह्रीं क्लीं कृष्णठद्वयम् ॥१७॥?ठ ऊरू सप्ताक्षरः पायात्त्रयोदशाक्षरोऽवतु । श्रीं ह्रीं क्लीं पदतो गोपीजनवल्लभदन्ततः ॥१८॥ भाय स्वाहेति पायुं वै क्लीं ह्रीं श्रीं सदशार्णकः । जानुनी च सदा पातु ह्रीं श्रीं क्लीं च दशाक्षरः ॥१९॥ त्रयोदशाक्षरः पातु जङ्घे चक्राद्युदायुधः । अष्टादशाक्षरो ह्रीं श्रीं पूर्वको विंशदर्णकः ॥२०॥ सर्वाङ्गं मे सदा पातु द्वारकानायको बली । नमो भगवते पश्चाद्वासुदेवाय तत्परम् ॥२१॥ ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदाऽवतु । श्रीं ह्रीं क्लीं च दशार्णस्तु ह्रीं क्लीं श्रीं षोडशार्णकः ॥२२॥ गदाद्यायुधो विष्णुर्मामग्नेर्दिशि रक्षतु । ह्रीं श्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदाऽवतु ॥२३॥ तारो नमो भगवते रुक्मिणीवल्लभाय च । स्वाहेति षोडशार्णोऽयं नैरृत्यां दिशि रक्षतु ॥२४॥ क्लीं हृषीके पदं शाय नमो मां वारुणोऽवतु । ?शाय अष्टादषार्णः कामान्तो वायव्ये मां सदाऽवतु ॥२५॥ श्रीं मायाकामकृष्णाय गोविन्दाय द्विठो मनुः । द्वादशार्णात्मको विष्णुरुत्तरे मां सदाऽवतु ॥२६॥ वाग्भयं कामकृष्णाय ह्रीं गोविन्दाय तत्परम् । श्री गोपीजनवल्लभान्ताय स्वाहा हस्तौ ततः ॥२७॥ द्वाविंशत्यक्षरो मन्त्रो मामैशान्ये सदाऽवतु । कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम् ॥२८॥ नमामि देवकीपुत्रं नृत्यराजानमच्युतम् । द्वात्रिंशदक्षरो मन्त्रोऽप्यधो मां सर्वदाऽवतु ॥२९॥ कामदेवाय विद्महे पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयादेषा मां पातुचोर्ध्वतः ॥३०॥ इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् । त्रैलोक्यमङ्गलं नाम कवचं ब्रह्मरूपकम् ॥३१॥ ब्रह्मणा कथितं पूर्वं नारायणमुखाच्छ्रुतम् । तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ॥३२॥ गुरुं प्रणम्य विधिवत्कवचं प्रपठेत्ततः । सकृद्द्विस्त्रिर्यथाज्ञानं स हि सर्वतपोमयः ॥३३॥ मन्त्रेषु सकलेष्वेव देशिको नात्र संशयः । शतमष्टोत्तरं चास्य पुरश्चर्या विधिः स्मृतः ॥३४॥ हवनादीन्दशांशेन कृत्वा तत्साधयेद्ध्रुवम् । यदि स्यात्सिद्धकवचो विष्णुरेव भवेत्स्वयम् ॥३५॥ मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः । स्पर्धामुद्धूय सततं लक्ष्मीर्वाणी वसेत्ततः ॥३६॥ पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत्सकृत् । दशवर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥३७॥ भूर्जे विलिख्याङ्गुलिकां स्वर्णस्थां धारयेद्यदि । कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥३८॥ अश्वमेधसहस्राणि वाजपेयशतानि च । महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥३९॥ कलां नार्हन्ति तान्येव सकृदुच्चारणात्ततः । कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥४०॥ त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् । इदं कवचमज्ञात्वा यजेद्यः पुरुषोत्तमम् । शतलक्षं प्रजप्तोऽपि न मन्त्रस्तस्य सिद्ध्यति ॥४१॥ इति श्री नारदपञ्चरात्रे ज्ञानामृतसारे त्रैलोक्यमङ्गलं नाम विष्णुकवचं सम्पूर्णम् ॥ N/A References : N/A Last Updated : December 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP