संस्कृत सूची|संस्कृत साहित्य|कवच|
आद्यं रङ्गमिति प्रोक्तं व...

श्रीवराहकवचम् - आद्यं रङ्गमिति प्रोक्तं व...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

आद्यं रङ्गमिति प्रोक्तं विमानं रङ्गसंज्ञितम् । श्रीमुष्णं वेङ्कटाद्रिं च साळग्रामं च नैमिशम् ॥
तोयाद्रिं पुष्करं चैव नरनारायणाश्रमम् । अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥
श्रीसूतः - श्रीरुद्रमुखनिर्णीतमुरारिगुणसत्कथा । सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् ॥१॥
श्रीपार्वत्युवाच - श्रीमुष्णेशस्य माहात्म्यं वराहस्य महात्मनः । श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते । श्रोतुं तद्देवमाहात्म्यं तस्माद्वर्णय मे पुनः ॥२॥
श्रीशङ्कर उवाच - श‍ृणु देवि प्रवक्ष्यामि श्रीमुष्णेशस्य वैभवम् । यस्य श्रवणमात्रेण महापापैः प्रमुच्यते । सर्वेषामेव तीर्थानां तीर्थराजोऽभिधीयते ॥३॥
नित्यपुष्करिणी नाम्नी श्रीमुष्णे या च वर्तते । जाता श्रमापहा पुण्या वराहश्रमवारिणा ॥४॥
विष्णोरङ्गुष्ठसंस्पर्शात्पुण्यदा खलु जाह्नवी । विष्णोः सर्वाङ्गसम्भूता नित्यपुष्करिणी शुभा ॥५॥
महानदीसहस्त्रेण नित्यदा सङ्गता शुभा । सकृत्स्नात्वा विमुक्ताघः सद्यो याति हरेः पदम् ॥६॥
तस्या आग्नेयभागे तु अश्वत्थच्छाययोदके । स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् ॥७॥
दृष्ट्वा श्वेतवराहं च मासमेकं नयेद्यदि । कालमृत्युं विनिर्जित्य श्रिया परमया युतः ॥८॥
आधिव्याधिविनिर्मुक्तो ग्रहपीडाविवर्जितः । भुक्त्वा भोगाननेकांश्च मोक्षमन्ते व्रजेद्ध्रुवम् ॥९॥
अश्वत्थमूलेऽर्कवारे नित्यपुष्करिणीतटे । वराहकवचं जप्त्वा शतवारं जितेन्द्रियः ॥१०॥
क्षयापस्मारकुष्ठाद्यैः महारोगैः प्रमुच्यते । वराहकवचं यस्तु प्रत्यहं पठते यदि ॥११॥
शत्रुपीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् । लिखित्वा धारयेद्यस्तु बाहुमूले गलेऽथ वा ॥१२॥
भूतप्रेतपिशाचाद्याः यक्षगन्धर्वराक्षसाः । शत्रवो घोरकर्माणो ये चान्ये विषजन्तवः । नष्टदर्पा विनश्यन्ति विद्रवन्ति दिशो दश ॥१३॥
श्रीपार्वत्युवाच - तद्ब्रूहि कवचं मह्यं येन गुप्तो जगत्त्रये । सञ्चरेद्देववन्मर्त्यः सर्वशत्रुविभीषणः । येनाप्नोति च साम्राज्यं तन्मे ब्रूहि सदाशिव ॥१४॥
श्रीशङ्कर उवाच - श‍ृणु कल्याणि वक्ष्यामि वाराहकवचं शुभम् । येन गुप्तो लभेन्मर्त्यो विजयं सर्वसम्पदम् ॥१५॥
अङ्गरक्षाकरं पुण्यं महापातकनाशनम् । सर्वरोगप्रशमनं सर्वदुर्ग्रहनाशनम् ॥१६॥
विषाभिचारकृत्यादि शत्रुपीडानिवारणम् । नोक्तं कस्यापि पूर्वं हि गोप्याद्गोप्यतरं यतः ॥१७॥
वराहेण पुरा प्रोक्तं मह्यं च परमेष्ठिने । युद्धेषु जयदं देवि शत्रुपीडानिवारणम् ॥१८॥
वराहकवचाद्गुप्तो नाशुभं लभते नरः । वराहकवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ॥१९॥
छन्दोऽनुष्टुप् तथा देवो वराहो भूपरिग्रहः । प्रक्षाल्य पादौ पाणी च सम्यगाचम्य वारिणा ॥२०॥
कृतस्वाङ्गकरन्यासः सपवित्र उदङ्मुखः । ओं भूर्भुवःसुवरिति नमो भूपतयेऽपि च ॥२१॥
नमो भगवते पश्चाद्वराहाय नमस्तथा । एवं षडङ्गं न्यासं च न्यसेदङ्गुलिषु क्रमात् ॥२२॥
नमः श्वेतवराहाय महाकोलाय भूपते । यज्ञाङ्गाय शुभाङ्गाय सर्वज्ञाय परात्मने ॥२३॥
स्रवतुण्डाय धीराय परब्रह्मस्वरूपिणे । वक्रदंष्ट्राय नित्याय नमोऽन्तैर्नामभिः क्रमात् ॥२४॥
अङ्गुलीषु न्यसेद्विद्वान् करपृष्ठतलेष्वपि । ध्यात्वा श्वेतवराहं च पश्चान्मन्त्रमुदीरयेत् ॥२५॥
ॐ श्वेतं वराहवपुषं क्षितिमुद्धरन्तं शङ्खारिसर्ववरदाभययुक्तबाहुम् । ध्यायेन्निजैश्च तनुभिः सकलैरुपेतं पूर्णं विभुं सकलवाञ्छितसिद्धयेऽजम् ॥२६॥
वराहः पूर्वतः पातु दक्षिणे दण्डकान्तकः । हिरण्याक्षहरः पातु पश्चिमे गदया युतः ॥२७॥
उत्तरे भूमिहृत्पातु अधस्ताद्वायु वाहनः । ऊर्ध्वं पातु हृषीकेशो दिग्विदिक्षु गदाधरः ॥२८॥
प्रातः पातु प्रजानाथः कल्पकृत्सङ्गमेऽवतु । मध्याह्ने वज्रकेशस्तु सायाह्ने सर्वपूजितः ॥२९॥
प्रदोषे पातु पद्माक्षो रात्रौ राजीवलोचनः । निशीन्द्रगर्वहा पातु पातूषः परमेश्वरः ॥३०॥
अटव्यामग्रजः पातु गमने गरुडासनः । स्थले पातु महातेजाः जले पात्ववनीपतिः ॥३१॥
गृहे पातु गृहाध्यक्षः पद्मनाभः पुरोऽवतु । झिल्लिकावरदः पातु स्वग्रामे करुणाकरः ॥३२॥
रणाग्रे दैत्यहा पातु विषमे पातु चक्रभृत् । रोगेषु वैद्यराजस्तु कोलो व्याधिषु रक्षतु ॥३३॥
तापत्रयात्तपोमूर्तिः कर्मपाशाच्च विश्वकृत् । क्लेशकालेषु सर्वेषु पातु पद्मापतिर्विभुः ॥३४॥
हिरण्यगर्भसंस्तुत्यः पादौ पातु निरन्तरम् । गुल्फौ गुणाकरः पातु जङ्घे पातु जनार्दनः ॥३५॥
जानू च जयकृत्पातु पातूरू पुरुषोत्तमः । रक्ताक्षो जघने पातु कटिं विश्वम्भरोऽवतु ॥३६॥
पार्श्वे पातु सुराध्यक्षः पातु कुक्षिं परात्परः । नाभिं ब्रह्मपिता पातु हृदयं हृदयेश्वरः ॥३७॥
महादंष्ट्रः स्तनौ पातु कण्ठं पातु विमुक्तिदः । प्रभञ्जनपतिर्बाहू करौ कामपिताऽवतु ॥३८॥
हस्तौ हंसपतिः पातु पातु सर्वाङ्गुलीर्हरिः । सर्वाङ्गश्चिबुकं पातु पात्वोष्ठौ कालनेमिहा ॥३९॥
मुखं तु मधुहा पातु दन्तान् दामोदरोऽवतु । नासिकामव्ययः पातु नेत्रे सूर्येन्दुलोचनः ॥४०॥
फालं कर्मफलाध्यक्षः पातु कर्णौ महारथः । शेषशायी शिरः पातु केशान् पातु निरामयः ॥४१॥
सर्वाङ्गं पातु सर्वेशः सदा पातु सतीश्वरः । इतीदं कवचं पुण्यं वराहस्य महात्मनः ॥४२॥
यः पठेच्छृणुयाद्वापि तस्य मृत्युर्विनश्यति । तं नमस्यन्ति भूतानि भीताः साञ्जलिपाणयः ॥४३॥
राजदस्युभयं नास्ति राज्यभ्रंशो न जायते । यन्नामस्मरणाद्भीताः भूतवेताळराक्षसाः ॥४४॥
महारोगाश्च नश्यन्ति सत्यं सत्यं वदाम्यहम् । कण्ठे तु कवचं बद्ध्वा वन्ध्या पुत्रवती भवेत् ॥४५॥
शत्रुसैन्यक्षयप्राप्तिः दुःखप्रशमनं तथा । उत्पातदुर्निमित्तादि सूचितारिष्टनाशनम् ॥४६॥
ब्रह्मविद्याप्रबोधं च लभते नात्र संशयः । धृत्वेदं कवचं पुण्यं मान्धाता परवीरहा ॥४७॥
जित्वा तु शाम्बरीं मायां दैत्येन्द्रानवधीक्षणात् । कवचेनावृतो भूत्वा देवेन्द्रोऽपि सुरारिहा ॥४८॥
भूम्योपदिष्टकवचधारणान्नरकोऽपि च । सर्वावध्यो जयी भूत्वा महतीं कीर्तिमाप्तवान् ॥४९॥
अश्वत्थमूलेऽर्कवारे नित्यपुष्करिणीतटे । वराहकवचं जप्त्वा शतवारं पठेद्यदि ॥५०॥
अपूर्वराज्यसंप्राप्तिं नष्टस्य पुनरागमम् । लभते नात्र सन्देहः सत्यमेतन्मयोदितम् ॥५१॥
जप्त्वा वराहमन्त्रं तु लक्षमेकं निरन्तरम् । दशांशं तर्पणं होमं पायसेन घृतेन च ॥५२॥
कुर्वन् त्रिकालसन्ध्यासु कवचेनावृतो यदि । भूमण्डलाधिपत्यं च लभते नात्र संशयः ॥५३॥
इदमुक्तं मया देवि गोपनीयं दुरात्मनाम् । वराहकवचं पुण्यं संसारार्णवतारकम् ॥५४॥
महापातककोटिघ्नं भुक्तिमुक्तिफलप्रदम् । वाच्यं पुत्राय शिष्याय सद्वृत्ताय सुधीमते ॥५५॥
श्रीसूतः - इति पत्युर्वचः श्रुत्वा देवी सन्तुष्टमानसा । विनायकगुहौ पुत्रौ प्रपेदे द्वौ सुरार्चितौ । कवचस्य प्रभावेन लोकमाता च पार्वती ॥५६॥
य इदं श‍ृणुयान्नित्यं यो वा पठति नित्यशः । स मुक्तः सर्वपापेभ्यो विष्णुलोके महीयते ॥५७॥
इति श्रीवराहकवचं सम्पूर्णम् ।

आद्यं रङ्गमिति प्रोक्तं विमानं रङ्गसंज्ञितम् । श्रीमुष्णं वेङ्कटाद्रिं च साळग्रामं च नैमिशम् ॥
तोयाद्रिं पुष्करं चैव नरनारायणाश्रमम् । अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP