संस्कृत सूची|
संस्कृत साहित्य|
कवच|
अथ श्रीराघवेन्द्रार्यरक्ष...
श्रीराघवेन्द्ररक्षाकवचम् - अथ श्रीराघवेन्द्रार्यरक्ष...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
अथ श्रीराघवेन्द्रार्यरक्षाकवचमद्भुतम् । वक्ष्यामि दंशितो येन क्षेमवान् विजयी भवेत् ॥१॥
गुरुराजप्रेमपुत्रः तत्प्रसादपुरस्कृतः । कृष्णावधूतनामाऽहं तस्य सन्निधिकारकम् ॥२॥
छन्दः त्रिष्टुप् समाख्यातं देवता गुरुराट् स्मृतः । मन्त्रन्यासः प्रकर्तव्यो ध्यानं वक्ष्यामि सद्गुरोः ॥३॥
करधृतलगुढं धृताक्षमालं दरविवृतेक्षणमम्बुजासनस्थम् । दरचलदधरं गुरुं दधानं वरमभयप्रणतेष्टदं स्मरामि ॥४॥
ॐ पूर्वेऽत्र मां रक्षतु राघवेन्द्रो मां दक्षिणेऽव्याद्घनपापहन्ता । अव्यात्प्रतीच्यामभयप्रदाता पातूत्तरस्यां दिशि शान्तिकर्ता ॥५॥
आग्नेयभागेऽवतु दिव्यतेजाः नैऋत्यभागेऽवतु दुष्टहन्ता । वायुव्यभागेऽवतु वज्रकायो मामीशभागेऽवतु सिद्धिदाता ॥६॥
पायात् शिखां मे श्रितरामपादः पायात् शिरो मे शशिशीतवृत्तिः । भालं ममाव्याद्दुरदृष्टहर्ता भ्रुवौ ममाव्याद्भवतापहर्ता ॥७॥
कूर्चं ममाव्यात् कुलशीलशाली नेत्रे ममाव्यान्नयनप्रदाता । कर्णौ ममाव्याद्बधिरत्वहारी गण्डौ ममाव्याद्गरदोषहारी ॥८॥
ओष्ठाधरौ मेऽवतु कष्टहारी नासां सदा मेऽवतु नादकारी । जिह्वां सदा रक्षतु वाक्प्रदाता दन्तान् सदा रक्षतु भक्ष्यदाता ॥९॥
पायात् सदा मे चिबुकं यतीशः । पायात् सदा मे वदनं व्रतीशः । कण्ठं नु कण्ठीरवभक्तवर्यः स्कन्धौ ममाव्याद्धृतपुष्पमालः ॥१०॥
भुजौ ममाव्यादिह बाहुदाता करौ ममाव्याद्वरदानशूरः । हस्ताङ्गुलीन् मे मनुजापकोऽव्यात् वक्षो ममाव्याद्घनसंशयच्छित् ॥११॥
कुक्षिं ममाव्यादयमामयघ्नः पार्श्वे ममाव्याद्भवभीतिहर्ता । साहाय्यकर्ता मम पातु पृष्ठं कटिं सदा मे कनकाम्बरोऽव्यात् ॥१२॥
मेहामयघ्नोऽवतु मे तु गुह्यं ऊरू सदा मेऽवतु वेगशीलः । मौनव्रती मेऽवतु जानुनी च जङ्घे ममाव्याज्जवनत्वदायी ॥१३॥
गुल्भौ ममाव्याद्गुणवर्णनीयः पादौ ममाव्यात्परपीडितारिः । यद्यन्ममाङ्गं न मयोक्तमत्र तत्तत्समस्तं च दयालुरव्यात् ॥१४॥
पितॄंश्च पत्नींश्च सुतांश्च बन्धून् पौत्रादिकान्मे सुतवत्सलोऽव्यात् । व्याघ्राऽहिभल्लूकवराहदन्ती लुलायसिंहांश्च सृगाल चोरान् ॥१५॥
हत्वा च दुष्टान् कृमिवृश्चिकाण्ड- जातान् ममाव्याद्गुरुराजदण्डः । भिन्द्यात्पिशाचासुरयक्षरक्षो भूतग्रहादीन् गुरुपादरेणुः ॥१६॥
अग्न्यम्बुशैलाशनिराजशत्रु- विषादितोऽव्याद्गुरुपादतीर्थम् । कुष्ठज्वरार्शःक्षयमुख्यरोगान् विनाशयित्वाऽवतु मृत्तिका सा ॥१७॥
धान्यं धनं भूषणवस्त्रगेह- धैर्यं ममाव्याद्गुरुराघवेन्द्रः । राजारिनारीनरवश्यसिद्धिं मित्रादिकप्रेमकवित्वविद्याः ॥१८॥
सर्वानुकूल्यं सकलार्थसिद्धिं दधातु मे सिद्धगणाग्रगण्यः । ज्ञानं सदाचारमुदारभावं चित्तेन्द्रियादीनि च पातु सूज्ञः ॥१९॥
धर्मानुकूल्यं कृतपुण्यकर्म विवेकमित्यादि पिता ममाव्यात् । सङ्कल्पसिद्धिं मम वाक्यसिद्धिं जयं च सर्वत्र ददात्वभीष्टः ॥२०॥
पुरश्च मेऽव्याद्वरदानकारी पश्चाश्च मेऽव्याद्बलदानकारी । ऊर्ध्वं ममाऽव्यात्परितापहारी अधश्च मेऽव्यात् स्थिवासकारी ॥२१॥
दिवा प्रभाते निशि च प्रदोषे मध्यन्दिनेऽव्यान्मम जागरूकः । सर्वेषु कार्येषु च सर्वदा मां पायाद्गुरुर्मत्कृतसन्निधानः ॥२२॥
इदं श्रीराघवेनद्रार्यकवचं रक्षकः परम् । त्रिकालं वा द्विकालं वा सकृद्वा पठितां दिनम् ॥२३॥
कुष्ठादि रोगशमनं सर्वपीडाहरं शुभम् । कविताशास्त्रविज्ञानप्रदं वादिजयप्रदम् ॥२४॥
सर्वसाध्वसरक्षार्थं ब्रह्मास्त्रसदृशं कलौ ॥२५॥
वन्दे श्रीगुरुराजमुग्रतपसं सर्वारिदर्पापहं देवेन्द्राभसमृद्धसम्पदममुं भक्तिप्रियं सद्गुरुम् । भक्तत्राणनबद्धकङ्कणमसद्भाधाहरं स्वर्गवी- स्वारत्नस्वरगात्युदारहृदयं तं रिष्टतातिं प्रभुम् ॥२६॥
इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे श्रीराघवेन्द्ररक्षाकवचं नाम पञ्चमपटलः सम्पूर्णः ।
N/A
References : N/A
Last Updated : December 01, 2025

TOP