संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीदेव्युवाच । ॐ भगवन...

श्रीभद्रकालीकवचम् - ॐ श्रीदेव्युवाच । ॐ भगवन...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीदेव्युवाच । ॐ भगवन्करुणाम्भोधे शास्त्राम्भो निधिपारगः । त्रैलोक्यसारयेत्तत्त्वं जगद्रक्षणकारकः ॥१॥
भद्रकाल्या महादेव्याः कवचं मन्त्रगर्भकम् । जगन्मङ्गलदं नाम वद शम्भो दयानिधे ॥२॥
श्री भैरवः उवाच । भैम्भद्रकाली कवचं जगत्मङ्गलनामकम् । गुह्यं सनातनं पुण्यं गोपनीयं विशेषतः ॥३॥
जगत्मङ्गलनाम्नोस्य कवचस्य ऋषिः शिवः । उष्णिक्छन्दः समाख्यातं देवता भद्रकालिका ॥४॥
भैं बीजं हूं शक्तिः तथा स्वाहा कीलकमुच्यते । धर्मार्थ काम मोक्षार्थे विनियोगः प्रकीर्तितः ॥५॥
अस्य श्री जगत्मङ्गल नाम्नो भद्रकाली कवचस्य शिवऋषिः, उष्णिक् छन्दः, श्रीभद्रकाली देवता, भैं बीजं, हूं शक्तिः, स्वाहा कीलकं, धर्मार्थकाममोक्षार्थे कवच पाठे विनियोगः । अथ ध्यानम् । उद्यश्चन्द्रकलावतंसित शिखां क्रीङ्कार वर्णूज्वलाम् । श्यामां श्याममुखीं रवीन्दु नयनां हूं वर्ण रक्ताधराम् ॥६॥
भैं बीजाङ्कित मानसां शवगतां नीलाम्बरोद्भासिताम् । स्वाहालङ्कृत सर्व गात्र लतिकां भैं भद्रकालीं भजे ॥७॥
ॐ भैं पातु मे शिरो नित्यं देवी भद्रकालिका । ललाटं क्रीं सदा पातु महारत्नेश्वरी तथा ॥८॥
क्रीं भ्रुवौ पातु मे नित्यं महाकामेश्वरी तथा । नेत्रेव्यात् क्रीं च मे नित्यं नित्यानन्दमयी शिवा ॥९॥
गण्डौ मे पातु भैं नित्यं सर्वलोकमहेश्वरी । श्रुती ह्रीं पातु मे नित्यं सर्वमङ्गलमङ्गला ॥१०॥
नासां ह्रीं पातु मे नित्यं महात्रिभुवनेश्वरी । अधरे हूं सदाव्यान्मे सर्वमन्त्रमयी तथा ॥११॥
जिह्वां क्रीं मे सदा पातु विशुद्धेश्वररूपिणी । भैं ह्रीं ह्रीं मे रदान्पातु नित्या क्रीं कुलसुन्दरी ॥१२॥
ह्रीं हूं क्रीं मे गलं पातु ज्वालामण्डलमण्डना । ह्रीं हूं क्रीं मे भुजौ पातु भवमोक्षप्रदाम्बिका ॥१३॥
ह्रीं हूं क्रीं मे करौ पातु सर्वानन्दमयी तथा । स्तनौ क्रीं हूं सदा पातु नित्या नीलपताकिनी ॥१४॥
क्रीं भैं ह्रीं मम वक्षोव्यात् ब्रह्मविद्यामयी शिवा । भैं हूं कुक्षिं मे सदा पातु महात्रिपुरसुन्दरी ॥१५॥
ऐं सौः भैं पातु मे पार्श्वौ विद्या चतुर्दशात्मिका । ऐं क्लीं भैं पातु मे पृष्ठं सर्वमन्त्रविभूषिता ॥१६॥
ॐ क्रीं ऐं सौः सदाव्यान्मे नाभिं भैं बैन्दवेश्वरी । ॐ ह्रीं हूं पातु शिश्नं मे देवता भगमालिनी ॥१७॥
ह्रीं ह्रीं ह्रीं मे कटिं पातु देवता भगरूपिणी । हूं हूं भैं भैं सदाव्यान्मे देवी ब्रह्मस्वरूपिणी ॥१८॥
ॐ क्रीं हूं पातु मे जानू महात्रिपुरभैरवी । ॐ क्रीं ऐं सौः पातु मे जङ्घे बालाश्रीत्रिपुरेश्वरी ॥१९॥
गुल्फौ मे क्रीं सदा पातु शिवशक्तिस्वरूपिणी । क्रीं ऐं सौः पातु मे पादौ पायाद् श्रीकुलसुन्दरी ॥२०॥
भैं क्रीं हूं श्रीं सदा पातु पादाधः कुलशेखरा । ॐ क्रीं हूं श्रीं सदाव्यान्मे पादपृष्ठं महेश्वरी ॥२१॥
क्रीं हूं श्रीं भैं वपु पायात् सर्वं मे भद्रकालिका । क्रीं ह्रीं ह्रीं पातु मां प्रातर्देवेन्द्री वज्रयोगिनी ॥२२॥
हूं भैं मां पातु मध्यान्हे नित्यमेकादशाक्षरी । ॐ ऐं सौः पातु मां सायन्देवता परमेश्वरी ॥२३॥
निशादौ क्रीं च मां पातु देवी श्रीषोडशाक्षरी । अर्धरात्रे च मां पातु क्रीं हूं भैं छिन्नमस्तका ॥२४॥
निशावसान समये पातु मां क्रीं च पञ्चमी । पूर्वे मां पातु श्रीं ह्रीं क्लीं राज्ञी राज्यप्रदायिनी ॥२५॥
ॐ ह्रीं हूं मां पश्चिमेव्यात्सर्वदा तत्त्वरूपिणी । ऐं सौः मां दक्षिणे पातु देवी दक्षिणकालिका ॥२६॥
ऐं क्लीं मामुत्तरे पातु राजराजेश्वरी तथा । व्रजन्तं पातु मां श्रीं हूं तिष्ठन्तं क्रीं सदावतु ॥२७॥
प्रबुधं हूं सदा पातु सुप्तं मां पातु सर्वदा । आग्नेये क्रीं सदा पातु नैरृत्ये हूं तथावतु ॥२८॥
वायव्ये क्रीं सदा पायादैशान्यां भैं सदावतु । ऊर्ध्वं क्रीं मां सदा पातु ह्यधस्ता ह्रीं तथैवतु ॥२९॥
चौरतोपाप्तिभीतिभ्यः पायान्मां श्रीं शिवेश्वरी । यक्षभूतपिशाचादि राक्षसेभ्योवतात्सदा ॥३०॥
ऐं क्लीं सौः हूं च मातङ्गीचोच्छिष्ठपदरूपिणी । दैत्यभूचरभीतिभ्योवताद् द्वाविंशदक्षरी ॥३१॥
विस्मारितं तु यत्स्थानं यत्स्थानं नामवर्जितम् । तत्सर्वं पातु मे नित्यं देवी भैं भद्रकालिका ॥३२॥
इतीदं कवचं देवि सर्वमन्त्रमयं परम् । जगत्मङ्गलनामेदं रहस्यं सर्व कामिकम् ॥३३॥
रहस्याति रहस्यं च गोप्यं गुप्ततरं कलौ । मन्त्रगर्भं च सर्वस्वं भद्रकाल्या मयास्मृतम् ॥३४॥
अदृष्टव्यमवक्तव्यं अदातव्यमवाचिकम् । अश्रोतव्यमिदं वर्म दीक्षाहीनाय पार्वति ॥३५॥
अभक्तेभ्योपिपुत्रेभ्यो दत्वा नरक माप्नुयात् । दातव्यमभक्तेभ्यो भक्तेभ्यो दीयते सदा ॥३६॥
महादारिद्र्य शमनं महामङ्गलवर्धनम् । भूर्जत्वचि लिखेद्देवि रोचना चन्दनेन च ॥३७॥
श्वेतसूत्रेण संवेष्ट्य धारयेन्मूर्ध्नि वा भुजे । मूर्ध्नि धृत्वा च कवचं त्रैलोक्यविजयं भवेत् ॥३८॥
भुजे धृत्वा रिपुञ्जित्वा रणे जयमवाप्नुयात् । इतीदं कवचं देवि मूलमन्त्रैक साधनम् ॥३९॥
गुह्यं गोप्यं परं पुण्यं गोपनीय स्वयोनिवत् ।
॥ इति श्रीभैरवीतन्त्रे भद्रकालीकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP