संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीगणेशाय नमः । श्रीभैर...
श्रीलक्ष्मीनारायणकवचम् - श्रीगणेशाय नमः । श्रीभैर...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः । श्रीभैरव उवाच । अधुना देवि वक्ष्यामि लक्ष्मीनारायणस्य ते । कवचं मन्त्रगर्भं च वज्रपञ्जरकाख्यया ॥१॥
श्रीवज्रपञ्जरं नाम कवचं परमाद्भुतम् । रहस्यं सर्वदेवानां साधकानां विशेषतः ॥२॥
यं धृत्वा भगवान् देवः प्रसीदति परः पुमान् । यस्य धारणमात्रेण ब्रह्मा लोकपितामहः ॥३॥
ईश्वरोऽहं शिवो भीमो वासवोऽपि दिवस्पतिः । सूर्यस्तेजोनिधिर्देवि चन्द्रर्मास्तारकेश्वरः ॥४॥
वायुश्च बलवांल्लोके वरुणो यादसाम्पतिः । कुबेरोऽपि धनाध्यक्षो धर्मराजो यमः स्मृतः ॥५॥
यं धृत्वा सहसा विष्णुः संहरिष्यति दानवान् । जघान रावणादींश्च किं वक्ष्येऽहमतः परम् ॥६॥
कवचस्यास्य सुभगे कथितोऽयं मुनिः शिवः । त्रिष्टुप् छन्दो देवता च लक्ष्मीनारायणो मतः ॥७॥
रमा बीजं परा शक्तिस्तारं कीलकमीश्वरि । भोगापवर्गसिद्ध्यर्थं विनियोग इति स्मृतः ॥८॥
ॐ अस्य श्रीलक्ष्मीनारायणकवचस्य शिवः ऋषिः , त्रिष्टुप् छन्दः , श्रीलक्ष्मीनारायण देवता , श्रीं बीजं , ह्रीं शक्तिः , ॐ कीलकं , भोगापवर्गसिद्ध्यर्थे पाठे विनियोगः । अथ ध्यानम् । पूर्णेन्दुवदनं पीतवसनं कमलासनम् । लक्ष्म्या श्रितं चतुर्बाहुं लक्ष्मीनारायणं भजे ॥९॥
अथ कवचम् । ॐ वासुदेवोऽवतु मे मस्तकं सशिरोरुहम् । ह्रीं ललाटं सदा पातु लक्ष्मीविष्णुः समन्ततः ॥१०॥
ह्सौः नेत्रेऽवताल्लक्ष्मीगोविन्दो जगतां पतिः । ह्रीं नासां सर्वदा पातु लक्ष्मीदामोदरः प्रभुः ॥११॥
श्रीं मुखं सततं पातु देवो लक्ष्मीत्रिविक्रमः । लक्ष्मी कण्ठं सदा पातु देवो लक्ष्मीजनार्दनः ॥१२॥
नारायणाय बाहू मे पातु लक्ष्मीगदाग्रजः । नमः पार्श्वौ सदा पातु लक्ष्मीनन्दैकनन्दनः ॥१३॥
अं आं इं ईं पातु वक्षो ॐ लक्ष्मीत्रिपुरेश्वरः । उं ऊं ऋं ॠं पातु कुक्षिं ह्रीं लक्ष्मीगरुडध्वजः ॥१४॥
लृं लॄं एं ऐं पातु पृष्ठं ह्सौः लक्ष्मीनृसिंहकः । ओं औं अं अः पातु नाभिं ह्रीं लक्ष्मीविष्टरश्रवः ॥१५॥
कं खं गं घं गुदं पातु श्रीं लक्ष्मीकैटभान्तकः । चं छं जं झं पातु शिश्र्नं लक्ष्मी लक्ष्मीश्वरः प्रभुः ॥१६॥
टं ठं डं ढं कटिं पातु नारायणाय नायकः । तं थं दं धं पातु चोरू नमो लक्ष्मीजगत्पतिः ॥१७॥
पं फं बं भं पातु जानू ॐ ह्रीं लक्ष्मीचतुर्भुजः । यं रं लं वं पातु जङ्घे ह्सौः लक्ष्मीगदाधरः ॥१८॥
शं षं सं हं पातु गुल्फौ ह्रीं श्रीं लक्ष्मीरथाङ्गभृत् । ळं क्षः पादौ सदा पातु मूलं लक्ष्मीसहस्रपात् ॥१९॥
ङं ञं णं नं मं मे पातु लक्ष्मीशः सकलं वपुः । इन्द्रो मां पूर्वतः पातु वह्निर्वह्नौ सदावतु ॥२०॥
यमो मां दक्षिणे पातु नैरृत्यां निरृतिश्च माम् । वरुणः पश्चिमेऽव्यान्मां वायव्येऽवतु मां मरुत् ॥२१॥
उत्तरे धनदः पायादैशान्यामीश्वरोऽवतु । वज्रशक्तिदण्डखड्ग पाशयष्टिध्वजाङ्किताः ॥२२॥
सशूलाः सर्वदा पान्तु दिगीशाः परमार्थदाः । अनन्तः पात्वधो नित्यमूर्ध्वे ब्रह्मावताच्च माम् ॥२३॥
दशदिक्षु सदा पातु लक्ष्मीनारायणः प्रभुः । प्रभाते पातु मां विष्णुर्मध्याह्ने वासुदेवकः ॥२४॥
दामोदरोऽवतात् सायं निशादौ नरसिंहकः । सङ्कर्षणोऽर्धरात्रेऽव्यात् प्रभातेऽव्यात् त्रिविक्रमः ॥२५॥
अनिरुद्धः सर्वकालं विश्वक्सेनश्च सर्वतः । रणे राजकुले द्युते विवादे शत्रुसङ्कटे ॐ ह्रीं ह्सौः ह्रीं श्रीं मूलं लक्ष्मीनारायणोऽवतु ॥२६॥
ॐॐॐरणराजचौररिपुतः पायाच्च मां केशवः ह्रींह्रींह्रींहह्हाह्सौः ह्सह्सौः वह्नेर्वतान्माधवः । ह्रींह्रींह्रींजलपर्वताग्निभयतः पायादनन्तो विभुः श्रींश्रींश्रींशशशाललं प्रतिदिनं लक्ष्मीधवः पातु माम् ॥२७॥
इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् । लक्ष्मीनारायणस्येष्टं चतुर्वर्गफलप्रदम् ॥२८॥
सर्वसौभाग्यनिलयं सर्वसारस्वतप्रदम् । लक्ष्मीसंवननं तत्त्वं परमार्थरसायनम् ॥२९॥
मन्त्रगर्भं जगत्सारं रहस्यं त्रिदिवौकसाम् । दशवारं पठेद्रात्रौ रतान्ते वैष्णवोत्तमः ॥३०॥
स्वप्ने वरप्रदं पश्येल्लक्ष्मीनारायणं सुधीः । त्रिसन्ध्यं यः पठेन्नित्यं कवचं मन्मुखोदितम् ॥३१॥
स याति परमं धाम वैष्णवं वैष्णवेश्वरः । महाचीनपदस्थोऽपि यः पठेदात्मचिन्तकः ॥३२॥
आनन्दपूरितस्तूर्णं लभेद् मोक्षं स साधकः । गन्धाष्टकेन विलिखेद्रवौ भूर्जे जपन्मनुम् ॥३३॥
पीतसूत्रेण संवेष्ट्य सौवर्णेनाथ वेष्टयेत् । धारयेद्गुटिकां मूर्ध्नि लक्ष्मीनारायणं स्मरन् ॥३४॥
रणे रिपुन् विजित्याशु कल्याणी गृहमाविशेत् । वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥३५॥
सा बध्नीयान् कण्ठदेशे लभेत् पुत्रांश्चिरायुषः । गुरुपदेशतो धृत्वा गुरुं ध्यात्वा मनुं जपन् ॥३६॥
वर्णलक्षपुरश्चर्या फलमाप्नोति साधकः । बहुनोक्तेन किं देवि कवचस्यास्य पार्वति ॥३७॥
विनानेन न सिद्धिः स्यान्मन्त्रस्यास्य महेश्वरि । सर्वागमरहस्याढ्यं तत्त्वात् तत्त्वं परात् परम् ॥३८॥
अभक्ताय न दातव्यं कुचैलाय दुरात्मने । दीक्षिताय कुलीनाय स्वशिष्याय महात्मने ॥३९॥
महाचीनपदस्थाय दातव्यं कवचोत्तमम् । गुह्यं गोप्यं महादेवि लक्ष्मीनारायणप्रियम् । वज्रपञ्जरकं वर्म गोपनीयं स्वयोनिवत् ॥४०॥
॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये लक्ष्मीनारायणकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 02, 2025

TOP