संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीगणेशाय नमः । श्रीदेव...
त्रैलोक्यमोहनकवचम् - श्रीगणेशाय नमः । श्रीदेव...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः । श्रीदेव्युवाच । देवदेव! महादेव! संसारप्रीतिकारक । सर्वविद्येश्वरी-विद्याकवचं कथयध्रुवम् ॥१॥ (कथयाद्भुताम्)
श्रीशिव उवाच । शृणु देवि महाविद्यां सर्वविद्योत्तमोत्तमाम् । सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम् ॥२॥
यस्याः कटाक्षमात्रेण त्रैलोक्यविजयी हरः । बभूव कमलानाथो विष्णुर्ब्रह्मा प्रजापतिः ॥३॥ (विभुर्ब्रह्मा)
शचीस्वामी देवनाथो यमोऽपि धर्मनायकः । (यमनायकः) त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया ॥४॥
दिनस्वामी रविश्चन्द्रो निशापतिर्ग्रहेश्वरः । जलाधिपश्च वरुणो कुबेरोऽपि धनेश्वरः ॥५॥
अव्याहतगतिर्वायुर्गजास्यो विघ्ननाशकः । (विघ्ननायकः) वागीश्वरः सुराचार्यो दैत्याचार्यो गुरुः कविः ॥६॥ (महाकविः)
एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये । तस्यास्तु कवचं दिव्यं मन्त्ररूपं विभावय ॥७॥
ॐ अस्य श्रीदक्षिणकालीकवचमन्त्रस्य भैरव ऋषिः, अनुष्टुप् छन्दः, श्मशानकाली देवता, धर्मार्थकाममोक्षार्थे जपे विनियोगः । (ऋष्यादि न्यासः । श्रीमहाकालभैरवाय नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीदक्षिकालिकादेवतायै नमः हृदि । धर्मार्थकाममोक्षार्थे पाठे विनियोगाय नमः अञ्जलौ ।)
ललाटं पातु च क्रीं मे हरेणाराधिता सदा । नेत्रे मे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा ॥८॥
क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा । क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा ॥९॥
क्रीं स्वाहा श्रवणं पातु यमेनैव प्रपूजिता । क्रीं हूँ ह्रीं स्वाहा रसनां गङ्गया सेविताऽवतु ॥१०॥
दन्तपङ्क्तिं सदा पातु ॐ क्रीं हूँ ह्रीं स्वाहा मम । भुक्तिमुक्तिप्रदा काली श्रिया नित्यं सुसेविता ॥११॥
ओष्ठाधरं सदा पातु क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं मम सूर्येणाराधिता विद्या सर्वसिद्धि-प्रदायिका ॥१२॥
कण्ठं पातु महाकाली ॐ क्रीं ह्रीं में स्वाहा मम । चन्द्रेणाराधिता विद्या चतुर्वर्गफलप्रदा ॥१३॥
हस्तयुग्मं सदा पातु क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं स्वाहा । सौख्यदा मोक्षदा काली वरुणेनैव सेविता ॥१४॥
ॐ क्रीं क्रीं हूँ ह्रीं फट् स्वाहा, हृदयं पातु सर्वदा । सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता ॥१५॥
ऐं ह्रीं ॐ ऐं हूँ फट् स्वाहा स्तनद्वन्द्वं सदावतु । वायुनोपासिता काली यशोबल-सुखप्रदा ॥१६॥
क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् च सा पातु जठरं मम । सर्वसिद्धिप्रदा काली गणनाथेन सेविता ॥१७॥
क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममाऽवतु । सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा ॥१८॥
लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके ह्रीं ह्रीं । शुक्रेणाराधिता काली त्रैलोक्य-जयदायिनी ॥१९॥
पात्वण्ड-कोशं फट् क्रीं क्रीं ,दक्षिणे कालिके स्वाहा । धरया सेविता विद्या सर्वरत्न-प्रदायिनी ॥२०॥
पातु गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा । द्वादशी च महाविद्या राघवेणार्चिता सदा ॥२१॥
जानुनी पातु ॐ क्रीं क्रीं दक्षिणे कालिके स्वाहा । एकादशी महाविद्या मेघनादेन सेविता ॥२२॥
क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जङ्घेऽवतु द्वादशी च महाविद्या प्रह्लादेन च सेविता ॥२३॥
क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहाऽवतु । चतुर्दशी पादयुग्मं गुरुदेवेन सेविता ॥२४॥
क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाऽङ्गुलीः । पातु मे द्वादशी काली क्षेत्रपालेन सेविता ॥२५॥
ॐ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहा च । नखान्सर्वान्सदा पातु पञ्चदशी ग्रहेश्वरी ॥२६॥
क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं । मम पृष्ठे सदा पातु षोडशी परमेश्वरी ॥२७॥
क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि । मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणकालिका ॥२८॥
क्रीं क्रीं क्रीं पातु मे चास्थि मज्जां हूँ हूँ सदाऽवतु । ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममाऽवतु ॥२९॥
द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा । महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता ॥३०॥
सूर्यवंशेन सोमेन रामेण जमदग्निना । जयन्तेन सुनन्देन बलिना नारदेन च ॥३१॥
विभीषणेन बाणेन भृगुणा कश्यपेन च । कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च ॥३२॥
मार्कण्डयेन ध्रुवेणैव द्रोणेन सत्यभामया । ऋष्यशृङ्गेन कर्णेन भारद्वाजेन संयुता ॥३३॥
सर्वैराराधिता विद्या जरामृत्यु-विनाशिनी । पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता ॥३४॥
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी । विप्रचित्ता तथोग्रोग्र-प्रभा दीप्ता घनत्विषा ॥३५॥
नीला घना बलाका च मात्रा मुद्रा मिताऽपि च । एताः सर्वा खड्गधरा मुण्डमाला-विभूषणा ॥३६॥
हूँ हूँकाराट्टहासेन सर्वत्र पातु मां सदा । ब्रह्माणी पातु मां पूर्वे चाग्नेय्यां वैष्णवी तथा ॥३७॥
माहेश्वरी पातु याम्ये चामुण्डा नैरृते सदा । कौमारी वारुणे पातु वायव्ये चाऽपराजिता ॥३८॥
वाराही चोत्तरे पातु चेशान्यां नारसिंहिका । अध ऊर्ध्वे पातु काली पार्श्वे पृष्ठे च कालिका ॥३९॥
जले स्थले च पाताले शयने भोजने गृहे राजस्थाने कानने च विवादे मरणे रणे ॥४०॥
पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा । शवासने श्मशाने वा शून्यागारे चतुष्पथे ॥४१॥
यत्र यत्र भयप्राप्तिः सर्वत्र पातु कालिका । नक्षत्रतिथिवारेषु योग-करणयोरपि ॥४२॥
मासे पक्षे वत्सरे च दण्डे यामे निमेषके । दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका ॥४३॥
सर्वत्र कालिका पातु कालिका पातु सर्वदा । सकृद्यः शृणुयान्नित्यं कवचं शिवनिर्मितम् ॥४४॥
सर्वपापं परित्यज्य गच्छेच्छिवस्य चालयम् । त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम् ॥४५॥
यः पठेत्साधकाधीशः सर्वकर्म-जयान्वितः । सर्वधर्मे भवेद्धर्मी सर्वविद्येश्वरेश्वरः ॥४६॥
कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः । कवित्वे व्याससदृशो गणेशवच्छ्रुतिधरः ॥४७॥
कामदेवसमो रूपे वायुतुल्यः पराक्रमे । महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः ॥४८॥
बृहस्पतिसमो धीमान् जरामृत्यु-विवर्जितः । सर्वज्ञः सर्वदर्शी च निष्पापः सकलप्रियः ॥४९॥
अव्याहतगतिः शान्तो भार्यापुत्र-समन्वितः । यो देहे कुरुते नित्यं कवचं देवदुर्लभम् ॥५०॥
न शोको न भयं क्लेशो न रोगो न पराजयः । धनहानिर्विषादोऽपि परव्याधिर्भवेन्नहि ॥५१॥
सङ्ग्रामेषु जयेच्छत्रून् यथा वह्निर्दहेद्वनम् । ब्रह्मास्त्रास्त्रान्य-शस्त्राणि पशवः कण्टकादयः ॥५२॥
तस्य देहं न भिनत्ति वज्राधिकं भवेद्वपुः । ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः ॥५३॥
सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् । तद्देहं न दहेदग्निर्न तापयति भास्करः ॥५४॥
न शोषयति वातोऽपि न क्लेदं कुरुते पयः । पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी ॥५५॥
जल-सूर्येन्दु-वातानां स्तम्भके नात्र संशयः । बहु किं कथयिष्यामि सर्वसिद्धिमुपालभेत् ॥५६॥
राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् । मोहन-स्तम्भनाकर्ष-मारणोच्चाटनं भवेत् ॥५७॥
काकवन्ध्या च या नारी वन्ध्या वा मृतपुत्रिका । कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि ॥५८॥
तदा पुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः । स्वामिनो वल्लभा सापि धनधान्य-सुतान्विता ॥५९॥
इदं कवचमज्ञात्वा यो जपेत्कालिकामनुम् । ध्यानेन कोटिजप्तेन तस्य विद्या न सिद्ध्यति ॥६०॥
पदे पदे भवेद्दुखं लोकानां निन्दितो ध्रुवम् । इहलोके भवेद्दुःखी परे च नरकं व्रजेत् ॥६१॥
गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् । तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने ॥६२॥
य इदं कवचं दिव्यं प्रकाश्य सिद्धिहा भवेत् । भक्ताय श्रेष्ठपुत्राय साधकाय प्रकाशयेत् ॥६३॥
॥ इति श्रीरुद्रयामले देवीशङ्कर संवादे त्रैलोक्यमोहनं नाम कवचं अथवा दक्षिणाकालिकाकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : November 25, 2025

TOP