संस्कृत सूची|संस्कृत साहित्य|कवच|
आग्नेयपुराणे अस्य श्रीवे...

श्रीवेङ्कटेशकवचस्तोत्रम् - आग्नेयपुराणे अस्य श्रीवे...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

आग्नेयपुराणे अस्य श्रीवेङ्कटेशकवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः श्रीवेङ्कटेश्वरो देवता । ॐ बीजं ह्रीं शक्तिः क्लीं कीलकम् । इष्टार्थे विनियोगः ।  ध्यानम् ध्यायेद्वेङ्कटनायकं करयुगे शङ्खं च चक्रं मुदा [गदा] चान्ये [चाद्य] पाणियुगे वरं कटितटे विभ्राणमर्कच्छविम् । देवं देवशिखामणिं श्रियमथो वक्षोदधानं हरिं भूषाजालमनेकरत्नखचितं दिव्यं किरीटाङ्गदम् ॥१॥
वराहः पातु मे शीर्षं केशान् श्रीवेंङ्कटेश्वरः । शिखामिळापतिः कर्णो ललाटं दिव्यविग्रहः ॥२॥
नेत्रे युगान्तस्थायी मे कपोले कनकाम्बरः । नासिकामिन्दिरानाथो वक्त्रं ब्रह्मादिवन्दितः ॥३॥
चुबुकं कामदः कण्ठमगस्त्याभीष्टदायकः । अंसौ कंसान्तकः पातु कमठस्स्तनमण्डले ॥४॥
हृत्पद्मं पात्वदीनात्मा कुक्षिं कालाम्बरद्युतिः । कटिं कोलवपुः पातु गुह्यं कमलकोशभृत् ॥५॥
नाभिं पद्मापतिः पातु करौ कल्मषनाशनः । अङ्गुलीर्हैमशैलेन्द्रो नखरानम्बरद्युतिः ॥६॥
ऊरू तुम्बुरुगानज्ञो जानुनी शङ्खचक्रभृत् । पादौ पद्मेक्षणः पातु गुल्फौ चाकाशगाङ्गदः ॥७॥
दिशो दिक्पालवन्द्याङ्घ्रिर्भार्यां पाण्डवतीर्थगः । अव्यात्पुत्रान् श्रीनिवासः सर्वकार्याणि गोत्रराट् ॥८॥
वेङ्कटेशः सदा पातु मद्भाग्यं देवपूजितः । कुमारधारिकावासो भक्ताभीष्टाभयप्रदः ॥९॥
शङ्खाभयप्रदाता तु शम्भुसेवितपादुकः । वाञ्छितं वरदो दद्याद्वेङ्कटाद्रिशिखामणिः ॥१०॥
श्वेतवाराहरूपोऽयं दिनरात्रिस्वरूपवान् । रक्षेन्मां कमलनाथः सर्वदा पातु वामनः ॥११॥
श्रीनिवासस्य कवचं त्रिसन्ध्यं भक्तिमान् पठेत् । तस्मिन् श्रीवेङ्कटाधीशः प्रसन्नो भवति ध्रुवम् ॥१२॥
आपत्काले जपेद्यस्तु शान्तिमायात्युपद्रवात् । रोगाः प्रशमनं यान्ति त्रिर्जपेद्भानुवासरे ॥१३॥
सर्वसिद्धिमवाप्नोति विष्णुसायुज्यमाप्नुयात् ।
॥ इति श्रीमदाग्नेयपुराणे वेङ्कटाचलमाहात्म्ये वसिष्टनारदसंवादे वेङ्कटेशदिव्यकवचस्तोत्रं नाम पञ्चदशोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP