श्रीगोपालकवचम् - श्रीगणेशाय नमः ॥ श्री...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः ॥
श्रीमहादेव उवाच । अथ वक्ष्यामि कवचं गोपालस्य जगद्गुरोः । यस्य स्मरणमात्रेण जीवन्मुक्तो भवेन्नरः ॥१॥
शृणु देवि प्रवक्ष्यामि सावधानावधारय । नारदोऽस्य ऋषिर्देवि छेन्दोऽनुष्टुबुदाहृतम् ॥२॥
देवता बालकृष्णश्च चतुर्वर्गप्रदायकः ।
ॐ अस्य श्रीगोणालकवचस्य नारद ऋषिः । अनुष्टुप्छन्दः । श्रीबालकृष्णो देवता । धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
शिरो मे बालकृष्णश्च पातु नित्यं मम श्रुती ॥३॥
नारायणः पातु कण्ठं गोपीवन्द्यः कपोलकम् । नासिके मधुहा पातु चक्षुषी नदनन्दनः ॥४॥
जनार्दनः पातु दन्तानधरं माधवस्तथा । ऊर्ध्वोष्ठं पातु वाराहश्चिबुकं केशिसूदनः ॥५॥
हृदयं गोपिकानाथो नाभिं सेतुप्रदः सदा । हस्तौ गोवर्धनधरः पादौ पीताम्बरोऽवतु ॥६॥
कराङ्गुलीः श्रीधरो मे पादाङ्गुल्यः कृपामयः । लिङ्गं पातु गदापाणिर्बालक्रीडामनोरमः ॥७॥
जगन्नाथः पातु पूर्वं श्रीरामोऽवतु पश्चिमम् । उत्तरं कैटभारिश्च दक्षिणं हनुमत्प्रभुः ॥८॥
आग्नेय्यां पातु गोविन्दो नैरृत्यां पातु केशवः । वायव्यां पातु दैत्यारिरैशान्यां गोपनन्दनः ॥९॥
ऊर्ध्व पातु प्रलम्बारिरधः कैटभमर्दनः । शयानं पातु पूतात्मा गतौ पातु श्रियःपतिः ॥१०॥
शेषः पातु निरालम्बे जाग्रद्भावे ह्यपाम्पतिः । भोजने केशिहा पातु कृष्णः सर्वाङ्गसन्धिषु ॥११॥
गणनासु निशानाथो दिवानाथो दिनक्षये । इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥१२॥
यः पठेन्नित्यमेवेदं कवचं प्रयतो नरः । तस्याशु विपदो देवि नश्यन्ति रिपुसङ्घतः ॥१३॥
अन्ते गोपालचरणं प्राप्नोति परमेश्वरि । त्रिसन्ध्यमेकसन्ध्यं वा यः षठेच्छृणुयादपि ॥१४॥
तं सर्वदा रमानाथः परिपाति चतुर्भुजः । अज्ञात्वा कवचं देवि गोपालं पूजयेद्यदि ॥१५॥
सर्वं तस्य वृथा देवि जपहोमार्चनादिकम् । सशस्त्रघातं सम्प्राप्य मृत्युमेति न संशयः ॥१६॥
इति नारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे श्रीगोपालकवचं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : November 24, 2025

TOP