संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ श्रीमदानन्दरामायणान्तर्...

श्रीसीताकवचम् - ॥ श्रीमदानन्दरामायणान्तर्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ श्रीमदानन्दरामायणान्तर्गते मनोहरकाण्डे श्रीसीताकवचम् ॥
श्रीरामदास उवाच श‍ृणु शिष्य प्रवक्ष्यामि सीतायाः कवचं शुभम् । पुरा प्रोक्तं सुतीक्ष्णाय पृच्छते कुम्भजन्मना ॥१॥
एकदा कुम्भजन्मानं सुतीक्ष्णः प्राह वै मुनिः । रहः स्थितं गुरु दृष्ट्वा प्रणम्य भक्तिपूर्वकम् ॥२॥
सुतीक्ष्ण उवाच गुरोऽहं श्रोतुमिच्छामि सीतायाः प्रीतिदानि हि । यानि स्तोत्राणि कर्माणि तानि त्वं वक्तुमर्हसि ॥३॥
अगस्तिरुवाच- सम्यक् पृष्टं त्वया वत्स सावधानमनाः श्रुणु । आदौ वक्ष्याम्यहं रम्यं सीतायाः कवचं शुभम् ॥१॥
या सीताऽवनिसम्भवाऽथ मिथिलापालेन संवर्धिता पद्माक्षनृपतेः सुता नलगता या मातुलिङ्गोत्भवा । या रत्ने लयमागता जलनिधौ या वेद वारं गता लङ्कां सा मृगलोचना शशिमुखी मां पातु रामप्रिया ॥२॥
अथ विनियोगः - अस्य श्रीसीताकवचमन्त्रस्य अगस्ति ऋषिः । श्रीसीता देवता । अनुष्टुप् छन्दः । रामेति बीजम् । जनकजेति शक्तिः । अवनिजेति कीलकम् । पद्माक्षसुतेत्यस्त्रम् । मातुलिङ्गीति कवचम् । मूलकासुरघातिनीति मन्त्रः । श्रीसीतारामचन्द्रप्रीत्यर्थं  सकलकामना सिद्ध्यर्थं जपे विनियोगः ॥
अथ अङ्गुळीन्यासः - ॐ ह्रां सीतायै अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं रमायै तर्जनीभ्यां नमः । ॐ ह्रूं जनकजायै मध्यमाभ्यां नमः । ॐ ह्रैं अवनिजायै अनामिकाभ्यां नमः । ॐ ह्रौं पद्माक्षसुतायै कनिष्ठिकाभ्यां नमः । ॐ ह्रः मातुलिङ्ग्यै करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासः - ॐ ह्रां सीतायै हृदयाय नमः । ॐ ह्रीं रमायै शिरसे स्वाहा । ॐ ह्रूं जनकजायै शिखायै वषट् । ॐ ह्रैं अवनिजायै कवचाय हुम् । ॐ ह्रौं पद्माक्षसुतायै नेत्रत्रयाय वौषट् । ॐ ह्रः मातुलिङ्ग्यै अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥
अथ ध्यानम् । सीतां कमलपत्राक्षीं विद्युत्पुञ्चसमप्रभाम् । द्विभुजां सुकुमाराङ्गीं पीतकौशेयवासिनीम् ॥१॥
सिंहासने रामचन्द्रवामभागस्थितां वराम् । नानालङ्कारसम्युक्तां कुण्डलद्वयधारिणीम् ॥२॥
चूडाकङ्कणकेयूररशनानूपुरान्विताम् । सीमन्ते रविचन्द्राभ्यां निटिले तिलकेन च ॥३॥
मयूराभरणेनापि घ्राणेऽतिशोभितां शुभाम् । हरिद्रां कज्जलं दिव्यं कुङ्कुमं कुसुमानि च ॥४॥
बिभ्रन्तीं सुरभिद्रव्यं सगन्ध स्नेहमुत्तमम् । स्मिताननां गौरवर्णां मन्दारकुसुमं करे ॥५॥
बिभ्रन्तीमपरे हस्ते मातुलिङ्गमनुत्तमम् । रम्यवासां च बिम्बोष्ठीं चन्द्रवाहनलोचनाम् ॥६॥
कलानाथसमानास्यां कलकण्ठमनोरमाम् । मातुलिङ्गोद्भवां देवीं पद्माक्षदुहितां शुभाम् ॥७॥
मैथिलीं रामदयितां दासीभिः परिवीजिताम् । एवं ध्यात्वा जनकजां हेमकुम्भपयोधराम्  ॥८॥
सीतायाः कवचं दिव्यं पठनीयं शुभावहं  ॥९॥
अथ कवचम् । ॐ श्रीसीता पूर्वतः पातु दक्षिणेऽवतु जानकी । प्रतीच्यां पातु वैदेही पातूदीच्यां च मैथिली ॥१॥
अधः पातु मातुलिङ्गी ऊर्ध्वं पद्माक्षजावतु । मध्येऽवनिसुता पातु सर्वतः पातु मां रमा ॥२॥
स्मितानना शिरः पातु पातु भालं नृपात्मजा । पद्माऽवतु भृवोर्मध्ये मृगाक्षी नयनेऽवतु ॥३॥
कपोले कर्णमूले च पातु श्रीरामवल्लभा । नासाग्रं सात्त्विकी पातु पातु वक्त्रं तु राजसी ॥४॥
तामसी पातु मद्वाणीं पातु जिह्वां पतिव्रता । दन्तान् पातु महामाया चिबुकं कनकप्रभा ॥५॥
पातु कण्ठं सौम्यरूपा स्कन्धौ पातु सुरार्चिता । भुजौ पातु वरारोहा करौ कङ्कणमण्डिता  ॥६॥
नखान् रक्तनखा पातु कुक्षौ पातु लघूदरा । वक्षः पातु रामपत्नी पार्श्वे रावणमोहिनी ॥७॥
पृष्ठदेशे  वह्निगुप्ताऽवतु मां सर्वदैव हि । दिव्यप्रदा पातु नाभिं कटिं राक्षसमोहिनी ॥८॥
गुह्यं पातु रत्नगुप्ता लिङ्गं पातु हरिप्रिया । ऊरू रक्षतु रम्भोरू जानुनी प्रियभाषिणी ॥९॥
जङ्घे पातु सदा सुभ्रूः गुल्फौ चामरवीजिता । पादौ लवसुता पातु पात्वङ्गानि कुशाम्बिका ॥१०॥
पादाङ्गुळीः सदा पातु मम नूपुरनिःस्वना । रोमाण्यवतु मे नित्यं पीतकौशेयवासिनी ॥११॥
रात्रौ पातु कालरूपा दिने दानैकतत्परा । सर्वकालेषु मां पातु मूलकासुरघातिनी ॥१२॥
एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् । इदं प्रातः समुत्थाय स्नात्वा नित्यं पठेत्तु यः ॥१३॥
जानकीं पूजयित्वा स सर्वान् कामानवाप्नुयात् । धनार्थी प्राप्नुयाद्द्रव्यं पुत्रार्थी पुत्रमाप्नुयात् ॥१४॥
स्त्रीकामार्थी शुभां नारीं सुखार्थि सौख्यमाप्नुयात् । अष्टवारं जपनीयं सीतायाः कवचं सदा ॥१५॥
अष्टभ्यो विप्रवर्येभ्यो  नरः प्रीत्यार्पयेत् सदा । फलपुष्पादिकादीनि यानि यानि पृथक् पृथक् ॥१६॥
सीतायाः कवचं चेदं पुण्यं पातकनाशनम् । ये पठन्ति नरा भक्त्या ते धन्या मानवा भुवि ॥१७॥
पठन्ति रामकवचं सीतायाः कवचं विना । तथा विना लक्ष्मणस्य कवचेन वृथा स्मृतम् ॥१८॥
तस्मात् सदा नरैर्जाप्यं कवचानां चतुष्टयम् । आदौ तु वायुपुत्रस्य लक्ष्मणस्य ततः परम् ॥१९॥
ततः पठेच्च सीतायाः श्रीरामस्य ततः परम् । एवं सदा जपनीयं कवचानां चतुष्टयम् ॥२०॥
इति श्रीशतकोटिरामायणान्तर्गते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे चतुर्दशसर्गान्तर्गतं श्रीसीताकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP