संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीआनन्दभैरव उवाच कथितं...
सदाशिवशाकिनीकवचम् - श्रीआनन्दभैरव उवाच कथितं...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीआनन्दभैरव उवाच कथितं शाकिनीसारं सदाशिवफलोदयम् । श्रुतं परमकल्याणं भेदभाषाक्रमोदयम् ॥१॥
इदानीं श्रोतुमिच्छामि कवचं सारदुर्लभम् । यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः ॥२॥
वद कान्ते शब्दमयि यदि स्नेहोऽस्ति मां प्रति । आनन्दभैरवं नत्वा सोवाचानन्दभैरवी ॥३॥
श्रीआनन्दभैरवी उवाच गुरोः परमकल्याणं कवचं कथये तव । सदाशिवस्य शाकिन्या भैरवानन्दविग्रह ॥४॥
शृणुष्व कामदं नामाद्भुतं कवचमङ्गलम् । त्रैलोक्यसारभूतं च सर्वज्ञानविवर्धनम् ॥५॥
सर्वमन्त्रौघनिकरं ज्ञानमात्रेण सिद्ध्यति । सर्वगूढप्रियानन्दं सामरस्यं कुलान्तरम् ॥६॥
प्रचण्डचण्डिकातुल्यं सर्वनिर्णयसाक्षिणम् । सर्वबुद्धिकरानन्दं कुलयोगिमनोगतम् ॥७॥
रामसेव्यं शिवं शम्भुसेवितं विषनाशनम् । अप्रकाश्यं महायोगं धनारोग्यविवर्धनम् ॥८॥
सर्वसौभाग्यजननं सर्वानन्दकरं परम् । सर्वतन्त्रदुर्लभं यत् कथितं रुद्रयामले ॥९॥
विनियोगकथनं अस्य श्रीशाकिनीसदाशिवकामनानाममहाकवचस्य सदाशिवऋषिर्गायत्रीच्छन्दः शाकिनी देवता सकलहरीं जीवबीजं मायास्त्रशक्तिः कामस्वाहा कीलकं वज्रं दंष्ट्राघोरघर्घरामहोग्राशाकिनीशक्तिः सदाशिवमहामन्त्रसिद्धये विनियोगः ।
ॐ प्रभावा सदा पातु महाकाशाधिशाकिनी । त्रिगुणा चण्डिका पातु क्रोधदंष्ट्रा करालिनी ॥१०॥
अनन्ताऽनन्तमहिमा महास्त्रदलपङ्कजम् । पूर्वाह्णं पातु सततं गायत्री सविता मम ॥११॥
आकाशवाहिनी देवी शिरोमङ्गलमद्भुतम् । सर्वदा पातु मे गुह्यं लिङ्गं चक्रं सुधामयम् ॥१२॥
महामण्डलमध्यस्था पातु मे भालमण्डलम् । सहस्रशतकोटीन्दुयोगिनीगणमण्डलम् ॥१३॥
महाचक्रेश्वरी पातु महाचक्रेश्वरो मम । मुखाब्जं चण्डिका देवी दन्तावलिमनन्तकः ॥१४॥
जिह्वाग्रं तालुमूलस्था तालुमूलं मनोजवः । तीक्ष्णदंष्ट्रा दन्तमध्यं कण्ठाग्रं चिबुकं शिवः ॥१५॥
सदा पातु षोडशारं शाकिनी श्रीसदाशिवः । कण्ठमध्यस्थितं पातु महामोहविनाशिनी ॥१६॥
प्रेतराजः सदा पातु महादेवी स्वपङ्कजम् । विद्यादेवी महाशक्तिः कूटस्थानं सदाशिवः ॥१७॥
महाकाशावलघ्नी मे धूम्रां भोजञ्च धूर्जटी । कौमुदी पटलाङ्गी मे वर्णषोडशसंज्ञकम् ॥१८॥
अकारादिकान्तवर्णान् श्रीदेवी परिपातु मे । हेमचित्ररथस्था मे चित्रिणी पातु मे मधु ॥१९॥
अपर्णा या विशुद्धं मे षोडशी षोडशाक्ष्यकम् । पञ्चदुर्गा सहदेवः प्रत्येकं पातु मे दलम् ॥२०॥
दीपमासहल्कीं मे प्रवरा पातु मे बला । व्यापिनी चानवच्छिन्ना पातु मे दलमण्डलम् ॥२१॥
अकालतारिणी दुर्गा शुक्रं चक्रं सदावतु । शाकिनीशो महामाया परिवारान्विताऽवतु ॥२२॥
पञ्चरश्मिनीलकण्ठो मधुपूरं स्वपीठकम् । सदा पातु कण्ठपङ्केरुहाश्रयस्वरानपि ॥२३॥
कण्ठस्वर्गः सदा पातु कन्दर्पेशो मनोगतिः । शाकिनी शाकविभवा शाकेशी शाकसम्भवा ॥२४॥
शाकम्भरीश्वरा पातु सुमना दलषोडशम् । सदाशिवः सदा पातु परिवारगणैः सह ॥२५॥
हृदयं शाकिनी देवी शिरःस्थानं सदावतु । काकिनीसहितं पातु द्वादशारं कुलेश्वरी ॥२६॥
दलद्वादशकं पातु कामनाथः सदाशिवः । अभेदरूपिणी पातु कादिठान्ताक्षरं मम ॥२७॥
वाणी मे हृदयग्रन्थिर्देशं तु कपिलेश्वरः । पायान्मेघं च सूर्यास्या विमाया हृत्सु कर्णिकाम् ॥२८॥
तालहस्ता महावाणी पातु मे हृदयान्तरम् । शोषिणी मोहिनी वह्निः पातु मे हृदयाम्बुजम् ॥२९॥
पिलापिप्पलादेशो रतिर्मे हृदयेप्सितम् । योगिनीकुलदन्तश्च पातु मे हृत्स्वरानपि ॥३०॥
केकरेशो गूढसंज्ञा वज्रधारी हृदम्बुजम् । एकलिङ्गी सदा पातु हृदयान्तः शिवं मम ॥३१॥
तदधो मण्डलं पातु भेदाभेदविवर्जिता । अकाललक्षणः पातु पाशिनी नाभिमण्डलम् ॥३२॥
कालकूटस्वरूपो मे नाभिपद्मं प्रपातु मे । चन्द्रचूडा विधुमुखी शाकिनी मे दशाम्बुजम् ॥३३॥
त्रिवृत्ताकारमुद्रा मे पातु रुद्रश्च लाकिनीम् । त्रिखण्डारोहणः पातु डादिफान्ताक्षरानपि ॥३४॥
कालिका कपिला कृष्णा घनावाला कपालिनी । ललिता तारिणी सर्वां महामाया दशच्छदम् ॥३५॥
परिपातु कामदुर्गा लाकिनी पातु मे सदा । सदाशिवः पातु नित्यं मणिपूरं कुलस्थलम् ॥३६॥
जाड्यनाशकरी दुर्गा मुण्डमालाविभूषिता । मां पातु सप्तरोधात्मा केशवेशी महापदम् ॥३७॥
अभया चण्डिका कृष्णा कालिका कुलपण्डिता । वज्रवर्णा धारणाख्या धरा धात्री क्षमा रमा ॥३८॥
वासुकी वसुधा वाच्या सर्वाणी सर्वमङ्गला । पार्वती सर्वशक्तिस्था पार्वणे परिपातु माम् ॥३९॥
रणे राजकुले द्यूते वादे मानापमानके । गेहेऽरण्ये प्रान्तरे च जले चानलमध्यके ॥४०॥
सर्वाणी सर्वदा पातु महातन्त्रार्थभूषिता । विजया पद्मिनी जाया जानकी कमलावती ॥४१॥
एताः पान्तु दिग्विदिक्षु महापातकनाशनाः । अन्तरं पातु लिङ्गस्था लिङ्गमूलाम्बुजं मम ॥४२॥
कर्णिकां पातु सततं काञ्चीपीठस्थिता शिवा । अतिवेगान्विता पातु वह्निमण्डलमेव मे ॥४३॥
राक्षसीशा सदा पातु जम्बुद्वीपनिवासिनी । जाह्नवी भास्करा मौना मलयस्था मलाङ्गजा ॥४४॥
मतितप्ता पापहन्त्री परिपातु विभाकरी । लयस्थानं सदा पातु कुञ्जरेश्वरसंस्थिता ॥४५॥
विंशत्यर्णमहाविद्या लम्बमाना कुलस्थली । मन्दिरे पातु मां नित्यं वित्तसंहारकारिणी ॥४६॥
अनन्तशयना पातु वटमूलनिवासिनी । प्रलये मां काली पातु वटपत्रनिवासिनी ॥४७॥
केवलाख्या सदा पातु महाकूर्चस्वरूपिणी । आयुरारोग्यदात्री मे धनं राज्यं सदावतु ॥४८॥
कामरूपं गृहं पीठं परिपातु महाबला । बलाका घोरदंष्ट्रा मे उदरं पातु सर्वदा ॥४९॥
सर्वरोगहरा पातु मुण्डमालाविभूषिता । आनन्दो नन्दनाथो मे हृदूर्ध्वाब्जं सदाऽवतु ॥५०॥
षट्पद्मं सर्वदा पातु नानारूपविहारिणी । अकलङ्का निराधारा नित्यपुष्टा निरिन्द्रिया ॥५१॥
षोडशोर्ध्वं महापद्मं द्विदलं पातु सर्वदा । दिग्विदिक्षु सदा पातु शाकिन्याद्यष्टशक्तयः ॥५२॥
अतिगुप्तस्थलं पातु पापनाशकरी परा । क्षालनाख्या लिङ्गगुह्ये पातु मे पावनं प्रभा ॥५३॥
विप्रचित्ता कोटराक्षी लिपिभूता सरस्वती । चतुर्दलं सदा पातु विभूतिः कामया सह ॥५४॥
पान्तु विद्याः सदैताश्च रिपुपक्षविनाशनाः । कटिदेशं सदा पातु चामुण्डा शूलधारिणी ॥५५॥
त्रिनेत्रा सर्वदा पातु भूर्भुवःस्वःस्वरूपिणी । वसन्तादिकलाः पान्तु पामरोग्रप्रतापिनी ॥५६॥
षड्भुजा सर्वदा पातु वेदहस्ता प्रपातु माम् । अतिविद्या सर्वविद्या चण्डविद्या प्रपातु माम् ॥५७॥
वारुणी मदिरा पातु सर्वाङ्गं शाकिनी मम । गृहोदरी सदा पातु सर्वाङ्गं वज्रधारिणी ॥५८॥
उल्कामुखी सदा पातु भृगुवंशसमुद्भवा । अकालतारिणी दुर्गा ललिता धर्मधारिणी ॥५९॥
विंशत्यर्णा महाविद्या सर्वत्र सर्वदाऽवतु । हसकलहरीं विद्या परिपातु सदाशिवा ॥६०॥
सहस्रवदना वाणी परिपातु जलोदरी । जलरूपा सदा पातु महोज्ज्वलकलेवरा ॥६१॥
षोडशी सकलहरीं सर्वाणी पातु पार्वती । महामत्ता सदा पातु कामनाथप्रपूरका ॥६२॥
वामदेवी सदा पातु सर्वाङ्गे देहदेवता । कामपीठस्थिता दुर्गा परिवारगणावृता ॥६३॥
सदाशिवः सदा पातु सामवेदस्वरूपगा । श्मशानवासिनी देवी महाकालसमन्विता ॥६४॥
आर्या देवी सदा पातु माता पातु महाकला । सर्वत्र कपिला पातु महाभगवतीश्वरी ॥६५॥
फलश्रुतिकथनं इति ते कथितं नाथ महाविद्याफलप्रदम् । कवचं दुर्लभं लोके तव स्नेहात् प्रकाशितम् ॥६६॥
अतिगुह्यतरं ज्ञानं कवचं सर्वसिद्धिदम् । अमलोदारचित्तः सन् पूजयित्वा सदाशिवम् ॥६७॥
तथा श्रीशाकिनीदेव्याः पूजनं सुमहत्फलम् । राज्यदं धनदं वाञ्छासिद्धिदं धर्मसिद्धिदम् ॥६८॥
वाचां सिद्धिं करे प्राप्य अष्टसिद्धिः करे भवेत् । काकिनीदर्शनं प्राप्य शाकिनीदर्शनं भवेत् ॥६९॥
मन्त्रसिद्धिं तन्त्रसिद्धिं क्रियासिद्धिं लभेद् ध्रुवम् । आकाशगामिनी सिद्धिः करे तस्य विराजते ॥७०॥
पुरुषो दक्षिणे बाहौ योषिद्वामभुजे तथा । धृत्वा कवचराजं तु राजत्वं लभते ध्रुवम् ॥७१॥
महापातककोटीश्च हत्वा राजत्वमालभेत् । वने वृक्षतलेऽश्वत्थमूले स्थित्वा पठेद् यदि ॥७२॥
त्रिसन्ध्यं दशधा जप्त्वा शतधा वा सहस्रधा । स भवेत् कल्पवृक्षेशो भूमीशो नात्र संशयः ॥७३॥
कोटिवर्षसहस्राणि चिरजीवी स योगिराट् । महासिद्धो भवेद् धीमान् महापातकनाशकृत् ॥७४॥
मासार्धेन भवेद् योग्यो विप्रो गुणसमन्वितः । वर्षैकेण क्षत्रियश्च वैश्यो वर्षचतुष्टये ॥७५॥
शूद्रो द्वादशवर्षेण योगी भवति पाठतः । एवं महाफलं नित्यं कवचं यः पठेत् सुधीः ॥७६॥
भोगमोक्षौ करे तस्य किमन्यैर्बहुभाषितैः ॥७७॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादे सदाशिवशाकिनीकवचफलादेशो नाम सप्ततितमः पटलः ॥७०॥
N/A
References : N/A
Last Updated : December 02, 2025

TOP