संस्कृत सूची|
संस्कृत साहित्य|
कवच|
नारद उवाच - श्रुतं सर्वं...
श्रीमद्सरस्वतीदेवीकवचम् - नारद उवाच - श्रुतं सर्वं...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
नारद उवाच - श्रुतं सर्वं मया पूर्वं त्वत्प्रसादात्सुधोपमम् । अधुना प्रकृतीनां च व्यस्तं वर्णय पूजनम् ॥१॥
कस्याः पूजा कृता केन कथं मर्त्ये प्रचारिता । केन वा पूजिता का वा केन का वा स्तुता प्रभो ॥२॥
तासां स्तोत्रं च ध्यानं च प्रभावं चरितं शुभम् । काभिः केभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ॥३॥
श्रीनारायण उवाच - गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती । सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥४॥
आसां पूजा प्रसिद्धा च प्रभावः परमाद्भुतः । सुधोपमं च चरितं सर्वमङ्गलकारणम् ॥५॥
प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम् । सर्वं वक्ष्यामि ते ब्रह्मन् सावधानो निशामय ॥६॥
काली वसुन्धरा गङ्गा षष्ठी मङ्गलचण्डिका । तुलसी मनसा निद्रा स्वधा स्वाहा च दक्षिणा ॥७॥
सङ्क्षिप्तमासां चरितं पुण्यदं श्रुतिसुन्दरम् । जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम् ॥८॥
दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् । तद्वत्पश्चात्प्रवक्ष्यामि सङ्क्षेपक्रमतः शृणु ॥९॥
आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता । यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ॥१०॥
आविर्भूता यथा देवी वक्त्रतः कृष्णयोषितः । इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥११॥
स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् । तामुवाच हितं सत्यं परिणामे सुखावहम् ॥१२॥
श्रीकृष्ण उवाच - भज नारायणं साध्वि मदंशं च चतुर्भुजम् । युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ॥१३॥
कामज्ञं कामिनीनां च तासां च कामपूरकम् । कोटिकन्दर्पलावण्यं लीलालङ्कतमीश्वरम् ॥१४॥
कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि । त्वत्तो बलवती राधा न भद्रं ते भविष्यति ॥१५॥
यो यस्माद् बलवान्वापि ततोऽन्यं रक्षितुं क्षमः । कथं परान्साधयति यदि स्वयमनीश्वरः ॥१६॥
सर्वेशः सर्वशास्ताहं राधां बाधितुमक्षमः । तेजसा मत्समा सा च रूपेण च गुणेन च ॥१७॥
प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः । प्राणतोऽपि प्रियः पुत्रः केषां वास्ति च कश्चन ॥१८॥
त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति । पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ॥१९॥
लोभमोहकामक्रोधमानहिंसाविवर्जिता । तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ॥२०॥
तया सार्धं तव प्रीत्या शश्वत्कालः प्रयास्यति । गौरवं च हरिस्तुल्यं करिष्यति द्वयोरपि ॥२१॥
प्रतिविश्वेषु तां पूजां महतीं गौरवान्विताम् । माघस्य शुक्लपञ्चम्यां विद्यारम्भे च सुन्दरि ॥२२॥
मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः । वसवो योगिनः सिद्धा नागा गन्धर्वराक्षसाः ॥२३॥
मद्वरेण करिष्यन्ति कल्पे कल्पे लयावधि । भक्तियुक्ताश्च दत्त्वा वै चोपचाराणि षोडश ॥२४॥
कण्वशाखोक्तविधिना ध्यानेन स्तवनेन च । जितेन्द्रियाः संयताश्च घटे च पुस्तकेऽपि च ॥२५॥
कृत्वा सुवर्णगुटिकां गन्धचन्दनचर्चिताम् । कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ॥२६॥
पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते । इत्युक्त्वा पूजयामास तां देवीं सर्वपूजिताम् ॥२७॥
ततस्तत्पूजनं चकुर्ब्रह्मविष्णुशिवादयः । अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ॥२८॥
सर्वे देवाश्च मुनयो नृपाश्च मानवादयः । बभूव पूजिता नित्यं सर्वलोकैः सरस्वती ॥२९॥
नारद उवाच पूजाविधानं कवचं ध्यानं चापि निरन्तरम् । पूजोपयुक्तं नैवेद्यं पुष्पं च चन्दनादिकम् ॥३०॥
वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम । वर्तते हृदये शश्वत्किमिदं श्रुतिसुन्दरम् ॥३१॥
श्रीनारायण उवाच - शृणु नारद वक्ष्यामि कण्वशाखोक्तपद्धतिम् । जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम् ॥३२॥
माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च । पूर्वेऽह्नि समयं कृत्वा तत्राह्नि संयतः शुचिः ॥३३॥
स्नात्वा नित्यक्रियाः कृत्वा घटं संस्थाप्य भक्तितः । स्वशाखोक्तविधानेन तान्त्रिकेणाथवा पुनः ॥३४॥
गणेशं पूर्वमभ्यर्च्य ततोऽभीष्टां प्रपूजयेत् । ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे ध्रुवम् ॥३५॥
ध्यात्वा पुनः षोडशोपचारेण पूजयेद् व्रती । पूजोपयुक्तं नैवेद्यं यच्च वेदनिरूपितम् ॥३६॥
वक्ष्यामि सौम्य तत्किञ्चिद्यथाधीतं यथागमम् । नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकम् ॥३७॥
इक्षुमिक्षुरसं शुक्लवर्णं पञ्चगुडं मधु । स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम् ॥३८॥
अच्छिन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् । घृतसैन्धवसंयुक्तं हविष्यान्नं यथोदितम् ॥३९॥
यवगोधूमचूर्णानां पिष्टकं घृतसंयुतम् । पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च ॥४०॥
परमान्नं च सघृतं मिष्टान्नं च सुधोपमम् । नारिकेलं तदुदकं कसेरुं मूलमार्द्रकम् ॥४१॥
पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् । कालदेशोद्भवं चारु फलं शुक्लं च संस्कतम् ॥४२॥
सुगन्धं शुक्लपुष्पं च सुगन्धं शुक्लचन्दनम् । नवीनं शुक्लवस्त्रं च शङ्खं च सुन्दरं मुने ॥४३॥
माल्यं च शुक्लपुष्पाणां शुक्लहारं च भूषणम् । यादृशं च श्रुतौ ध्यानं प्रशस्यं श्रुतिसुन्दरम् ॥४४॥
तन्निबोध महाभाग भ्रमभञ्जनकारणम् । सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ॥४५॥
कोटिचन्द्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम् । वह्निशुद्धांशुकाधानां वीणापुस्तकधारिणीम् ॥४६॥
रत्नसारेन्द्रनिर्माणनवभूषणभूषिताम् । सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ॥४७॥
वन्दे भक्त्या वन्दितां च मुनीन्द्रमनुमानवैः । एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः ॥४८॥
संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्भुवि । येषां चेयमिष्टदेवी तेषां नित्यक्रिया मुने ॥४९॥
विद्यारम्भे च वर्षान्ते सर्वेषां पञ्चमीदिने । सर्वोपयुक्तं मूलं च वैदिकाष्टाक्षरः परः ॥५०॥
येषां येनोपदेशो वा तेषां स मूल एव च । सरस्वती चतुर्थ्यन्तं वह्निजायान्तमेव च ॥५१॥
लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः । पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः ॥५२॥
प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते । भृगुर्ददौ च शुक्राय पुष्करे सूर्यपर्वणि ॥५३॥
चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा । भृगोश्चैव ददौ तुष्टो ब्रह्मा बदरिकाश्रमे ॥५४॥
आस्तिकस्य जरत्कारुर्ददौ क्षीरोदसन्निधौ । विभाण्डको ददौ मेरौ ऋष्यशृङ्गाय धीमते ॥५५॥
शिवः कणादमुनये गौतमाय ददौ मुदा । सूर्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ॥५६॥
शेषः पाणिनये चैव भारद्वाजाय धीमते । ददौ शाकटायनाय सुतले बलिसंसदि ॥५७॥
चतुर्लक्षजपेनैव मन्त्रः सिद्धो भवेन्नृणाम् । यदि स्यान्मन्त्रसिद्धो हि बृहस्पतिसमो भवेत् ॥५८॥
कवचं शृणु विप्रेन्द्र यद्दत्तं ब्रह्मणा पुरा । विश्वस्रष्टा विश्वजयं भृगवे गन्धमादने ॥५९॥
भृगुरुवाच - ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्मज्ञानविशारद । सर्वज्ञ सर्वजनक सर्वेश सर्वपूजित ॥६०॥
सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो । अयातयामं मन्त्राणां समूहसंयुतं परम् ॥६१॥
ब्रह्मोवाच - शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् । श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥६२॥
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने । रासेश्वरेण विभुना रासे वै रासमण्डले ॥६३॥
अतीव गोपनीयं च कल्पवृक्षसमं परम् । अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥६४॥
यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः । यद्धृत्वा पठनाद् ब्रह्मन् बुद्धिमांश्च बृहस्पतिः ॥६५॥
पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः । स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ॥६६॥
कणादो गौतमः कण्वः पाणिनिः शाकटायनः । ग्रन्धं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥६७॥
धृत्वा वेदविभागं च पुराणान्यखिलानि च । चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥६८॥
शातातपश्च संवर्तो वसिष्ठश्च पराशरः । यद्धृत्वा पठनाद् ग्रन्थं याज्ञवल्क्यश्चकार सः ॥६९॥
ऋष्यशृङ्गो भरद्वाजश्चास्तिको देवलस्तथा । जैगीषव्यो ययातिश्च धृत्वा सर्वत्र पूजिताः ॥७०॥
कवचस्यास्य विप्रेन्द्र ऋषिरेव प्रजापतिः । स्वयं छन्दश्च बृहती देवता शारदाम्बिका ॥७१॥
सर्वतत्त्वपरिज्ञानसर्वार्थसाधनेषु च । कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥७२॥
अथ कवचम् । श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः । श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदावतु ॥७३॥
ॐ ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् । ओं श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदावतु ॥७४॥
ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदावतु । ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोष्ठं सदावतु ॥७५॥
ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तिं सदावतु । ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु ॥७६॥
ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धौ मे श्रीं सदावतु । ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदावतु ॥७७॥
ॐ ह्रीं विद्याधिस्वरूपायै स्वाहा मे पातु नाभिकाम् । ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम हस्तौ सदावतु ॥७८॥
ॐ सर्ववर्णात्मिकायै स्वाहा पादयुग्मं सदावतु । ॐ वागधिष्ठातृदेव्यै स्वाहा सर्वं सदावतु ॥७९॥
ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु । ॐ सर्वजिह्वाग्रवासिन्यै स्वाहाग्निदिशि रक्षतु ॥८०॥
ॐ ऐं ह्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा । सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु ॥८१॥
ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्यां सर्वदावतु । ॐ ऐं जिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥८२॥
ॐ सर्वाम्बिकायै स्वाहा वायव्ये मां सदावतु । ॐ ऐं श्रीं क्लीं गद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥८३॥
ॐ ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदावतु । ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदावतु ॥८४॥
ॐ ह्रीं पुस्तकवासिन्यै स्वाहाधो मां सदावतु । ॐ ग्रन्थबीजस्वरूपायै स्वाहा मां सर्वतोऽवतु ॥८५॥
इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् । इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ॥८६॥
इति कवचम् ।
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने । तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ॥८७॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः । प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ॥८८॥
पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् । यदि स्यात्सिद्धकवचो बृहस्पतिसमो भवेत् ॥८९॥
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् । शक्नोति सर्वं जेतुं च कवचस्य प्रसादतः ॥९०॥
इदं च कण्वशाखोक्तं कवचं कथितं मुने । स्तोत्रं पूजाविधानं च ध्यानं च वन्दनं शृणु ॥९१॥
इति श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे सरस्वतीस्तोत्रपूजाकवचादिवर्णनं नाम चतुर्थोऽध्यायः ॥
इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे सरस्वतीकवचं नाम चतुर्थोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 02, 2025

TOP