संस्कृत सूची|संस्कृत स्तोत्र साहित्य|कवच| श्रीगणेशाय नमः । श्रीदत्... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... श्रीदत्तात्रेयवज्रकवचम् - श्रीगणेशाय नमः । श्रीदत्... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्रीदत्तात्रेयवज्रकवचम् Translation - भाषांतर श्रीगणेशाय नमः । श्रीदत्तात्रेयाय नमः । ऋषय ऊचुः । कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे । धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥१॥ व्यास उवाच । शृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् । सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥२॥ गौरीशृङ्गे हिमवतः कल्पवृक्षोपशोभितम् । दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम् ॥३॥ रत्नसिंहासनासिनं प्रसन्नं परमेश्वरम् । मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥४॥ श्रीदेव्युवाच । देवदेव महादेव लोकशङ्कर शङ्कर । मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नशः ॥५॥ तन्त्रजालान्यनेकानि मया त्वत्तः श्रुतानि वै । इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम् ॥६॥ इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वरः । करेणामृज्य सन्तोषात्पार्वतीं प्रत्यभाषत ॥७॥ मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते । इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्करः ॥८॥ ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् । क्वचित् विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे ॥९॥ तत्र व्याहर्तुमायान्तं भिल्लं परशुधारिणम् । वर्ध्यमानं महाव्याघ्रं नखदंष्ट्राभिरावृतम् ॥१०॥ अतीव चित्रचारित्र्यं वज्रकायसमायुतम् । अप्रयत्नमनायासमखिलं सुखमास्थितम् ॥११॥ पलायन्तं मृगं पश्चाद्व्याघ्रो भीत्या पलायितः । एतदाश्चर्यमालोक्य पार्वती प्राह शङ्करम् ॥१२॥ श्रीपार्वत्युवाच । किमाश्चर्यं किमाश्चर्यमग्रे शम्भो निरीक्ष्यताम् । इत्युक्तः स ततः शम्भुर्दृष्ट्वा प्राह पुराणवित् ॥१३॥ श्रीशङ्कर उवाच । गौरि वक्ष्यामि ते चित्रमवाङ्मानसगोचरम् । अदृष्टपूर्वमस्माभिर्नास्ति किञ्चन्न कुत्रचित् ॥१४॥ मया सम्यक् समासेन वक्ष्यते शृणु पार्वति । अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥१५॥ समित्कुशप्रसूनानि कन्दमूलफलादिकम् । प्रत्यहं विपिनं गत्वा समादाय प्रयासतः ॥१६॥ प्रिये पूर्वं मुनीन्द्रेभ्यः प्रयच्छति न वाञ्छति । तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिनः ॥१७॥ दलादनो महायोगी वसन्नेव निजाश्रमे । कदाचिदस्मरत् सिद्धं दत्तात्रेयं दिगम्बरम् ॥१८॥ दत्तात्रेयः स्मर्तृगामी चेतिहासं परीक्षितुम् । तत्क्षणात्सोऽपि योगीन्द्रो दत्तात्रेयः समुत्थितः ॥१९॥ तं दृष्ट्वाऽऽश्चर्यतोषाभ्यां दलादनमहामुनिः । सम्पूज्याग्रे निषीदन्तं दत्तात्रेयमुवाच तम् ॥२०॥ मयोपहूतः सम्प्राप्तो दत्तात्रेय महामुने । स्मर्तृगामी त्वमित्येतत् किंवदन्ती परीक्षितुम् ॥२१॥ मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे । दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ॥२२॥ अभक्त्या वा सुभक्त्या वा यः स्मरेन्मामनन्यधीः । तदानीं तमुपागत्य ददामि तदभीप्सितम् ॥२३॥ दत्तात्रेयो मुनिं प्राह दलादनमुनीश्वरम् । यदिष्टं तद्वृणीष्व त्वं यत् प्राप्तोऽहं त्वया स्मृतः ॥२४॥ दत्तात्रेयं मुनिः प्राह मया किमपि नोच्यते । त्वच्चित्ते यत्स्थितं तन्मे प्रयच्छ मुनिपुङ्गव ॥२५॥ श्रीदत्तात्रेय उवाच । ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् । तथ्येत्यङ्गीकृतवते दलादनमुनये मुनिः ॥२६॥ स्ववज्रकवचं प्राह ऋषिच्छन्दःपुरःसरम् । न्यासं ध्यानं फलं तत्र प्रयोजनमशेषतः ॥२७॥ अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमन्त्रस्य, किरातरूपी महारुद्र ऋषिः, अनुष्टुप् छन्दः, श्रीदत्तात्रेयो देवता, द्रां बीजं, आं शक्तिः, क्रौं कीलकं, ॐ आत्मने नमः । ॐ द्रीं मनसे नमः । ॐ आं द्रीं श्रीं सौः ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः । श्रीदत्तात्रेयप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ॐ द्रां अङ्गुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः । ॐ द्रां हृदयाय नमः । ॐ द्रीं शिरसे स्वाहा । ॐ द्रूं शिखायै वषट् । ॐ द्रैं कवचाय हुं । ॐ द्रौं नेत्रत्रयाय वौषट् । ॐ द्रः अस्त्राय फट् । ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥ अथ ध्यानम् । जगदङ्कुरकन्दाय सच्चिदानन्दमूर्तये । दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने ॥१॥ कदा योगी कदा भोगी कदा नग्नः पिशाचवत् । दत्तात्रेयो हरिः साक्षाद्भुक्तिमुक्तिप्रदायकः ॥२॥ वाराणसीपुरस्नायी कोल्हापुरजपादरः । माहुरीपुरभिक्षाशी सह्यशायी दिगम्बर ॥३॥ इन्द्रनीलसमाकारश्चन्द्रकान्तिसमद्युतिः । वैडुर्यसदृशस्फूर्तिश्चलत्किञ्चिज्जटाधरः ॥४॥ स्निग्धधावल्ययुक्ताक्षोऽत्यन्तनीलकनीनिकः । भ्रूवक्षःश्मश्रुनीलाङ्कः सशाङ्कसदृशाननः ॥५॥ हासनिर्जितनीहारः कण्ठनिर्जितकम्बुकः । मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥६॥ विशालपीनवक्षाश्च ताम्रपाणिर्दलोदरः । पृथुलश्रोणिललितो विशालजघनस्थलः ॥७॥ रम्भास्तम्भोपमानोरुर्जानुपूर्वैकजङ्घकः । गूढगुल्फः कूर्मपृष्ठोलसत्पादोषरिस्थलः ॥८॥ रक्तारविन्दसदृशरमणीयपदाधरः । चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे ॥९॥ ज्ञानोपदेशनीरतो विपद्धरणदीक्षितः । सिद्धासनसमासीन ऋजुकायो हसन्मुखः ॥१०॥ वामहस्तेन वरदो दक्षिणेनाभयङ्करः । बालोन्मत्तपिशाचीभिः क्वचिद्युक्तः परीक्षितः ॥११॥ त्यागी भोगी महायोगी नित्यानन्दो निरञ्जनः । सर्वरूपी सर्वदाता सर्वगः सर्वकामदः ॥१२॥ भस्मोद्धूलितसर्वाङ्गो महापातकनाशनः । भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशयः ॥१३॥ एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत् । मामेव पश्यन्सर्वत्र स मया सह सङ्चरेत् ॥१४॥ दिगम्बरं भस्मसुगन्धलेपनं चक्रं त्रिशूलं डमरुं गदायुधम् । पद्मासनं योगिमुनीन्द्रवन्दितं दत्तेति नामस्मरणेन नित्यम् ॥१५॥ (अथ पञ्चोपचारैः संपूज्य ॐ द्रां इति अष्टोत्तरशतवारं जपेत्) ॐ द्राम् । अथ कवचम् । ॐ दत्तात्रेयः शिरः पातु सहस्राब्जेषु संस्थितः । भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यगः ॥१॥ कूर्चं मनोमयः पातु हं क्षं द्विदलपद्मभूः । ज्योतिरूपोऽक्षिणी पातु पातु शब्दात्मकः श्रुती ॥२॥ नासिकां पातु गन्धात्मा मुखं पातु रसात्मकः । जिह्वां वेदात्मकः पातु दन्तोष्ठौ पातु धार्मिकः ॥३॥ कपोलावत्रिभूः पातु पात्वशेषं ममात्ववित् । स्वरात्मा षोडशाराब्जस्थितः स्वात्माऽवताद्गलम् ॥४॥ स्कन्धौ चन्द्रानुजः पातु भुजौ पातु कृतादिभूः । जत्रुणी शत्रुजित् पातु पातु वक्षःस्थलं हरिः ॥५॥ कादिठान्तद्वादशारपद्मगो मरुदात्मकः । योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ॥६॥ पार्श्वे हरिः पार्श्ववर्ती पातु पार्श्वस्थितः स्मृतः । हठयोगादियोगज्ञः कुक्षी पातु कृपानिधिः ॥७॥ डकारादिफकारान्तदशारसरसीरुहे । नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोऽवतु ॥८॥ वह्नितत्वमयो योगी रक्षतान्मणिपूरकम् । कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोऽवतु ॥९॥ बकारादिलकारान्तषट्पत्राम्बुजबोधकः । (वक्रादि) जलतत्वमयो योगी स्वाधिष्ठानं ममावतु ॥१०॥ सिद्धासनसमासीन ऊरू सिद्धेश्वरोऽवतु । वादिसान्तचतुष्पत्रसरोरुहनिबोधकः ॥११॥ मूलाधारं महीरूपो रक्षताद्वीर्यनिग्रही । पृष्ठं च सर्वतः पातु जान्युन्यस्तकराम्बुजः ॥१२॥ जङ्घे पात्ववधूतेन्द्रः पात्वङ्घ्री तीर्थपावनः । सर्वाङ्गं पातु सर्वात्मा रोमाण्यवतु केशवः ॥१३॥ चर्म चर्माम्बरः पातु रक्तं भक्तिप्रियोऽवतु । मांसं मांसकरः पातु मज्जां मज्जात्मकोऽवतु ॥१४॥ अस्थीनि स्थिरधीः पायान्मेधां वेधाः प्रपालयेत् । शुक्रं सुखकरः पातु चित्तं पातु दृढाकृतिः ॥१५॥ मनोबुद्धिमहङ्कारं हृषीकेशात्मकोऽवतु । कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥१६॥ बन्धून् बन्धूत्तमः पायाच्छत्रुभ्यः पातु शत्रुजित् । गृहारामधनक्षेत्रपुत्रादीञ्छङ्करोऽवतु ॥१७॥ भार्यां प्रकृतिवित् पातु पश्वादीन्पातु शार्ङ्गभृत् । प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्करः ॥१८॥ सुखं चन्द्रात्मकः पातु दुःखात् पातु पुरान्तकः । पशून्पशूपतिः पातु भूतिं भूतेश्वरो मम ॥१९॥ प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः । याम्यां धर्मात्मकः पातु नैरृत्यां सर्ववैरिहृत् ॥२०॥ वराहः पातु वारुण्यां वायव्यां प्राणदोऽवतु । कौबेर्यां धनदः पातु पात्वैशान्यां महागुरुः ॥२१॥ ऊर्ध्वं पातु महासिद्धः पात्वधस्ताज्जटाधरः । रक्षाहीनं तु यत्स्थानं रक्षत्वादिमुनीश्वरः ॥२२॥ ॐ द्राम् । मालामन्त्रजपः । (पुनः) अथ करन्यासः । ॐ द्रां अङ्गुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः । ॐ द्रां हृदयाय नमः । ॐ द्रीं शिरसे स्वाहा । ॐ द्रूं शिखायै वषट् । ॐ द्रैं कवचाय हुं । ॐ द्रौं नेत्रत्रयाय वौषट् । ॐ द्रः अस्त्राय फट् । ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥ एतन्मे वज्रकवचं यः पठेच्छृणुयादपि । वज्रकायश्चिरञ्जीवी दत्तात्रेयोऽहमब्रुवम् ॥२३॥ त्यागी भोगी महायोगी सुखदुःखविवर्जितः । सर्वत्रसिद्धसङ्कल्पो जीवन्मुक्तोऽद्य वर्तते ॥२४॥ इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बरः । दलादनोऽपि तज्जप्त्वा जीवन्मुक्तः स वर्तते ॥२५॥ भिल्लो दूरश्रवा नाम तदानीं श्रुतवादिनम् । सकृच्छ्रवणमात्रेण वज्राङ्गोऽभवदप्यसौ ॥२६॥ इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिनः । श्रुत्वाशेषं शम्भुमुखात् पुनरप्याह पार्वती ॥२७॥ पार्वत्युवाच । एतत्कवचमाहात्म्यं वद विस्तरतो मम । कुत्र केन कदा जाप्यं किं यजाप्यं कथं कथम् ॥२८॥ उवाच शम्भुस्तत्सर्वं पार्वत्या विनयोदितम् । श्रीशिव उवाच । श्रुणु पार्वति वक्ष्यामि समाहितमनाविलम् ॥२९॥ धर्मार्थकाममोक्षाणामिदमेव परायणम् । हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम् ॥३०॥ पुत्रमित्रकलत्रादिसर्वसन्तोषसाधनम् । वेदशास्त्रादिविद्यानां निधानं परमं हि तत् ॥३१॥ सङ्गीतशास्त्रसाहित्यसत्कवित्वविधायकम् । बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम् ॥३२॥ सर्वसन्तोषकरणं सर्वदुःखनिवारणम् । शत्रु संहारकं शीघ्रं यशःकीर्तिविवर्धनम् ॥३३॥ अष्टसंख्या महारोगाः सन्निपातास्त्रयोदश । षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगकाः ॥३४॥ अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि । अशीतिर्वातरोगाश्च चत्वारिशत्तु पैत्तिकाः ॥३५॥ विंशतिश्लेष्मरोगाश्च क्षयचातुर्थिकादयः । मन्त्रयन्त्रकुयोगाद्याः कल्पतन्त्रादिनिर्मिताः ॥३६॥ ब्रह्मराक्षसवेतालकूष्माण्डादिग्रहोद्भवाः । सङ्गजाः देशकालस्थास्तापत्रयसमुत्थिताः ॥३७॥ नवग्रहसमुद्भूता महापातकसम्भवाः । सर्वे रोगाः प्रणश्यन्ति सहस्रावर्तनाद्ध्रुवम् ॥३८॥ अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत् । अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत् ॥३९॥ अयुतत्रितयाच्चैव खेचरत्वं प्रजायते । सहस्रादयुतादर्वाक् सर्वकार्याणि साधयेत् ॥४०॥ लक्षावृत्या कार्यसिद्धिर्भवेत्येव न संशयः ॥४१॥ विषवृक्षस्य मूलेषु तिष्ठन् वै दक्षिणामुखः । कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम् ॥४२॥ औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते । श्रीवक्षमूले श्रीकामी तिन्तिणी शान्तिकर्मणि ॥४३॥ ओजस्कामोऽश्वत्थमूले स्त्रीकामैः सहकारके । ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभिः ॥४४॥ धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके । देवालये सर्वकामैस्तत्काले सर्वदर्शितम् ॥४५॥ नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् । युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् ॥४६॥ कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् । ज्वरापस्मारकुष्ठादितापज्वरनिवारणम् ॥४७॥ यत्र यत्स्यात्स्थिरं यद्यत्प्रसन्नं तन्निवर्तते । तेन तत्र हि जप्तव्यं ततः सिद्धिर्भवेद्ध्रुवम् ॥४८॥ इत्युक्त्वान् च शिवो गौर्ये रहस्यं परमं शुभम् । यः पठेत् वज्रकवचं दत्तात्रेयोसमो भवेत् ॥४९॥ एवं शिवेन कथितं हिमवत्सुतायै प्रोक्तं दलादमुनयेऽत्रिसुतेनपूर्वम् । यः कोऽपि वज्रकवचं पठतीह लोके दत्तोपमश्चरति योगिवरश्चिरायुः ॥५०॥ ॥ इति श्रीरुद्रयामले हिमवत्खण्डे मन्त्रशास्त्रे उपासनाखण्डे शिवविजयसिद्धान्ते उमामहेश्वरसंवादे श्रीदत्तात्रेयवज्रकवचस्तोत्रं सम्पूर्णम् ॥ ॥ श्रीदत्तात्रेयार्पणमस्तु । N/A References : N/A Last Updated : November 25, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP