संस्कृत सूची|संस्कृत साहित्य|कवच|
अस्य श्रीबटुकभैरवकवचस्य ...

बटुकभैरवकवचम् - अस्य श्रीबटुकभैरवकवचस्य ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अस्य श्रीबटुकभैरवकवचस्य शिवब्रह्मऋषिरनुष्टुप् छन्दः श्रीबटुकभैरवो देवता ममैश्वर्यस्याभिष्टद्धयर्थं श्रीबटुकभैरवः प्रसादसिद्धये जपे विनियोगः । ध्यानं - दिग्वासरां कमलपत्रविशालनेत्रं भस्माङ्गरागमभयं प्रभुमादिदेवम् । ध्यायामि तं बटुकनाथमहर्निशं मे सर्वार्थसिद्धिमतुलां कृपया दिशन्तम् ॥
कवचपाठः - शिरो मे भैरवः पातु भालं पुरनिषूदनः । दृशौ पातु त्रिनेत्री मे श्रवणं नीलकण्ठकः ॥१॥
दिग्वासा मे पातु कण्ठं नासिकाभगकन्यभाक् । ओष्ठौ त्रिपुरधाती मे जिह्वां पातु कपालधृक् ॥२॥
दन्तान् पातु क्रतुध्वंसी चिबुकं भूतवासकः । कपाली पातु मे ग्रीवां स्कन्धौ पातु गजान्तकः ॥३॥
भुजौ मे पातु कौमारो हृदयं क्षेत्रपालकः । अभीरुर्मे स्तनौ पातु वक्षः पातु महेश्वरः ॥४॥
कुक्षौ मे पातु संहर्त्ता नाभिं मे षण्मुखप्रियः । भूतनाथः कटिं पातु गुह्यं पातु जटाधरः ॥५॥
ऊरू पातु वृषारूढो जानुनी भूतभावनः । शमशानवासी मे पातु पातु सर्वाङ्गमीश्वरः ॥६॥
॥ इति ऐश्वर्यदायकं बटुकभैरवकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP