संस्कृत सूची|संस्कृत साहित्य|कवच|
अस्य श्रीत्रैलोक्यमोहनवज्...

श्रीत्रैलोक्यमोहनवज्रपञ्जररामकवचम् - अस्य श्रीत्रैलोक्यमोहनवज्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अस्य श्रीत्रैलोक्यमोहनवज्रपञ्जरकवचस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता, रां बीजं, रीं शक्तिः, रूं कीलकम् ।  मम समस्तप्रारब्धपरिहारद्वारा श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः । रामित्यादि षडङ्गन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम् । नीलाम्भोधरकान्तिकान्तमानिशं वीरासनाध्यासितं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तं मकुटाङ्गदादिविलसद्रत्नोज्ज्वलाङ्गं भजे ॥१॥
लमित्यादि पञ्चपूजा । ॐ श्रीपार्वत्युवाच- भगवन् सर्वदेश सर्वदेवनमस्कृत । सर्वं मे कथितं देव राममन्त्रं विशेषतः ॥२॥
त्रैलेक्यमोहनं नाम कवचं पूर्वसूचितम् । कथयस्व महाभाग यद्यहं तव वल्लभा ॥३॥
श्री ईश्वर उवाच- श‍ृणु वक्ष्यामि देवेशि कवचं परमाद्भुतम् । अत्यन्तगोपितं गुह्यं ब्रह्ममन्त्रौघविग्रहम् ॥४॥
कवचस्य ऋषिर्ब्रह्मा गायत्री छन्द ईरितम् । देवता रामचन्द्रोऽस्य विनियोगोऽष्टसिद्धिषु ॥५॥
ओम् । प्रणवो मे शिरः पातु तारकब्रह्मरूपधृत् । अनन्तोऽग्रिसहस्रेन्दुः नासां पातु रघोः पतिः ॥६॥
रां रामाय नमस्तुभ्यं षड्वर्णो भुक्तिमुक्तिदः । फालं पायान्नेत्रयुग्मं रामो द्व्यक्षरसंज्ञकः ॥७॥
रां रामचन्द्राय नमो भ्रूद्वयं पातु मेऽन्वहम् । रां रामभद्राय नमश्चुबुकं पातु मे सदा ॥८॥
क्लीं मे पायाच्छ्रोत्रयुग्मं कर्णौ मे विश्वमोहनः । क्लीं रामाय नमश्चेति मुखं मे परिरक्षतु ॥९॥
तारं रामचतुर्थं तु क्रोधास्रवह्निकल्पितम् (?) । अष्टर्णोऽयं परो मन्त्रो जिह्वां मे पातु सर्वदा ॥१०॥
गुणं बीजं तथा मायां हृद्रामाय ततश्चर । शिरो मां राममन्त्रोऽयं गण्डयुग्मं सदावतु ॥११॥
ॐ हृद्भगवते रामचन्द्रभद्रौ च ज्ञेयता । अर्कानुद्विविधौ मन्त्रौ रक्षतां मम कन्धरम् ॥१२॥
रां रामचन्द्राय स्वाहा षड्वर्णोऽव्याद्भुजद्वयम् । श्रीरामाय नमश्चासौ कक्षौ पातु खरान्तकः ॥१३॥
 ? ? नृसिंहो लक्ष्मीपाशाङ्कुशस्ततः । वर्मास्त्राणि वधू युक्तो रव्यर्णोऽव्यादुरःस्थलम् ॥१४॥
श्रीरामचन्द्राय ततो रक्षोघ्नाय नमस्त्वयम् । हृदयं मे सदा पातु रघुवंशसमुद्भवः ॥१५॥
रामाज्ञेतु वराहास्त्रं वह्निजायायुतं मनुः । वीरस्वरूपरामाभ्यां सप्तार्णा पातु पार्श्वकौ (? ) ॥१६॥
ॐ श्रीं ह्रीं क्लीं ततो रामं च रामाय नमस्त्वयम् । दशाक्षराज्ञो मन्त्रो मे पुरतः पृष्ठतोऽवतु ॥१७॥
श्रीपूर्वं जय मध्यस्थं तद्विधा राम राम च । नमः पञ्चदशर्णोऽयं सदा पातु ममोदरम् ॥१८॥
हुं जानकीवल्लभाय स्वाहाद्यावतु मध्यमम् । श्रीरामचन्द्राय स्वाहा नाभिमष्टाक्षरोऽवतु ॥१९॥
क्लीं रामचन्द्राय ततः सीतायाः पतये नमः । मन्वस्यः सक्थिनी पातु राक्षसेन्द्रविमर्दनः ॥२०॥
ॐ रामभद्राय नमो गुह्यं मे पातु राघवः । श्रीरामभद्राय नमो मम पातूरुयुग्मकम् ॥२१॥
प्रणवो रामचन्द्राय स्वापात्यष्टाक्षरोऽवतु । पादयुग्मं सदा पातु वानरेन्द्राश्रयः प्रभुः ॥२२॥
रामभद्र महेष्वास रघुवीर नृपोत्तम । दशास्यान्तक मां रक्ष देहि नः परमे(मां) श्रियम् ॥२३॥
द्वात्रिंशदक्षरो यस्स्यात् सर्वाङ्गं पातु मे सदा । श्रीं सीतापतये नमः प्राच्यां मां सर्वदावतु ॥२४॥
हुँ जानकीवल्लभाय स्वाहा याम्यां च सर्वदा । क्लीं जानकीवल्लभाय प्रतीच्यां सर्वदावतु ॥२५॥
श्रीरघुनन्दनाय नमः कौबेर्यां दिशि रक्षतु । श्रीं सीतायै ततः स्वाहा रां रामाय नमस्त्वयम् ॥२६॥
सीतारामाख्यमन्त्रे(न्त्रोऽयं) विदिक्षूर्ध्वमधश्च माम् । नमो भगवते ब्रूयाच्चचतुर्थ्यां रघुनन्दनः ॥२७॥
रक्षो घोरदि ? ? मधुरादि समीरयेत् । प्रसन्नवदनायेति पश्चादमितितेजसे ॥२८॥
बलाय पश्चाद्रामाय विष्णवे तदनन्तरम् । प्रणवादिनमोऽन्तोऽयं मालामन्त्र उदीरितः ॥२९॥
सर्वस्थानेषु कालेषु पातु मां रघुनन्दनः । वदेद्दाशरथायेति विद्महेति पदं ततः ॥३०॥
सीतापदं समुद्रत्या(समुच्चार्य)वल्लभायपदं ततः । धीमहीत्यथ तं नोऽथ रामश्चापि प्रचोदयात् ॥३१॥
एषा स्याद्रामगायत्री सर्वावस्थासु पातु माम् । इति ते कथितं देवि सर्वमन्त्रौघविग्रहम् ॥३२॥
त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् । प्रातः काले पठेद्यस्तु कवचं मुक्तिसाधकम् ॥३३॥
कीर्तिश्रीकान्तिमेधायुर्भूतिश्च भवति ध्रुवम् । राममन्त्रमथ ब्रह्मकवचं मनुचोदितम् ॥३४॥
गुह्यमभ्यर्च्य विधिवत् पुनश्चर्यां समाचरेत् । अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम् ॥३५॥
ततः सुसिद्धं कवचं सर्वकार्याणि साधयेत् । मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्यां विना ततः ॥३६॥
लाज आज्यं च ।  गद्यपद्यमयी वाणी तस्य वक्त्रात्प्रवर्तते । वक्त्रे तस्य वसेद्वाणी कलाश्च निश्चला गृहे ॥३७॥
पुष्पाञ्जल्यष्टकं दत्त्वा मलेनैव परे सकृत् । अपि वर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥३८॥
विलिख्य भूर्जपत्रे तु स्वर्णस्थं धारयेद्यदि । कर्णे च दक्षिणे बाहौ स कुर्या वतं(दवितं)जगत् ॥३९॥
त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् । तद्गात्रं प्राप्य शास्त्राणि ब्रह्मास्त्रादीनि यानि च ॥४०॥
माल्यानि कुसुमानीव सुखदानि भवन्ति हि । सार्धमु ॥॥॥। हवने लक्ष्मीवाणीमुखे वसेत् ॥४१॥
य इदं कवचं ज्ञात्वा यो जपेद्राममन्त्रकम् । शतलक्षमवाप्नोति सोऽचिरान्मृत्यु(न्मुक्ति)माप्नुयात् ॥४२॥
त्रैलोक्यमोहनं जप्त्वा न मन्त्रासिद्धिसाधकः । स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् । तस्मात् सर्वप्रयत्नेन कवचं धारयेद्बुधः ॥४३॥
इति ब्रह्माण्डपुराणे पार्वतीश्वरसंवादे त्रैलोक्यमोहनवज्रपञ्जररामकवच  नाम दिव्यमन्त्रकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP