संस्कृत सूची|संस्कृत साहित्य|कवच|
अस्य श्री सर्व वशीकरण स्त...

वश्यवाराही स्तोत्रम् - अस्य श्री सर्व वशीकरण स्त...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अस्य श्री सर्व वशीकरण स्तोत्र मन्त्रस्य नारद ऋषिः अनुष्टुप् छन्दः श्री वश्यवाराही देवता ऐं बीजं क्लीं शक्तिः ग्लौं कीलकं मम सर्ववश्यार्थे जपे विनियोगः ।
नारद ऋषये नमः शिरसि । अनुष्ठप् छन्दसे नमः मुखे । वश्यवाराही देवतायै नमः ह्रदि । ऐं बीजाय नमः गुह्ये । क्लीं शक्तये नमः पादयोः । ग्लों कीलकाय नमः सर्वाङ्गे । हृदयादिन्यासः ।  करन्यासः ॐ ऐं सर्ववश्य वाराह्यै नमः । अङ्गुष्ठाभ्यां नम्ः । हृदये नमः । ॐ क्लीं सर्ववश्य वाराह्यै नमः । तर्जनीभ्यां नम्ः । शिरसे स्वाहा । ॐ ग्लौं सर्ववश्य वाराह्यै नमः । मध्यमाभ्यां नम्ः । शिखायै वषट् । ॐ सर्ववश्य अश्वारूढे नमः । अनामिकाभ्यां नम्ः । कवचाय हुं । ॐ क्लीं सर्ववश्यवाराह्यै नमः ।   कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । ॐ ग्लौं ममसर्ववशङ्करि कुरु कुरु ठः ठः  नमः ।   करतलकरपृष्ठाभ्यां । अस्त्राय फट् ।
ध्यानम् - तारे तारिणि देवि विश्वजननि प्रौढप्रतापान्विते । तारे दिक्षु विपक्ष यक्ष दलिनि वाचा चला वारूणी ॥
लक्ष्मीकारिणि कीर्तिधारिणि महा सौभाग्य सन्दायिनि । रूपं देहि यशश्च सततं वश्यं जगत्यावृतम् ॥
मन्त्रः -- ॐ ऐं क्लीं ग्लौं अश्वारूढे सर्ववश्य वाराह्यै मम सर्ववशङ्करि कुरु कुरु ठः ठः ॥
मानसोपचारैः सम्पूज्य
अथ स्तोत्रम् - अश्वारूढे रक्तवर्णे स्मितसौम्यमुखाम्बुजे । राज्यस्त्री सर्वजन्तूनां वशीकरणनायिके ॥१॥
वशीकरण कार्यार्थ पुरा देवेन निर्मितम् । तस्माद् वश्यवाराही सर्वान्मे वशमानय ॥२॥
यथा राजा महाज्ञानं वस्त्रं धान्यं महावसु । मह्यं ददाति वाराहि यथात्वं वशमानय ॥३॥
अन्तर्बहिश्च मनसि व्यापारेषु सभाषु च । यथा मामेवं स्मरति तथा वश्यं वशं कुरु ॥४॥
चामरं दोलिकां छत्रं राज चिह्नानि यच्छति । अभीष्ठं संप्रदोराज्यं यथा देवि वशं कुरु ॥५॥
मन्मथस्मरणाद्रामा रतिर्यातु मयासह । स्त्री रत्नेषु महत्प्रेम तथा जनयकामदे ॥६॥
मृग पक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः । अनुगच्छति मामेव त्वत्पसादाद्दयां कुरु ॥७॥
वशीकरण कार्यार्थ यत्र यत्र प्रयुञ्जति । सम्मोहनार्थ वर्द्धित्वात्तत्कार्य तत्र कर्षय ॥८॥
वशमस्तीति चैवात्र वश्य कार्येषु दृश्यते । तथा मां कुरु वाराही वश्य कार्यप्रदर्शय ॥९॥
वशीकरण बाणास्त्रं भक्त्यापद्धिनिवारणम् । तस्मात् वश्यवाराही जगत्सर्व वशं कुरु ॥१०॥
वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नर । अभीष्टं प्राप्नुयाद् भक्तो रमां राज्यं यथापिवः ॥११॥
इति अथर्वशिखायां वश्यवाराही स्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP