संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः ॥ श्रीसूर...

सूर्यकवचं - श्रीगणेशाय नमः ॥ श्रीसूर...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः ॥ श्रीसूर्य उवाच । साम्ब साम्ब महाबाहो श‍ृणु मे कवचं शुभम् । त्रैलोक्यमङ्गलं नाम कवचं परमाद्भुतम् ॥१॥
यज्ज्ञात्वा मन्त्रवित्सम्यक् फलं प्राप्नोति निश्चितम् ।  यद्धृत्वा च महादेवो गणानामधिपोभवत् ॥२॥
पठनाद्धारणाद्विष्णुः सर्वेषां पालकः सदा । एवमिन्द्रादयः सर्वे सर्वैश्चर्यमवाप्मुयुः ॥३॥
कवचस्य ऋषिर्ब्रह्मा छन्दोनुष्टुबुदाहृतः । श्रीसूर्यो देवता चात्र सर्वदेवनमस्कृतः ॥४॥
यश आरोग्यमोक्षेषु विनियोगः प्रकीर्तितः । प्रणवो मे शिरः पातु घृणिर्मे पातु भालकम् ॥५॥
सूर्योऽव्यान्नयनद्वन्द्वमादित्यः कर्णयुग्मकम् । अष्टाक्षरो महामन्त्रः सर्वाभीष्टफलप्रदः ॥६॥
ह्रीं बीजं मे मुखं पातु हृदयं भुवनेश्वरी । चन्द्रबिम्बं विंशदाद्यं पातु मे गुह्यदेशकम् ॥७॥
अक्षरोऽसौ महामन्त्रः सर्वतन्त्रेषु गोपितः । शिवो वह्निसमायुक्तो वामाक्षीबिन्दुभूषीतः ॥८॥
एकाक्षरो महामन्त्रः श्रीसूर्यस्य प्रकीर्तितः । गुह्याद्गुह्यतरो मन्त्रो वाञ्छाचिन्तामणिः स्मृतः ॥९॥
शीर्षादिपादपर्यन्तं सदा पातु मनूत्तमः । इति ते कथितं दिव्यं त्रिषु लोकेषु दुर्लभम् ॥१०॥
श्रीप्रदं कान्तिदं नित्यं धनारोग्यविवर्धनम् । कुष्ठादिरोगशमन महाव्याधिविनाशनम् ॥११॥
त्रिसन्ध्यं यः पठेन्नित्यमरोगी बलवान्भवेत् । बहुना किमिहोक्तेन यद्यन्मनसि वर्तते ॥१२॥
ततत्सर्वं भवेत्तस्य कवचस्य च धारणात् । भूतप्रेतपिशाचाश्र्च यक्षगन्धर्वराक्षसाः ॥१३॥
ब्रह्मराक्षसवेताला न् द्रष्टुमपि तं क्षमाः । दूरादेव पलायन्ते तस्य सङ्कीर्तणादपि ॥१४॥  भूर्जपत्रे समालिख्य रोचनागुरुकुङ्कुमैः । रविवारे च सङ्क्रान्त्यां सप्तम्यां च विशेषतः । धारयेत्साधकश्रेष्ठः श्रीसूर्यस्य प्रियोभवेत् ॥१५॥
त्रिलोहमध्यगं कृत्वा धारयेद्दक्षिणे करे । शिखायामथवा कण्ठे सोऽपि सूर्यो न संशयः ॥१६॥
इति ते कथितं साम्ब त्रैलोक्यमङ्गलाभिधम् । कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम् ॥१७॥
अज्ञात्वा कवचं दिव्यं यो जपेत्सूर्यमुत्तमम् । सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥१८॥
इति श्रीब्रह्मयामले त्रैलोक्यमङ्गलं नाम सूर्यकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP