संस्कृत सूची|संस्कृत साहित्य|कवच|
पार्वत्युवाच - देव देव म...

श्रीभैरवपञ्जरकवचम् - पार्वत्युवाच - देव देव म...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

पार्वत्युवाच - देव देव महादेव संसार प्रियकारक । पञ्जरं बटुकस्यास्य कथनीयं मम प्रभो ॥१॥
श्रीशिव उवाच - पूर्वम् भस्मासुरत्रासाद् भय विह्वलतां स्वयम् । पठनादेव मे प्राणा रक्षितः परमेश्वरि ॥२॥
सर्वदुष्टविनाशाय सर्वरोगनिवारणम् । दुःखशान्तिकरं देवि ह्यल्पमृत्युभयापहम् ॥३॥
राज्ञां वश्यकरं चैव त्रैलोक्य विजयप्रदम् । सर्वलोकेषु पूज्यश्च लक्ष्मीस्तस्य गृहे स्थिरा ॥४॥
अनुष्ठानं कृतं देवि पूजनं च दिने दिने । विना पञ्जरपाठेन तत्सर्वं निष्फलं भवेत् ॥६॥
अस्य श्रीबटुकभैरवपञ्जरकवचमन्त्रस्य कालाग्निरुद्रः ऋषिः । अनुष्टुप्छन्दः । ॐ बटुकभैरवो देवता । ह्रां बीजं ॐ भैरवी वल्लभा शक्तिः । ॐ दण्डपाणये नमः कीलकम् । मम सकलकामनासिद्ध्यर्धे जपे विनियोगः ॥
ॐ ह्रां प्राच्यां डमरुहस्तो रक्तवर्णो महाबलः । प्रत्यक्षमहमीशान बटुकाय नमो नमः ॥
ॐ ह्रीं दण्डधारी दक्षिणे च पश्चिमे खड्गधारिणे । ॐ ह्रूं घटावादी मूतिरुत्तरस्यां दिशिस्तथा । ॐ ह्रैं अग्निरूपो ह्याग्नेय्यां नैरृत्यां च दिगम्बरः । ॐ ह्रौं सर्वभूतस्थो वायव्ये भूतानां हितकारकः ॥
ॐ ह्रश्चवाष्टसिद्धिश्च ईशाने सर्वसिद्धिकरः परः । प्रत्यक्षमहमीशान बटुकाय नमो नमः ॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्वाहा ऊर्ध्वं खेचरिणं न्यसेत् । रुद्ररूपस्तु पाताले बटुकाय नमो नमः ॥
ॐ ह्रीं बटुकाय मूर्ध्नि ललाटे भीमरूपिणम् । आपदुद्धरणं नेत्रे मुखे च बटुकं न्यसेत् ॥१॥
कुरु कुरु सर्वसिद्धिर्देहे गेहे व्यवस्थितः । बटुकाय ह्रीं सर्वदेहे विश्वस्य सर्वतो दिशि ॥२॥
आपदुद्धारकः पातु ह्यापादतलमस्तकम् । हसक्षमलवरयुं पातु पूर्वे दण्डहस्तस्तु दक्षिणे ॥३॥
हसक्षमलवरयुं नैरृत्ये हसक्षमलवरयुं पश्चिमेऽवतु । सर्वभूतस्थो वायव्ये हसक्षमलवरयुं घटावादिन उत्तरे ॥४॥
हंसः सोऽहं तु ईशाने चाष्टसिद्धिकरः परः । शंक्षेत्रपाल ऊर्ध्वे तु पाताले शिव सन्निभः ॥५॥
एवं दशदिशो रक्षेद्बटुकाय नमो नमः । इति ते कथितं ह्रीं श्रीं क्लीं ऐं सदाऽवतु ॥६॥
ॐ फ्रें हुं फट् च सर्वत्र त्रैलोक्ये विजयी भवेत् । लक्ष्मीं ऐं श्रीं लं पृथिव्यां च आकारो हं ममावतु ॥७॥
स्रौं प्रौं ज्रौं ऊँ यं वायव्यां रं रं रं तेजोरूपिणम् । ॐ कं खं गं घं ङं बटुकं चं छं जं झं ञं कपालिनम् ॥८॥
टं ठं डं ढं णं क्षेत्रेशं तं थं दं धं नं उमाप्रियम् । पं फं बं भं मं ममरक्ष यं रं लं भैरवोत्तमम् ॥९॥
वं शं षं सं आदिनाथं लं क्षं वै क्षेत्रपालकम् । (फलश्रुतिः) एवं पञ्जरमाख्यातं सर्वसिद्धिकरं भवेत् ॥१०॥
दुःखदारिद्र्यशमनं रक्षकः सर्वतो दिशः । आवश्यं सर्वतो वक्ष्यं सर्वबीजैश्च सम्पुटम् ॥११॥
सर्वरोगहरं दिव्यं सर्वत्र सुखमाप्नुयात् । एवं रहस्यमाख्यातं देवानामपि दुर्लभम् ॥१२॥
वज्रपञ्जरनामेदं ये श‍ृण्वन्ति वरानने । आयुरारोग्यमैश्वर्यं कीर्तिलाभः सुखं जयः ॥१३॥
लक्ष्मी मनोरमा बुद्धिस्तेषां गेहे व्यवस्थिता । सुशीलाय सुदान्ताय गुरुभक्तिपराय च ॥१४॥
तस्य शीघ्रं च दातव्यमन्यथा न कदाचन । गोपनीयं प्रयत्नेन सर्वगोप्यमयं भवेत् ॥१५॥
यस्मै कस्मै न दातव्यं न दातव्यं कदाचन । राज्यं देयं शिरो देयं न देयं भैरवाक्षरम् ॥१६॥
एककालं द्विकालं वा त्रिकालं पठते नरः । सर्वपापविनिर्मुक्तो शिवेन सह मोदते ॥१७॥
॥ इति श्रीभैरवपञ्जरकवचं समाप्तम् ॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP