संस्कृत सूची|संस्कृत साहित्य|कवच|
शिवस्य कवचं स्तोत्रं श्रू...

संसारपावनकवचं - शिवस्य कवचं स्तोत्रं श्रू...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

शिवस्य कवचं स्तोत्रं श्रूयतामिति शौनक । वसिष्ठेन च यद्दत्तं गन्धर्वाय च यो मनुः ॥३९॥
ओं नमो भगवते शिवाय स्वाहेति च मनुः । दत्तो वसिष्ठेन पुरा पुष्करे कृपया विभो ॥४०॥
अयं मन्त्रो रावणाय प्रदत्तो ब्रह्मणा पुरा । स्वयं शम्भुश्च बाणाय तथा दुर्वाससे पुरा ॥४१॥
मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् । ध्यायेन्नित्याधिकं ध्यानं वेदोक्तं सर्वसम्मतम् ॥४२॥
ॐ नमो महादेवाय ।
बाण उवाच । महेश्वर महाभाग कवचं यत् प्रकाशितम् । संसारपावनं नाम कृपया कथय प्रभो ॥४३॥
महेश्वर उवाच । श‍ृणु वक्ष्यामि हे वत्स कवचं परमाद्भुतम् । अहं तुभ्यं प्रदास्यामि गोपनीयं सुदुर्लभम् ॥४४॥
पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय च । ममैवेदं च कवचं भक्त्या यो धारयेत् सुधीः ॥४५॥
जेतुं शक्नोति त्रैलोक्यं भगवन्नवलीलया । संसारपावनस्यास्य कवचस्य प्रजापतिः ॥४६॥
ऋषिश्च्छन्दश्च गायत्री देवोऽहं च महेश्वरः । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥४७॥
पञ्चलक्षजपेनैव सिद्धिदं कवचं भवेत् । यो भवेत् सिद्धकवचो मम तुल्यो भवेद्भुवि । तेजसा सिद्धियोगेन तपसा विक्रमेण च ॥४८॥
शम्भुर्मे मस्तकं पातु मुखं पातु महेश्वरः । दन्तपंक्तिं नीलकण्ठोऽप्यधरोष्ठं हरः स्वयम् ॥४९॥
कण्ठं पातु चन्द्रचूडः स्कन्धौ वृषभवाहनः । वक्षःस्थलं नीलकण्ठः पातु पृष्ठं दिगम्बरः ॥५०॥
सर्वाङ्गं पातु विश्वेशः सर्वदिक्षु च सर्वदा । स्वप्ने जागरणे चैव स्थाणुर्मे पातु सन्ततम् ॥५१॥
इति ते कथितं बाण कवचं परमाद्भुतम् । यस्मै कस्मै न दातव्यं गोपनीयं प्रयत्नतः ॥५२॥
यत् फलं सर्वतीर्थानां स्नानेन लभते नरः । तत् फलं लभते नूनं कवचस्यैव धारणात् ॥५३॥
इदं कवचमज्ञात्वा भजेन्मां यः सुमन्दधीः । शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥५४॥
इति श्रीब्रह्मवैवर्ते शङ्करकवचं समाप्तम् ।

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP