संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ श्रीगणेशाय नमः ॥ ॥ ...

कुलकुण्डलिनीकवचं - ॥ श्रीगणेशाय नमः ॥ ॥ ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहेश्वराभ्यां नमः ॥
॥ श्रीगुरवे नमः ॥
आनन्दभैरवी उवाच । अथ वक्ष्ये महादेव कुण्डलीकवचं शुभम् । परमानन्ददं सिद्धं सिद्धवृन्दनिषेवितम् ॥१॥
यत्कृत्वा योगिनः सर्वे धर्माधर्मप्रदर्शकाः । ज्ञानिनो मानिनो धर्मान् विचरन्ति यथामराः ॥२॥
सिद्धयोऽप्यणिमाद्याश्च करस्थाः सर्वदेवताः । एतत्कवचपाठेन देवेन्द्रो योगिराड्भवेत् ॥३॥
ऋषयो योगिनः सर्वे जटिलाः कुलभैरवाः । प्रातःकाले त्रिवारं च मध्याह्ने वारयुग्मकम् ॥४॥
सायाह्ने वारमेकन्तु पठेत्कवचमेव च । पठेदेवं महायोगी कुण्डलीदर्शनं भवेत् ॥५॥
ॐ अस्य श्रीकुलकुण्डलीकवचस्य ब्रह्मेन्द्र ऋषिः । गायत्री छन्दः । कुलकुण्डली देवता । सर्वाभीष्टसिद्ध्यर्थे विनियोगः ।
ॐ ईश्वरी जगतां धात्री ललिता सुन्दरी परा । कुण्डली कुलरूपा च पातु मां कुलचण्डिका ॥६॥
शिरो मे ललिता देवी पातूग्राख्या कपोलकम् । ब्रह्ममन्त्रेण पुटिता भ्रूमध्यं पातु मे सदा ॥७॥
नेत्रत्रयं महाकाली कालाग्निभक्षिका शिखाम् । दन्तावलीं विशालाक्षी ओष्ठमिष्टानुवासिनी ॥८॥
कामबीजात्मिका विद्या अधरं पातु मे सदा । ऌयुगस्था गण्डयुग्मं माया विश्वा रसप्रिया ॥९॥
भुवनेशी कर्णयुग्मं चिबुकं क्रोधकालिका । कपिला मे गलं पातु सर्वबीजस्वरूपिणी ॥१०॥
मातृकावर्णपुटिता कुण्डली कण्ठमेव च । हृदयं कालपृथ्वी च कङ्काली पातु मे मुखम् ॥११॥
भुजयुग्मं चतुर्वर्गा चण्डदोर्द्दण्डखण्डिनी । स्कन्धयुग्मं स्कन्दमाता हालाहलगता मम ॥१२॥
अङ्गुल्यग्रं कुलानन्दा श्रीविद्या नखमण्डलम् । कालिका भुवनेशानी पृष्ठदेशं सदावतु ॥१३॥
पार्श्वयुग्मं महावीरा वीरासनधराभया । पातु मां कुलदर्भस्था नाभिमुदरमम्बिका ॥१४॥
कटिदेशं पीठसंस्था महामहिषघातिनी । लिङ्गस्थानं महामुद्रा भगं मालामनुप्रिया ॥१५॥
भगीरथप्रिया धूम्रा मूलाधारं गणेश्वरी । चतुर्दलं कक्ष्यपूज्या दलाग्रं मे वसुन्धरा ॥१६॥
शीर्षं राधा रणाख्या च ब्रह्माणी पातु मे मुखम् । मेदिनी पातु कमला वाग्देवी पूर्वगं दलम् ॥१७॥
छेदिनी दक्षिणे पातु पातु चण्डा महातपा । चन्द्रघण्टा सदा पातु योगिनी वारुणं दलम् ॥१८॥
उत्तरस्थं दलं पातु पृथिवीमिन्द्रपालिता । चतुष्कोणं कामविद्या ब्रह्मविद्याब्जकोणकम् ॥१९॥
अष्टशूलं सदा पातु सर्ववाहनवाहना । चतुर्भुजा सदा पातु डाकिनी कुलचञ्चला ॥२०॥
मेढ्रस्था मदनाधारा पातु मे चारुपङ्कजम् । स्वयम्भूलिङ्ग चार्वाका कोटराक्षी ममासनम् ॥२१॥
कदम्बवनमापातु कदम्बवनवासिनी । वैष्णवी परमा माया पातु मे वैष्णवं पदम् ॥२२॥
षड्दलं राकिणी पातु राकिणी कामवासिनी । कामेश्वरी कामरूपा श्रीकृष्णं पीतवाससम् ॥२३॥
वनमाला वनदुर्गा शङ्खं मे शङ्खिनी शिवा । चक्रं चक्रेश्वरी पातु कमलाक्षी गदां मम ॥२४॥
पद्मं मे पद्मगन्धा च पद्ममाला मनोहरा । रादिलान्ताक्षरं पातु लाकिनी लोकपालिनी ॥२५॥    षड्दले स्थितदेवांश्च पातु कैलासवासिनी ।  अग्निवर्णा सदा पातु गणं मे परमेश्वरी ॥२६॥
मणिपूरं सदा पातु मणिमालाविभूषणा । दशापत्रं दशवर्णं डादिफान्तं त्रिविक्रमा ॥२७॥
पातु नीला महाकाली भद्रा भीमा सरस्वती । अयोध्यावासिनी देवी महापीठनिवासिनी ॥२८॥
वाग्भवाद्या महाविद्या कुण्डली कालकुण्डली । दशच्छदगतं पातु रुद्रं रुद्रात्मकं मम ॥२९॥
सूक्ष्मात्सूक्ष्मतरा पातु सूक्ष्मस्थाननिवासिनी । राकिणी लोकजननी पातु कूटाक्षरस्थिता ॥३०॥
तैजसं पातु नियतं रजकी राजपूजिता । विजया कुलबीजस्था तवर्गं तिमिरापहा ॥३१॥
मन्त्रात्मिका मणिग्रन्थिभेदिनी पातु सर्वदा । गर्भदाता भृगुसुता पातु मां नाभिवासिनी ॥३२॥
नन्दिनी पातु सकलं कुण्डली कालकम्पिता । हृत्पद्मं पातु कालाख्या धूम्रवर्णा मनोहरा ॥३३॥
दलद्वादशवर्णं च भास्करी भावसिद्धिदा । पातु मे परमा विद्या कवर्गं कामचारिणी ॥३४॥
चवर्गं चारुवसना व्याघ्रास्या टङ्कधारिणी । चकारं पातु कृष्णाख्या काकिनीं पातु कालिका ॥३५॥
टकुराङ्गी टकारं मे जीवभावा महोदया । ईश्वरी पातु विमला मम हृत्पद्मवासिनी ॥३६॥
कर्णिकां कालसन्दर्भा योगिनी योगमातरम् । इन्द्राणी वारुणी पातु कुलमाला कुलान्तरम् ॥३७॥
तारिणी शक्तिमाता च कण्ठवाक्यं सदावतु । विप्रचित्ता महोग्रोग्रा प्रभा दीप्ता घनासना ॥३८॥
वाक्स्तम्भिनी वज्रदेहा वैदेही वृषवाहिनी । उन्मत्तानन्दचित्ता च क्षणोशीशा भगान्तरा ॥३९॥
मम षोडशपत्राणि पातु मातृतनुस्थिता ।    सुरान् रक्षतु वेदज्ञा सर्वभाषा च कर्णिकाम् ॥४०॥
ईश्वरार्धासनगता प्रपायान्मे सदाशिवम् । शाकम्भरी महामाया साकिनी पातु सर्वदा ॥४१॥
भवानी भवमाता च पायाद्भ्रूमध्यपङ्कजम् । द्विदलं व्रतकामाख्या अष्टाङ्गसिद्धिदायिनी ॥४२॥
पातु नासामखिलानन्दा मनोरूपा जगत्प्रिया । लकारं लक्षणाक्रान्ता सर्वलक्षणलक्षणा ॥४३॥
कृष्णाजिनधरा देवी क्षकारं पातु सर्वदा । द्विदलस्थं सर्वदेवं सदा पातु वरानना ॥४४॥
बहुरूपा विश्वरूपा हाकिनी पातु संस्थिता । हरापरशिवं पातु मानसं पातु पञ्चमी ॥४५॥
षट्चक्रस्था सदा पातु षट्चक्रकुलवासिनी । अकारादिक्षकारान्ता बिन्दुसर्गसमन्विता ॥४६॥
मातृकाणां सदा पातु कुण्डली ज्ञानकुण्डली । देवकाली गतिप्रेमा पूर्णा गिरितटं शिवा ॥४७॥
उड्डीयानेश्वरी देवी सकलं पातु सर्वदा । कैलासपर्वतं पातु कैलासगिरिवासिनी ॥४८॥
पातु मे डाकिनीशक्तिर्लाकिनी राकिणी कला । साकिनी हाकिनी देवी षट्चक्रादीन् प्रपातु मे ॥४९॥
कैलासाख्यं सदा पातु पञ्चाननतनूद्भवा । हिरण्यवर्णा रजनी चन्द्रसूर्याग्निभक्षिणी ॥५०॥
सहस्रदलपद्मं मे सदा पातु कुलाकुला । सहस्रदलपद्मस्था दैवतं पातु खेचरी ॥५१॥
काली तारा षोडशाख्या मातङ्गी पद्मवासिनी । शशिकोटिगलद्रूपा पातु मे सकलं तमः ॥५२॥
वने घोरे जले देशे युद्धे वादे श्मशानके । सर्वत्र गमने ज्ञाने सदा मां पातु शैलजा ॥५३॥
पर्वते विविधायासे विनाशे पातु कुण्डली । पादादिब्रह्मरन्ध्रान्तं सर्वाकाशं सुरेश्वरी ॥५४॥
सदा पातु सर्वविद्या सर्वज्ञानं सदा मम । नवलक्षमहाविद्या दशदिक्षु प्रपातु माम् ॥५५॥
इत्येतत्कवचं देवि कुण्डलिन्याः प्रसिद्धिदम् । ये पठन्ति ध्यानयोगे योगमार्गव्यवस्थिताः ॥५६॥
ते यान्ति मुक्तिपदवीमैहिके नात्र संशयः । मूलपद्मे मनोयोगं कृत्त्वा हृदासनस्थितः ॥५७॥
मन्त्रं ध्यायेत्कुण्डलिनीं मूलपद्मप्रकाशिनीम् । धर्योदयां दयारुढामाकाशस्थानवासिनीम् ॥५८॥
अमृतानन्दरसिकां विकलां सुकलां शिताम् । अजितां रक्तरहितां विशक्तां रक्तविग्रहाम् ॥५९॥
रक्तनेत्रां कुलक्षिप्तां ज्ञानाञ्जनजयोज्ज्वलाम् । विश्वाकारां मनोरूपां मूले ध्यात्त्वा प्रपूजयेत् ॥६०॥
यो योगी कुरुते एवं स सिद्धो नात्र संशयः । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥६१॥
राज्यं श्रियमवाप्नोति राज्यहीनः पठेद्यदि । पुत्रहीनो लभेत्पुत्रं योगहीनो भवेद्वशी ॥६२॥
कवचं धारयेद्यस्तु शिखायां दक्षिणे भुजे । वामा वामकरे धृत्त्वा सर्वाभीष्टमवाप्नुयात् ॥६३॥
स्वर्णे रौप्ये तथा ताम्रे स्थापयित्त्वा प्रपूजयेत् । सर्वदेशे सर्वकाले पठित्वा सिद्धिमाप्नुयात् ॥६४॥
स भूयात्कुण्डलीपुत्रो नात्र कार्या विचारणा ॥६५॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिविद्याप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे कन्दवासिनीकवचं अथवा कुलकुण्डलिनीकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 18, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP