संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीगणेशाय नमः । श्रीभैर...
पद्मावतीकवचम् - श्रीगणेशाय नमः । श्रीभैर...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः । श्रीभैरव उवाच । अधुना कवचं दिव्यं मन्त्रगर्भं वराभयम् । वक्ष्ये पार्वति भक्ताते वज्रपञ्जरकाभिधम् ॥१॥
गुह्यं च परमं गुह्यं सर्वस्वं मे रहस्यकम् । सर्वमन्त्रमयं तत्त्वं देवी पद्मावती प्रियम् ॥२॥
विनाज्ञानेन सिद्धिः स्यात्कवचेन्द्रेण पार्वति । मन्त्रस्यास्य महादेव्या नाख्येयं यत्रकुत्रचित् ॥३॥
अस्य धारणमात्रेण भैरवोऽहं शिवोऽस्म्यहम् । विष्णुर्नारायणो लोके ब्रह्मलोक पितामहः ॥४॥
इन्द्रो दिवस्पतिर्देवि गुरुर्वागीशताङ्गतः । शुक्रो दैत्यगुरुर्देवि यः पठेद्श्रावयेदपि ॥५॥
धारयेन्मूर्ध्नि वा बाहौ सभवेद्भोगमोक्षभाक् । कवचस्यास्य देवेशि सदाशिव ऋषिरुढतः ॥६॥
त्रिष्टुप छन्द इतिख्यातं देवी पद्मावती स्मृता । रमाबीजं पराशक्तिः कामः कीलकमीश्वरि ॥७॥
भोगापवर्ग सिध्यर्थं धारयेविनियोगकः ।
ॐ अस्य श्रीपद्मावतीवज्रपञ्जरकवचस्य श्रीसदाशिवऋषिः त्रिष्टुपछन्दः श्रीसर्वज्ञेश्वरसहिता श्रीपद्मावतीदेवता श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं श्रीभोगापवर्गसिद्ध्यर्थं कवचेपाठेधारणे विनियोगः ॥
ॐ ह्रीं श्रीं मे शिरः पातु राज्यलक्ष्मीः शिवप्रिया । क्लीं ब्लूं फट् पातु नेत्रे महालक्ष्मीर्हरिप्रिया ॥८॥
ॐ ऐं क्लीं मे श्रुती पातु सिद्धलक्ष्मी शिवासना । दयावती पातु नासां पातु सत्यवती मुखम् ॥९॥
कण्ठं यशोवती पातु स्कन्धौपात्वमरावती । प्रभावती भुजौ पातु पायाद्वनवती करौ ॥१०॥
वक्षः क्रियावती पातु स्तनौ पातुमरावती । कुक्षिं मे कमला पातु नाभिं मे विमलावतु ॥११॥
पार्श्वौममावृतान्माला विशालाक्षीं कटिं मम । पृष्ठं कपालिनी पातु लिङ्गं मेऽवतु मालिनी ॥१२॥
हारिणी पातु मे मेढ्रे गुदं हालाचतान्मम । ममोरू बालिका पातु जानू मे कोमलावतु ॥१३॥
बलाममावताज्जङ्घे गुल्फौ सेव्याद्बलाकिनी । पादौ मे शाकिनी पातु लाकिनी नखरान्मम ॥१४॥
पादादिमूर्धपर्यन्तं डाकिनी पातु मेवपुः । शिरसः पादपर्यन्तं खेचरी सकलं वपुः ॥१५॥
पूर्वे मां पातु ब्रह्माणी वह्नौ नारायणी च माम् । पश्चिमे पातु मां नित्यं मङ्गलाख्यापराजिता ॥१६॥
वायव्ये पातु कौमारी वाराहीचोत्तरेऽवतु । ऐशान्यां नारसिंही मां पातु सर्वत्र सर्वदा ॥१७॥
असिताङ्गः प्रभातेव्यान्मध्याह्ने रुरुभैरवः । निशान्तेऽवतुसोन्मत्तः सर्वदामां कपालकः ॥१८॥
रात्रिर्दिनं भीषणेशः संहारः सर्वतोऽवतु । सर्वतः सर्वदा सत्यं रणे राजभयादिषु ॥१९॥
पातु मां सकलत्रं च देवी पद्मावती परा । इन्द्रोमे कमलां पातु पातु वह्नि भयाच्चमाम् ॥२०॥
धर्मराजोऽवताद्वर्मं रक्षोभीतिषुनिन्दतिः । वरुणः सलिला पातु कल्पान्तपवनान्मरुत् ॥२१॥
धनं धनपतिः पायादैश्वर्य परमेश्वरः । ऊर्ध्वं ब्रह्मा सदा पायादधोनारायणोऽवतुः ॥२२॥
सर्वतः सकलं सेव्यात्सवज्ञेश्वरभैरवः । ॐ ॐ ॐ वं वं ॐ विषाद्विषधरात्पद्मावती पातुमाम् ॥२३॥
ह्रीं ह्रीं ह्रीं ह ह हा ह्सौः हयगजन्त्रासात्परापातु माम् । श्रीं श्रीं श्रीं श श शा शशाङ्कमुकुटः सर्वज्ञनाथोऽवतु ॥२४॥
क्लीं क्लीं क्लीं कलिपावतोरिपुभयान्नागेन्द्रभूनायकी । इतीदं कवचं दिव्यं वज्रपञ्जरकाभिधम् । सर्वमन्त्रमयं सिद्धं सर्वदेवीमयं परम् ॥२५॥
सर्व सम्मोहनं वर्म सर्वासा परिपूरकम् । धनदं कीर्तिदं देवि सर्वसारस्वतप्रदम् ॥२६॥
सर्वपूजारहस्यं च सर्वयज्ञफलप्रदम् । सर्वैश्वर्यप्रदं तत्त्वं सर्वमन्त्ररहस्यकम् ॥२७॥
यः पठेत्पाठयेद्वापि शृणोति श्रावयेदपि । सवाग्मीधनवांल्लोके विद्यया गुरूसन्निभः ॥२८॥
ऐश्वर्येण महेशस्तु श्रियावैश्रवणोपमः । बलेन वायुःसदृशोनीत्या भार्गवसन्निभः ॥२९॥
जयवान् रामसदृशो दययाविष्णुदेवसः । बहुनोक्तेन किं देवि यः पठेद्धारयेदिदम् ॥३०॥
इहलोके रिपूञ्जित्वा प्राप्नुयान्निश्चलां श्रियम् । रवौभूर्जे लिखेद्वर्म मूलमन्त्रमयं शिवे ॥३१॥
सयन्त्रं वाष्टगन्धेन मातृकाक्षरवेष्टितम् । श्वेतसूत्रेण संवेष्ट्य लाक्षयापरिवेष्टयेत् ॥३२॥
सौवर्णेनाथ संवेष्ट्य पूजयेद्यन्त्रराजवत् । धारयन् मूर्ध्निवाबाहौयोषिद्वामकरेतथा ॥३३॥
किं किं न साधयेद्वीरो भवेद्भैरवसन्निभः । वन्ध्याप्रसूयते पुत्रान् काकवन्ध्याचिरायुषः ॥३४॥
मृतवत्सापिदेवेशि लभेत्पुत्रकुलोत्तमान् । रणेरिपूञ्जयेद्वीरः शय्यराज्यमकण्टकम् ॥३५॥
भुक्त्वाभोगां लभेदन्ते परं भागवतं पदम् । इदं रहस्यमेशानि तवभक्त्यामयेरितम् ॥३६॥
अदातव्यमभक्ताय गोपनीयं स्वयोनिवत् ।
इति श्रीदेवीयामलतन्त्रे षडाम्नाय प्रदीपिकायां पद्मावतीकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : November 30, 2025

TOP