संस्कृत सूची|
संस्कृत साहित्य|
कवच|
विरूपाक्ष उवाच । नमामि ग...
दक्षिणकालिकाकवचम् - विरूपाक्ष उवाच । नमामि ग...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
विरूपाक्ष उवाच । नमामि गुरुमक्षोभ्यं मन्त्रशक्तिसमन्वितम् । प्रसन्नं ज्ञानमज्ञानं हेतुं बुद्धिप्रकाशकम् ॥१॥
गजेन्द्रवदनं नौमि रक्तं विघ्नविदारकम् । पाशाङ्कुशवराभीति लसद्भुजचतुष्टयम् ॥२॥
भैरवः सर्वदा पातु ऋषिर्मे शिरसोपरि । मुखे छन्दः सदा पातु त्रिष्टुप् च विजयात्मकम् ॥३॥
गुणत्रयमयी शक्तिः परशक्तिस्तु ईडिता । ब्रह्मस्वरूपिणी पातु हृदये मम कालिका ॥४॥
बीजस्वरूपिणी पातु क्रीङ्कारी शक्तिरूपिणी । हूं शक्ति सर्वदा पातु सर्वरक्षास्वरूपिणी ॥५॥
महाकालः सदा पातु महाभीमपराक्रमः । ददातु मम कामानि सर्वसिद्धीश्वरो यतः ॥६॥
आदि ॡवर्णपर्यन्ताः हृदये मममातृकाः । एघान्ते ङादि चान्ताश्च रक्षन्तु बाहुयुग्मके ॥७॥
नभोमध्यगता वर्णा मादिक्षान्तास्तथैव च । सविन्दवः सदा पान्तु जङ्घयोरुभयोर्मम ॥८॥
भूतप्रेतपिशाचाद्या विघ्नदेहास्तथा पुनः । पृथग्भावाः समध्याश्च वर्णा रक्षन्तु मां सदा ॥९॥
समस्तरोमकूपेषु मर्मस्थानिषु सन्धिषु । नाडीधातुविकारेषु रक्षन्तु मम मातृकाः ॥१०॥
शक्तिराधाररूपा या सा पातु परमेश्वरी । अवर्णः सर्वदा पातु सर्वदेवमयः स्वयम् ॥११॥
फणागताऽवनिः पातु समुद्रः पातु मां सदा । रत्नद्वीपः सदा पातु रक्षन्तु कल्पपादपाः ॥१२॥
श्मशानपीठकः पातु पातु मां मानवेदिका । सदाशिव महाप्रेत शवो मां परिरक्षतु ॥१३॥
द्वारदेशे द्वारपाला योगिन्यः पान्तु मां सदा । सिद्धयोऽष्टौ सदा पान्तु पूर्वादि वसुदिग्गताः ॥१४॥
कालीं कपालिणीं कुल्लां कुरुकुल्लां तथैव च । विरोधिनीं विप्रचित्तां नमामि सर्वसिद्धये ॥१५॥
एतास्तु वशयोगिन्यो बहिः षट्कोणकेस्थिताः । रक्षन्तु मां सदा देव्यो मातरो भक्तवत्सलाः ॥१६॥
उग्रामुग्रप्रभां दीप्तां नमाम्यात्मविभूतये । सर्वसिद्धिं प्रयच्छन्तु पान्तु मां पुत्रवत् सदा ॥१७॥
नीलां घनां वलाकाञ्च प्रणमामि समुत्सुकः । सर्वविघ्नान् समुत्सार्य्य रचन्तु कलुषार्णवात् ॥१८॥
मात्रामुद्रामितानाञ्च नमामि चरणाम्बुजम् । देवीप्रेमसखीनाञ्च शरणं यामि सिद्धये ॥१९॥
एताः पञ्चदशे कोणे एकैका वरदा सदा । तर्जनीं वामहस्तेन खड्गं दक्षिणपाणिना ॥२०॥
मुण्डमालाधराः शीर्षे नीलाञ्जनचयोपमाः । शत्रुभ्यः सिद्धिदाश्चण्डाः पान्तु मां कालिकाप्रियाः ॥२१॥
बहिःपद्मदलान्ते तु ब्रह्माण्याद्यष्टशक्तयः । रक्षन्तु मे प्रयच्छन्तु सर्वसिद्धिं दयान्विताम् ॥२२॥
ब्रह्माणी पातु मां पूर्वे सर्वाः शिववरप्रदाः । वह्नौ नारायणी पातु सर्वकामार्थसिद्धिदा ॥२३॥
माहेशी दक्षिणे पातु सर्वमङ्गलकारिणी । चामुण्डा नैरॄते पातु सर्वशत्रुप्रमर्दिनी ॥२४॥
कौमारी पश्चिमे पातु शक्तिहस्ता विसूदिनीम् । अपराजिता च वायव्या पातु मां जयदा शुभा ॥२५॥
उत्तरे पातु वाराही वरदा घोररूपिणी । नारसिंही सदा पातु ऐशान्यां भयनाशिनी ॥२६॥
एतास्तु वरविद्यायाः शक्तयश्चाष्टदेवताः । ब्रह्मविष्णुशिवादीनां तेजोभिन्नकलेवरा ॥२७॥
सूर्य्येन्दुवह्निपीठे तु बैन्दवे परमेश्वरी । नमामि दक्षिणामूर्त्तिं कालिकां परभैरवीम् ॥२८॥
भिन्नाञ्जनचयप्रख्यां प्रवीनशवसंस्थिताम् । गलच्छोणितधाराभिः स्मेराननसरोरुहाम् ॥२९॥
पीनोन्नतकुचद्वन्द्वां पीनवक्षोनितम्बिनीम् । दक्षिणे मुक्तकेशां च दिगम्बरविनोदिनीम् ॥३०॥
महाकालसमाविष्टां स्ममेरानन्दोपरि स्थिताम् । सुखसान्द्रस्मितामोदमोदिनीं मदविह्वलाम् ॥३१॥
आरक्तसुखसान्द्रादिनेत्रालीभिर्विराजिताम् । शवद्वयकृतोत्तंसां सिन्दूरतिलकोज्ज्वलाम् ॥३२॥
पञ्चाशन्मूर्त्तिघटितमालां शोणितलोहिताम् । नानामणिविशोभाढ्यां नानालङ्कारशोभिताम् ॥३३॥
शवास्थिकृतकेयूरशङ्खकङ्कणमण्डिताम् । शववक्षः समारूढां लेलिहानां शवं क्वचित् ॥३४॥
शवमांसकृतग्रासां साट्टहासां मुहुर्मुहुः । खड्गमुण्डधरां वामे सव्येऽभयवरप्रदाम् ॥३५॥
दन्तुराञ्च महारौद्रीं चण्डनादातिभीषणाम् । शिवाभिर्घोररावाभिर्वेष्टितां भयनाशिनीम् ॥३६॥
माभैर्माभैः स्वभक्तेषु जल्पन्तीं घोरनिस्वने । यूयं किमिच्छथ ब्रूथ ददामीतिप्रभाषिणीम् ॥३७॥
त्वं गतिः शरणं देवि ! त्वं माता परमेश्वरि ! । पाहि मां करुणासान्द्रे ! नमस्ते परमेश्वररि ! ॥३८॥
नमस्ते कालिके ! देवि ! नमस्ते भक्तवत्सले ! । मूर्खतां हर मे देवि ! प्रतिभाप्रतिदायिके ! ॥३९॥
गद्यपद्यमयीं वाणीं तर्कव्याकरणादिकाम् । अनधीतगतां विद्यां देहि दक्षिणकालिके ! ॥४०॥
जयं देहि सभामध्ये धनं देहि धनागमे । देहि मे चिरजीवित्वं कालिके ! रक्ष दक्षिणे ! ॥४१॥
राज्यं देहि यशो देहि पुत्रान् दारान्धनं तथा । देहान्ते देहि मे मुक्तिं जगन्मातर्नमोऽस्तु ते ॥४२॥
मङ्गला भैरवी दुर्गा कालिका त्रिदशेश्वरी । उमा हैमवती कन्या कल्याणी भैरवेश्वरी ॥४३॥
काली ब्राह्मी च माहेशी कौमारी माधुसूदनी । वाराही वासनी चण्डा त्वां जगुर्मुनयो मुदा ॥४४॥
उग्रतारेति तारेति शिवेत्यकजटेति च । लोकोत्तरेति बालेति गीयते कृतिभिः सदा ॥४५॥
यथा काली तथा तारा तथा छिन्ना च कुल्लुका । एकमूर्त्तिश्चतुर्भिश्च देवि ! त्वं कालिकापरा ॥४६॥
एकद्वित्रिविधा देवि ! कोटिधाऽनन्तरूपिणी । अङ्गाङ्गकैर्नामभेदैः कालिकेति प्रगीयते ॥४७॥
शम्भुः पञ्चमुखेनैव गुणान् वक्तुं क्षमो न ते । चापलं यत् कृतं सर्वं क्षमस्व शुभदा भव ॥४८॥
प्राणान् रक्ष यशो रक्ष पुत्रदारधनं तथा । सर्वकाले सर्वदेशे पाहि दक्षिणकालिके ! ॥४९॥
यः सम्पूज्य पठेद्रक्षां दिवा वा सन्ध्ययोस्तथा । अवाप्य महतीं प्रज्ञां सर्वकामांस्ततो लभेत् ॥५०॥
यद्यत्प्रार्थयते चित्ते तत्तदाप्नोति का कथा । स्वयं लक्ष्मीर्वसेद्देहे मुक्तिः करगता पुनः ॥
इति श्यामारहस्यवर्णितं रुद्रयामले उत्तरतन्त्रे दक्षिणकालिकाकवचं सम्पूर्णम् ।
- ॥श्यामारहस्यम् । चतुर्थः परिच्छेदः ॥
N/A
References : N/A
Last Updated : November 25, 2025

TOP