संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीपार्वत्युवाच । देवदे...

त्रैलोक्यमङ्गलकवचम् - श्रीपार्वत्युवाच । देवदे...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीपार्वत्युवाच । देवदेव ! महादेव ! दयालो ! दीनवत्सल ! । केन सिद्धिं ददात्याशु चण्डी त्रैलोक्यदुर्लभा ॥१॥
श्रीमहादेव उवाच । रुद्रेणाराधिता चण्डी महासिद्धिर्भवेत् तदा । रुद्ररूपा रुद्रभावा रुद्रभूषा सदा स्थिता ॥२॥
रुद्रध्येया रुद्रगेहा रुद्राणी रुद्रवल्लभा । सर्वदा वरदा देवी ब्रह्मज्ञानप्रदायिनी ॥३॥
सर्वपापहरा देवी सर्वरोगक्षयङ्करी । सर्वारिष्टगतैर्दात्री सर्वग्रहनिवारिणी ॥४॥
शिवं देहि शुभं देहि सुखं देहि सदा प्रिये ! । तुष्टिं पुष्टिं जयारोग्यं मङ्गलानां च मङ्गलम् ॥५॥
अकालमरणं वापि काले मृत्युर्यदा भवेत् । चण्डीस्मरणमात्रेण मृत्योर्मृत्युकरं परम् ॥६॥
ज्ञात्वा देवगणाः सर्वे चण्ड्यभूद् रुद्रगेहिनी । रुद्रचण्डी तदा ख्याता त्रैलोक्ये परमेश्वरी ॥७॥
रुद्रोऽभवन्महारुद्रश्चण्डीपाठप्रसादतः । तदा शापः प्रदातव्यः स्वीयसिद्धिर्यदा शिवे ! ॥८॥
कृष्णेनाराधिता चण्डी कृष्णचण्डी न सिद्धिदा । कृष्णनामधरा देवी सर्वतन्त्रेषु गोपिता ॥९॥
कृष्णचण्डी महादेवी प्राणान्ते न प्रकाशिता । ज्ञात्वा चण्डीं जगत् सर्वं कृष्णशापोऽभवत् तदा ॥१०॥
तदन्ते चण्डिकां ज्ञात्वा कृष्णशापोऽभवन्मुदा । स्वीयभावे तदा देवी अभिशापं करोति हि । तेन ते स्वीयपापेन न सिद्‍ध्यन्ति कदाचन ॥११॥
श्रीपार्वत्युवाच । देवदेव दीननाथ दीनबन्धो ! दयानिधे ! । इदानीं वद मे नाथ ! चण्डीसिद्धिकरं परम् ॥१२॥
विना ध्यानं विना पूजां विना जपपरायणम् । विना होमं विना मन्त्रं विना साधनसंज्ञकम् ॥१३॥
अनायासेन सिद्‍ध्यन्ति केनोपायेन तद् वद ॥
श्रीमहादेव उवाच । श‍ृणु पार्वति सुभगे ! चण्डीसिद्धिकरं परम् । रुद्रध्येया रुद्रचण्डी प्रसन्ना सर्वदा सती ॥१४॥
तस्याहं कवचं देवि ! कथयामि शुचिस्मिते ! । त्रैलोक्ये सर्वदेवानां साधनेनैव यत् फलम् ॥१५॥
तत् फलं लभते सद्यः कवचाध्यायमात्रतः । शतमष्टौ पठेद् यस्तु सर्वसिद्धीश्वरो भवेत् ॥१६॥
शतावृत्तिं पठेद् यो हि सप्तद्वीपेश्वरो भवेत् । पञ्चाशत् पाठमात्रेण पञ्चाशद्वर्णसिद्धये ॥१७॥
अष्टाविंशतिपाठेन अष्टसिद्धिः करे स्थिता । एकादश पठेद् यस्तु रुद्रस्तस्य प्रसन्नधीः ॥१८॥
दशविद्याः प्रसिद्धयन्ति यः पठेद् दशधा शिवे ! । नवावृत्तिं पठेद् यो हि ग्रहदेवप्रसन्नधीः ॥१९॥
अष्टावृत्तिं पठेद् यस्तु अष्टपाशैर्विमुच्यते । सप्तधा पाठमात्रेण चिरायुर्भवेत् ध्रुवम् ॥२०॥
पठेत् षष्ठं कर्मभेदे षट्कर्मसिद्धये ध्रुवम् । पञ्चमं प्रपठेद् यस्तु पञ्चात्मा च प्रसन्नधीः ॥२१॥
चतुर्थं प्रपठेद् यस्तु चतुर्वेदविदां वरः । त्रिधा पाठे महेशानि ! सर्वशान्तिर्भविष्यति ॥२२॥
पाठ द्वयं कृतं यद्धि सर्वकाम्यं प्रसाधयेत् । एकधा पाठमात्रेण चण्डीसिद्धिर्भविष्यति ॥२३॥
अतः परमहं वक्ष्ये कवचं च परात्परम् । रक्षाकरं महामन्त्रं त्रैलोक्यमङ्गलाभिधम् ॥२४॥
प्रणवो वाग्भवो माया ततः सद्यः सनातनी । स्थिरा माया ततः कामो लज्जायुग्मं ततः परम् ॥२५॥
एष नवाक्षरो मन्त्रः सर्वाशापरिपूरकः । अग्निस्तम्भं जलस्तम्भं वायुस्तम्भं ततः परम् ॥२६॥
बहु किं कथ्यते देवि ! त्रैलोक्यस्तम्भनं भवेत् । कर्षयेदखिलं देवि ! शोषयेदखिलं जगत् ॥२७॥
मोहयेदखिलान् लोकान् मारयेत् सकलं जगत् । वशयेत् सर्वदेवादीन् ऋतुभेदे महेश्वरि ! ॥२८॥
सर्वरक्षाकरो मन्त्रः साक्षाद् ब्रह्म न संशयः । (नवाक्षर मन्त्रः ॐ ऐं ह्रीं ॐ क्रीं ह्लीं क्लीं ह्रीं ह्रीं)
 ॥कवचस्तोत्र ॥
शिखायां प्रणवः पातु शिरसि वाग्भवः प्रिये ! । भ्रूमध्ये रक्षते माया हृदयं कालिकाऽवतु ॥१॥
नाभिं पातु स्थिरा माया तदधः काम रक्षतु । लिङ्गमूलं पातु लज्जा यजुर्गुह्ये सदाऽवतु ॥२॥
कटिं पृष्ठं कूर्परं च स्कन्धं कर्णद्वयं तथा । प्रणवो रक्षते देवि ! मातृभावेन सर्वदा ॥३॥
कण्ठं गलं च चिबुकं ओष्ठद्वयं ततः परम् । दन्तं जिह्वां तथा रन्ध्रं तदन्ते मुखमण्डलम् ॥४॥
वाग्भवो रक्षते देवि ! पितृभावेन सर्वदा । नासिकां हनुयुग्मं च चक्षुषी भ्रूयुगं तथा ॥५॥
ललाटं च कपालं च चन्द्रसूर्याऽग्निमण्डलम् । सर्वदा रक्षते माया शक्तिरूपे महेश्वरि ! ॥६॥
बाहुद्वयं ततः सर्वं पञ्जरं हृदिमण्डलम् । रक्षते कालिकावीजं कन्यारूपेण सर्वदा ॥७॥
उदरं मूलदेशं च चण्डिके ! त्वं सदाऽवतु । रक्तं मांसं तथा मज्जा शुक्राणि मेद एव च ॥८॥
रक्षेल्लज्जा शक्तिरूपे सगुणा परमा कला । नखकेशानि सर्वाणि यजुः पातु सदा प्रिये ! ॥९॥
सर्वाङ्गं रक्षते चण्डी सर्वमन्त्रं सकीलकम् । आत्मा परात्मा जीवात्मा चण्डिका पातु सर्वदा ॥१०॥
साधने चण्डिका पातु सज्ज्ञानं चण्डिकाऽवतु । सत्सङ्गं चण्डिका पातु सद्योगं चण्डिकाऽवतु ॥११॥
सत्कथां चण्डिका रक्षेत् सच्चिन्तां चण्डिकाऽवतु । पूर्वस्यां चण्डिका पातु आग्नेय्यां चण्डिकाऽवतु ॥१२॥
दक्षिणस्यां तथा चण्डी सर्वदा परिरक्षतु । नैरृत्यां चण्डिका रक्षेत् पश्चिमे चण्डिकाऽवतु ॥१३॥
वायव्यां चण्डिका पातु उत्तरे चण्डिकाऽवतु । ऐशान्यां चण्डिका पातु ऊर्ध्वाधश्चण्डिका तथा ॥१४॥
चण्डिका रक्षते कन्यां सुतं स्त्रीं चण्डिकाऽवतु । भ्रातरं भगिनीं सर्वं चण्डिका रक्षते सदा ॥१५॥
बन्धुवर्गकुटुम्बानि दासीदासं ततः परम् । रक्षते चण्डिका देवी मातृभावान्महेश्वरी ॥१६॥
गजवाजिगवान् सर्वान् जन्तूनां सर्वपर्वसु । रक्षते चण्डिका देवी स्वीयभावेन शाम्भवी ॥१७॥
वास्तुवृक्षादिकं सर्वं चण्डिका रक्षते सदा । सैन्यं स्वसैन्यवर्गाणां चण्डिका परिरक्षतु ॥१८॥
श्मशाने प्रान्तरेऽरण्ये चण्डिका पातु सर्वदा । राजद्वारे रणे घोरे पर्वते वा जले स्थले ॥१९॥
अग्निवज्रादिदुर्योगे विवादे शत्रुसङ्कटे । चण्डिका पातु सर्वत्र यथा धेनुः सुतं प्रति ॥२०॥
इति ते कथितं कान्ते ! त्रैलोक्यमङ्गलाभिधम् । त्रैलोक्यमङ्गलं नाम कवचं परिकथ्यते ॥२१॥
 ॥फलश्रुति ॥
इदं कवचमज्ञात्वा रुद्रचण्डीं पठेद् यदि । सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥२२॥
इदं कवचमज्ञात्वा चण्डीपाठं करोति यः । विपरीतं भवेत् सर्वं विघ्नस्तस्य पदे पदे ॥२३॥
तदनन्तं भवेत् सर्वं कवचाध्यायमात्रतः । धारणे कवचं देवी फलसङ्ख्याप्रपूरकम् ॥२४॥
तत्रैव कवचं देवि ! सर्वाशापरिपूरकम् । पञ्चवक्त्रेण कथितं किं  मया कथ्यतेऽधुना ॥२५॥
भूर्जे गन्धाष्टकेनैव लिखेत् तु कवचं शुभम् । समन्त्रं कवचं देवि ! स्वमन्त्रपुटितं ततः ॥२६॥
गोत्रं नाम ततः कामं पुनर्मन्त्रं लिखेत् प्रिये ! । अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥२७॥
प्राणप्रतिष्ठामन्त्रेण प्रतिष्ठां कुरुते ततः । पूजयेद् विधियुक्तेन पञ्चाङ्गं तदनन्तरम् ॥२८॥
एवं ते धारयेद् यस्तु स रुद्रो नात्र संशयः । कण्ठे वा दक्षिणे बाहौ हृन्नाभिकटिदेशतः ॥२९॥
योषिद् वामभुजे धृत्वा साक्षात् काली न संशयः । धनं पुत्रं जयारोग्यं यद् यन्मनसि कामदम् ॥३०॥
तत्तत् प्राप्नोति देवेशि ! निश्चितं मम भाषितम् । न सन्देहो न सन्देहो न सन्देहः कदाचन ॥३१॥
देयं शिष्टाय शान्ताय गुरुभक्तिरताय च । शक्तिध्येयाः शक्तरताः शक्तिप्राणाः सदाशयाः ॥३२॥
एवं तल्लक्षणैर्युक्तं कवचं दीयते क्वचित् । नित्यं पूजा प्रकर्तव्या कवचं परमं शिवे ! ॥३३॥
अशक्तौ परमेशानि ! पुष्पधूपं प्रदापयेत् । तस्य देहे तस्य गेहे चण्डिका त्वचला भवेत् ॥३४॥
खले दुष्टे शठे मूर्खे दाम्भिके निन्दके तथा । शक्तिनिन्दां शक्तिहिंसां यः करोति सः पामरः ॥३५॥
एतेषां परमेशानि ! सुकृतिर्न कदाचन । न दद्यात् कवचं देवि ! यदीच्छेदात्मनो हितम् ॥३६॥
दत्ते च सिद्धिहानिः स्याद् दत्ते च शिवहा भवेत् ॥३७॥
॥ श्रीरुद्रयामलतन्त्रे श्रीपार्वतीरहस्ये त्रैलोक्यमङ्गलं नाम रुद्रचण्डीकवचं सम्पूर्णं शुभं भूयात् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP