संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ अस्य श्रीसूर्यनारायणदिव...

श्रीसूर्यदिव्यकवचस्तोत्रम् - ॐ अस्य श्रीसूर्यनारायणदिव...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ अस्य श्रीसूर्यनारायणदिव्यकवचस्तोत्रमहामन्त्रस्य हिरण्यगर्भ ऋषिः । अनुष्टुप्छन्दः श्रीसूर्यनारायणो देवता । सूं बीजं, र्यां शक्तिः, यां कीलकम् । श्रीसूर्यनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः । ॐ श्रीसूर्यनारायणाय अङ्गुष्ठाभ्यां नमः पद्मिनीवल्लभाय तर्जनीभ्यां नमः दिवाकराय मध्यमाभ्यां नमः ॥
भास्कराय अनामिकाभ्यां नमः ॥
मार्ताण्डाय कनिष्ठिकाभ्यां नमः ॥
आदित्याय करतलकरपृष्ठाभ्यां नमः ॥
एवं हृदन्यासः लोकत्रयेति दिग्बन्धः । ध्यानं त्रिमूर्तिरूपं विश्वेशं शूलमुद्गरधारिणम् । हिरण्यवर्णं सुमुखं छायायुक्तं रविं भजे ॥
अथ स्तोत्रम् । भास्करो मे शिरः पातु ललाटं लोकबान्धवः । कपोलौ त्रयीमयः पातु नासिकां विश्वरूपभृत् ॥१॥
नेत्रे चाधोक्षजः पातु कण्ठं सप्ताश्ववाहनः । मार्ताण्डो मे भुजौ पातु कक्षौ पातु दिवाकरः ॥२॥
पातु मे हृदयं पूषा वक्षः पातु तमोहरः । कुक्षिं मे पातु मिहिरो नाभिं वेदान्तगोचरः ॥३॥
द्युमणिर्मे कटिं पातु गुह्यं मे अब्जबान्धवः । पातु मे जानुनी सूर्यो ऊरू पात्वुरुविक्रमः ॥४॥
चित्रभानुस्सदा पातु जानुनी पद्मिनीप्रियः । जङ्घे पातु सहस्रांशुः पादौ सर्वसुरार्चितः ॥५॥
सर्वाङ्गं पातु लोकेशो बुद्धिसिद्धिगुणप्रदः । सहस्रभानुर्मे विद्यां पातु तेजः प्रभाकरः ॥६॥
अहोरात्रौ सदा पातु कर्मसाक्षी परन्तपः । आदित्यकवचं पुण्यं यः पठेत्सततं शुचिः ॥७॥
सर्वरोगविनिर्मुक्तो सर्वोपद्रववर्जितः । तापत्रयविहीनस्सन् सर्वसिद्धिमवाप्नुयात् ॥८॥
संवत्सरेण कालेन सुवर्णतनुतां व्रजेत् । क्षयापस्मारकुष्ठादि गुल्मव्याधिविवर्जितः ॥९॥
सूर्यप्रसादसिद्धात्मा सर्वाभीष्टफलं लभेत् । आदित्यवासरे स्नात्वा कृत्वा पायसमुत्तमम् ॥१०॥
अर्कपत्रे तु निक्षिप्य दानं कुर्याद्विचक्षणः । एकभुक्तं व्रतं सम्यक्संवत्सरमथाचरेत् । पुत्रपौत्रान् लभेल्लोके चिरञ्जीवी भविष्यति ॥११॥
स्वर्भुवर्भूरोमिति दिग्विमोकः ।
इति श्रीहिरण्यगर्भसंहितायां श्रीसूर्यनारायणदिव्यकवचस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP