संस्कृत सूची|
संस्कृत साहित्य|
कवच|
त्रैलोक्यमोहनकवचम् । एका...
एकाक्षरगणपतिकवचम् - त्रैलोक्यमोहनकवचम् । एका...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
त्रैलोक्यमोहनकवचम् । एकार्णकवचम् ।
श्रीगणेशाय नमः । नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥१॥
पार्वत्युवाच । भगवन् देवदेवेश लोकानुग्रहकारकः । इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥२॥
एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा । वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥३॥
ईश्वर उवाच । शृणु देवि प्रवक्ष्यामि नाख्येयमपि ते ध्रुवम् । एकाक्षरस्य मन्त्रस्य कवचं सर्वकामदम् ॥४॥ (एकार्णगणनाथस्य कवचं)
यस्य स्मरणमात्रेण न विघ्नाः प्रभवन्ति हि । (प्रभवन्ति च निर्विघ्नास्स्मरणेनान्यमानवाः) त्रिकालमेककालं वा ये पठन्ति सदा नराः ॥५॥
तेषां क्वापि भयं नास्ति सङ्ग्रामे सङ्कटे गिरौ । भूतवेतालरक्षोभिर्ग्रहैश्चापि न बाध्यते ॥६॥
इदं कवचमज्ञात्वा यो जपेद् गणनायकम् । न च सिद्धिमाप्नोति मूढो वर्षशतैरपि ॥७॥
अघोरो मे यथा मन्त्रो मन्त्राणामुत्तमोत्तमः । तथेदं कवचं देवि दुर्लभं भुवि मानवैः ॥८॥
गोपनीयं प्रयत्नेन नाज्येयं यस्य कस्यचित् । तव प्रीत्या महेशानि कवचं कथ्यतेऽद्भुतम् ॥९॥
एकाक्षरस्य मन्त्रस्य गणकश्चर्षिरीरितः । त्रिष्टुप्छन्दस्तु विघ्नेशो देवता परिकीर्तिता ॥१०॥
गँ बीजं शक्तिरोङ्कारः सर्वकामार्थसिद्धये । सर्वविघ्नविनाशाय विनियोगस्तु कीर्तितः ॥११॥
ध्यानम् । रक्ताम्भोजस्वरूपं लसदरुणसरोजाधिरूढं त्रिनेत्रं पाशं चैवाङ्कुशं वा वरदमभयदं बाहुभिर्धारयन्तम् । शक्त्या युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतं देवं चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥१२॥
अथ कवचम् । गणेशो मे शिरः पातु भालं पातु गजाननः । नेत्रे गणपतिः पातु गजकर्णः श्रुती मम ॥१३॥
कपोलौ गणनाथस्तु घ्राणं गन्धर्वपूजितः । मुखं मे सुमुखः पातु चिबुकं गिरिजासुतः ॥१४॥
जिह्वां पातु गणक्रीडो दन्तान् रक्षतु दुर्मुखः । वाचं विनायकः पातु कष्टं पातु महोत्कटः ॥१५॥
स्कन्धौ पातु गजस्कन्धो बाहू मे विघ्ननाशनः । हस्तौ रक्षतु हेरम्बो वक्षः पातु महाबलः ॥१६॥
हृदयं मे गणपतिरुदरं मे महोदरः । नाभि गम्भीरहृदयः पृष्ठं पातु सुरप्रियः ॥१७॥
कटिं मे विकटः पातु गुह्यं मे गुहपूजितः । ऊरु मे पातु कौमारं जानुनी च गणाधिपः ॥१८॥
जङ्घे गजप्रदः पातु गुल्फौ मे धूर्जटिप्रियः । चरणौ दुर्जयः पातुर्साङ्गं गणनायकः ॥१९॥
आमोदो मेऽग्रतः पातु प्रमोदः पातु पृष्ठतः । दक्षिणे पातु सिद्धिशो वामे विघ्नधरार्चितः ॥२०॥
प्राच्यां रक्षतु मां नित्यं चिन्तामणिविनायकः । आग्नेयां वक्रतुण्डो मे दक्षिणस्यामुमासुतः ॥२१॥
नैरृत्यां सर्वविघ्नेशः पातु नित्यं गणेश्वरः । प्रतीच्यां सिद्धिदः पातु वायव्यां गजकर्णकः ॥२२॥
कौबेर्यां सर्वसिद्धिशः ईशान्यामीशनन्दनः । ऊर्ध्वं विनायकः पातु अधो मूषकवाहनः ॥२३॥
दिवा गोक्षीरधवलः पातु नित्यं गजाननः । रात्रौ पातु गणक्रीडः सन्ध्योः सुरवन्दितः ॥२४॥
पाशाङ्कुशाभयकरः सर्वतः पातु मां सदा । ग्रहभूतपिशाचेभ्यः पातु नित्यं गजाननः ॥२५॥
सत्वं रजस्तमो वाचं बुद्धिं ज्ञानं स्मृतिं दयाम् । धर्मचतुर्विधं लक्ष्मीं लज्जां कीर्तिं कुलं वपुः ॥२६॥
धनं धान्यं गृहं दारान् पौत्रान् सखींस्तथा । एकदन्तोऽवतु श्रीमान् सर्वतः शङ्करात्मजः ॥२७॥
सिद्धिदं कीर्तिदं देवि प्रपठेन्नियतः शुचिः । एककालं द्विकालं वापि भक्तिमान् ॥२८॥
न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते । सर्वपापविनिर्मुक्तो जायते भुवि मानवः ॥२९॥
यं यं कामयते नित्यं सुदुर्लभमनोरथम् । तं तं प्राप्नोति सकलं षण्मासान्नात्र संशयः ॥३०॥
मोहनस्तम्भनाकर्षमारणोच्चाटनं वशम् । स्मरणादेव जायन्ते नात्र कार्या विचारणा ॥३१॥
सर्वविघ्नहरं देवं ग्रहपीडानिवारणम् । सर्वशत्रुक्षयकरं सर्वापत्तिनिवारणम् ॥३२॥
धृत्वेदं कवचं देवि यो जपेन्मन्त्रमुत्तमम् । न वाच्यते स विघ्नौघैः कदाचिदपि कुत्रचित् ॥३३॥
भूर्जे लिखित्वा विधिवद्धारयेद्यो नरः शुचिः । एकबाहो शिरः कण्ठे पूजयित्वा गणाधिपम् ॥३४॥
एकाक्षरस्य मन्त्रस्य कवचं देवि दुर्लभम् । यो धारयेन्महेशानि न विघ्नैरभिभूयते ॥३५॥
गणेशहृदयं नाम कवचं सर्वसिद्धिदम् । पठेद्वा पाठयेद्वापि तस्य सिद्धिः करे स्थिता ॥३६॥
न प्रकाश्यं महेशानि कवचं यत्र कुत्रचित् । दातव्यं भक्तियुक्ताय गुरुदेवपराय च ॥३७॥
॥ इति श्रीरुद्रयामले एकाक्षरगणपतिकवचं अथवा त्रैलोक्यमोहनकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : November 17, 2025

TOP