संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ श्रीमदानन्दरामायणे मनोह...

श्रीरामकवचम् - ॥ श्रीमदानन्दरामायणे मनोह...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ श्रीमदानन्दरामायणे मनोहरकाण्डान्तर्गतं श्रीरामकवचम् ॥
॥ ॐ श्री रामाय तुभ्यं नमः ॥
अगस्तिरुवाच- आजानुबाहुमरविन्ददळायताक्षमाजन्मशुद्धरसहासमुखप्रसादम् । श्यामं गृहीतशरचापमुदाररूपं रामं सराममभिराममनुस्मरामि ॥१॥
श‍ृणु वक्ष्याम्यहं सर्वं सुतीक्ष्ण मुनिसत्तम । श्रीरामकवचं पुण्यं सर्वकामप्रदायकम् ॥२॥
अद्वैतानन्दचैतन्यशुद्धसत्त्वैकलक्षणः । बहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥३॥
तत्त्वविद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि । इति रामपदेनासौ परब्रह्माभिधीयते ॥४॥
जय रामेति यन्नाम कीर्तयन्नभिवर्णयेत् । सर्वपापैर्विनिर्मुक्तो याति विष्णोः परं पदम् ॥५॥
श्रीरामेति परं मन्त्रं तदेव परमं पदम् । तदेव तारकं विद्धि जन्ममृत्युभयापहम् । श्रीरामेति वदन् ब्रह्मभावमाप्नोत्यसंशयम् ॥६॥
ॐ अस्य श्रीरामकवचस्य अगस्त्य ऋषिः । अनुष्टुप् छन्दः । सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता । श्रीरामचन्द्रप्रसादसिद्ध्यर्थं जपे विनियोगः ॥
अथ ध्यानं प्रवक्ष्यामि सर्वाभीष्टफलप्रदम् । नीलजीमूतसङ्काशं विद्युद्वर्णाम्बरावृतम् ॥१॥
कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् । सीतासौमित्रिसहितं जटामकुटधारिणम् ॥२॥
सासितूणधनुर्बाणपाणिं दानवमर्दनम् । यदा चोरभये राजभये शत्रुभये तथा ॥३॥
ध्यात्वा रघुपतिं युद्धे कालानलसमप्रभम् । चीरकृष्णाजिनधरं भस्मोद्धूळितविग्रहम् ॥४॥
आकर्णाकृष्टसशरकोदण्डभुजमण्डितम् । रणे रिपून् रावणादीन् तीक्ष्णमार्गणवृष्टिभिः ॥५॥
संहरन्तं महावीरमुग्रमैन्द्ररथस्थितम् । लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ॥६॥
सुग्रीवाद्यैर्माहावीरैः शैलवृक्षकरोद्यतैः । वेगात् करालहुङ्कारैः भुग्भुक्कारमहारवैः ॥७॥
नदद्भिः परिवादद्भिः समरे रावणं प्रति । श्रीरामशत्रुसङ्घान्मे हन मर्दय घातय ॥८॥  (खादय)
भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय । एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् ॥९॥
सुतीक्ष्ण वज्रकवचं श‍ृणु वक्ष्याम्यहं शुभम् । श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ॥१०॥
दक्षिणे मे रघुवरः पश्चिमे पातु पावनः । उत्तरे मे रघुपतिः भालं दशरथात्मजः ॥११॥
भ्रुवोर्दूर्वादळश्यामः तयोर्मध्ये जनार्दनः । श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ॥१२॥
घ्राणं मे पातु राजर्षिः गण्डं मे जानकीपतिः । कर्णमूले खरध्वंसी भालं मे रघुवल्लभः ॥१३॥
जिह्वां मे वाक्पतिः पातु दन्तावल्यौ रघूत्तमः । ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः ॥१४॥
कण्ठं पातु जगद्वन्द्यः स्कन्धौ मे रावणान्तकः । धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः ॥१५॥
सर्वाण्यङ्गुळिपर्वाणि हस्तौ मे राक्षसान्तकः । वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ॥१६॥
स्तनौ सीतापतिः पातु पार्श्वौ मे जगदीश्वरः । मध्यं मे पातु लक्ष्मीशो नाभिं मे रघुनायकः ॥१७॥
कौसल्येयः कटिं पातु पृष्ठं दुर्गतिनाशनः । गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ॥१८॥
ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः । जङ्घे पातु जगद्व्यापी पादौ मे ताटकान्तकः ॥१९॥
सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः । ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ॥२०॥
पातु श्रीरामभद्रो मे शब्दादीन् विषयानपि । द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ॥२१॥
जामदग्न्यमहादर्पदलनः पातु तानि मे । सौमित्रिपूर्वजः पातु वागादीनीन्द्रियाणि च ॥२२॥
रोमाङ्कुराण्यशेषाणि पातु सुग्रीवराज्यदः । वाङ्मनोबुद्ध्यहङ्कारैः ज्ञानाज्ञानकृतानि च ॥२३॥
जन्मान्तरकृतानीह पापानि विविधानि च । तानि सर्वाणि दग्ध्वाऽऽशु हरकोदण्डखण्डनः ॥२४॥
पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा । इति श्रीरामचन्द्रस्य कवचं वज्रसम्मितम् ॥२५॥
गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम । यः पठेत् श‍ृणुयाद्वापि श्रावयेद्वा समाहितः ॥२६॥
स याति परमं स्थानं रामचन्द्रप्रसादतः । महापातकयुक्तो वा गोघ्नो वा भ्रूणहा तथा ॥२७॥
श्रीरामचन्द्रकवचपठनात् सिद्धिमाप्नुयात् ।  (शुद्धिमाप्नुयात्) ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥२८॥
इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे त्रयोदशसर्गान्तर्गतं श्रीरामकवचं सम्पूर्णम् ॥
हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न षट् कवचानि पठनीयम् । षट् कवचानि पठितुं अशक्तश्चेत्  हनुमत्-लक्ष्मण-सीता-राम –  अथवा हनुमत्-सीता-राम अथवा हनुमत्-राम / सीता-राम कवचानि । अथवा श्रीरामकवचमेव पठनीयम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP