श्रीभद्रकालीकवचम् - श्रीगणेशाय नमः । नारद...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः ।
नारद उवाच । कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् । नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च साम्प्रतम् ॥१॥
नारायण उवाच । शृणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् । गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् ॥२॥
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् । दुर्वासा हि ददौ राज्ञे पुष्करे सूर्यपर्वणि ॥३॥
दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा । पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् ॥४॥
बभूव सिद्धकवचोऽप्ययोध्यामाजगाम सः । कृत्स्नां हि पृथिवीं जिग्ये कवचस्य प्रसादतः ॥५॥
नारद उवाच । श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा । अधुना श्रोतुमिच्छामि कवचं ब्रूहि मे प्रभो ॥६॥
नारायण उवाच । शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् । नारायणेन यद्दत्तं कृपया शूलिने पुरा ॥७॥
त्रिपुरस्य वधे घोरे शिवस्य विजयाय च । तदेव शूलिना दत्तं पुरा दुर्वाससे मुने ॥८॥
दुर्वाससा च यद्दत्तं सुचन्द्राय महात्मने । अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् ॥९॥
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् । क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रीमिति लोचने ॥१०॥
ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदाऽवतु । क्लीं कालिके रक्ष रक्ष स्वाहा दन्तान् सदाऽवतु ॥११॥
क्लीं भद्रकालिके स्वाहा पातु मेऽधरयुग्मकम् । ॐ ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदाऽवतु ॥१२॥
ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदाऽवतु । ॐ क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम ॥१३॥
ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदाऽवतु । ॐ क्लीं कालिकायै स्वाहा मम नाभिं सदाऽवतु ॥१४॥
ॐ ह्रीं कालिकायै स्वाहा मम पृष्ठं सदाऽवतु । रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदाऽवतु ॥१५॥
ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदाऽवतु । ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥१६॥
प्राच्यां पातु महाकाली चाग्नेय्यां रक्तदन्तिका । दक्षिणे पातु चामुण्डा नैरृत्यां पातु कालिका ॥१७॥
श्यामा च वारुणे पातु वायव्यां पातु चण्डिका । उत्तरे विकटास्या चाप्यैशान्यां साट्टहासिनी ॥१८॥
पातूर्ध्वं लोलजिह्वा सा मायाद्या पात्वधः सदा । जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा ॥१९॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् । सर्वेषां कवचानां च सारभूतं परात्परम् ॥२०॥
सप्तद्वीपेश्वरो राजा सुचन्द्रोऽस्य प्रसादतः । कवचस्य प्रसादेन मान्धाता पृथिवीपतिः ॥२१॥
प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह । यतो हि योगिनां श्रेष्ठः सौभरिः पिप्पलायनः ॥२२॥
यदि स्यात् सिद्धकवचः सर्वसिद्धीश्वरो भवेत् । महादानानि सर्वाणि तपांस्येवं व्रतानि च । निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् ॥२३॥
इदं कवचमज्ञात्वा भजेत्कालीं जगत्प्रसूम् । शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥२४॥
॥ इति श्रीब्रह्मवैवर्तमहापुराणे गणपतिखण्डे नारदनारायणसंवादे भद्रकालीकवचनिरूपणं नाम सप्तत्रिंशोऽध्यायः ॥३७॥
N/A
References : N/A
Last Updated : December 01, 2025

TOP