संस्कृत सूची|संस्कृत साहित्य|कवच|
अथ ते कवचं देव्या वक्ष्ये...

ललितादेवीकवचम् - अथ ते कवचं देव्या वक्ष्ये...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् । येन देवासुरनरजयी स्यात्साधकः सदा ॥८९-२३॥
सर्वतः सर्वदाऽऽत्मानं ललिता पातु सर्वगा । कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥८९-२४॥
दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा । नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कौणपीम् ॥८९-२५॥
तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी । महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥८९-२६॥
वामपार्श्वं सदा पातु इतीमेलरिता ततः । माहेश्वरी दिशं पातु त्वरितं सिद्धिदायिनी ॥८९-२७॥
पातु मामूर्ध्वतः शश्चद्दैवताकुलसुन्दरी । अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥८९-२८॥
करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला । देहन्द्रियमनः प्राणाञ्ज्वालामालिनिविग्रहा ॥८९-२९॥
पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु । कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥८९-३०॥
पापान्मां सर्वतः शोकात्सङ्क्षयात्सर्वतः सदा । असत्यात्क्रूरचिन्तातो हिंसातश्चौरतस्तथा । स्तैमित्याच्च सदा पान्तु प्रेरयन्त्यः शुभं प्रति ॥८९-३१॥
नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः । तथा हयसमारूढाः पान्तु मां सर्वतः सदा ॥८९-३२॥
सिंहारूढास्तथा पान्तु पान्तु ऋक्षगता अपि । रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे ॥८९-३३॥
तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगताश्च ताः । भूतगाः सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा ॥८९-३४॥
भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् । द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥८९-३५॥
गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः । असङ्ख्याः शक्तयो देव्यः पान्तु मां सर्वतः सदा ॥८९-३६॥
सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् । कदाचिन्नाशुभं पश्येत्सर्वदाऽऽनन्दमास्थितः ॥८९-३७॥
इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् । यस्य सन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥८९-३८॥
इति नारदपुराणे पूर्वभगे एकोननवतितमाध्यायान्तर्गतं    ललिता कवचं समाप्तम् ।
बृहन्नारदीयपुराण । पूर्वभाग । अध्याय ८९/२३-३८॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP