संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ अस्य श्रीकेतुकवचस्तोत्र...

केतुकवचम् - ॐ अस्य श्रीकेतुकवचस्तोत्र...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ अस्य श्रीकेतुकवचस्तोत्रमहामन्त्रस्य त्र्यम्बक ॠषिः । अनुष्टुप्छन्दः । केतुर्देवता । कं बीजम् । नमः शक्तिः । केतुरिति कीलकम् । केतुकृत पीडा निवारणार्थे, सर्वरोगनिवारणार्थे, सर्वशत्रुविनाशनार्थे, सर्वकार्यसिद्ध्यर्थे, केतुप्रसादसिद्ध्यर्थे जपे विनियोगः ।
श्रीगणेशाय नमः । केतुं करालवदनं चित्रवर्णं किरीटिनम् । प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥१॥
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः । पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥२॥
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः । पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥३॥
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः । सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥४॥
ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः । पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः ॥५॥
य इदं कवचं दिव्यं सर्वरोगविनाशनम् । सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ॥६॥
॥ इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 19, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP