संस्कृत सूची|संस्कृत साहित्य|कवच|
कवचं त्रिपुरायास्तु श‍ृणु...

शिवप्रोक्तं त्रिपुराकवचम् - कवचं त्रिपुरायास्तु श‍ृणु...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

कवचं त्रिपुरायास्तु श‍ृणु वेताल भैरव । यज्ज्ञात्वा मन्त्रवित् सम्यक् फलमाप्नोति पूजने ॥५०॥
उपचाराः पुरा प्रोक्ता येन एवात्र पूजने । प्रतिपत्तिस्तु सैवात्र कीर्तिता नित्यपूजने ॥५१॥
कवचस्य च माहात्म्यमहं ब्रह्मा न केशवः । वक्तुं क्षमस्त्वनन्तोऽपि बहुजिह्वः कदाचन ॥५२॥
क्रव्यादाद्भयं न लभते तथा तोयपरिप्लवे । कवचस्मरणादेव सर्वं कल्याणमाप्नुयात् ॥५३॥
अथ कवचं - ॐ त्रिपुराकवचस्यास्य ऋषिर्दक्षिण उच्यते । छन्दश्चित्राह्वयं प्रोक्तं देवी त्रिपुरभैरवी । धर्मार्थकाममोक्षाणां विनियोगस्तु साधने ॥५४॥
यथाद्यात्रिपुराख्याया बीजानि क्रमतः सुत । नामतो वाग्भवादीनि कीर्तितानि मया पुरा ॥५५॥
तथा त्रिपुरभैरव्या बीजानामपि नामतः । वाग्भवः कामराजश्च तथा त्रैलोक्यमोहनः ॥५६॥
अवतु सकलशीर्षं वाग्भवे वाचमुग्रां निखिलरचितकामान् कामराजोऽवतान्मे । सकलकरणवर्गमीश्वरः पातु नित्यं तनुगतबहुतेजो वर्धयन् बुद्धिहेतुः ॥५७॥
कूटैस्तु पञ्चभिरिदं गदितं हि यन्त्रं मन्त्रं ततोऽनु सततं मम तेज उग्रम् । तेजोमयं महति नित्यपरायणस्थं तन्त्रो हृदि प्रविततां तनुतां सुबुद्धिम् ॥५८॥
आधारे वाग्भवः पातु कामराजस्तथा हृदि । भ्रुवोर्मध्ये च शीर्षे च पातु त्रैलोक्यमोहनः ॥५९॥
विततकुलकलाज्ञा कामिनी भैरवी या त्रिपुरपुरदहाख्या सर्वलोकस्य माता । वितरतु मम नित्यं नाभिपद्मे सकुक्षौ गणपतिवनिता मां रोगहानिं सुखं च ॥६०॥
योगैर्जगन्ति परिमोहयतीव नित्यं जागर्ति या त्रिपुरभैरवभामिनीति । सायं च भावकलिता मम पञ्चभागे नासाक्षिकर्णरसनात्वचि पातु नित्यम् ॥६१॥
आद्या तु त्रिपुरेयं या मध्या या कामदायिनी । त्रिधा तु ह्यवतां नित्यं देवी त्रिपुरभैरवी ॥६२॥
उदयदिशि सदा मां पातु बाला तु माता यमदिशि मम मध्याभद्रमुग्रं विदध्यात् । वरुणपवनकाष्ठामध्यतो भैरवी मा- मवतु सकलरक्षां कुर्वती सुन्दरी मे ॥६३॥
महामाया महायोनिर्विश्वयोनिः सदैव तु । सा पातु त्रिपुरा नित्यं सुन्दरी भैरवी च या ॥६४॥
ललाटे सुभगा देवी पूर्वस्यां दिशि कामदा । नित्यं तिष्ठतु रक्षन्ती सदा त्रिपुरसुन्दरी ॥६५॥
भ्रुवोर्मध्ये तथाग्नेय्यां दिशि मां त्रिपुरा च या । वर्धयन्ती भगगणान् पातु त्रिपुरभैरवी ॥६६॥
वदने दक्षिणस्यां च दिशि मां भगसर्पिणी । त्रिपुरा यमदूतादीन् वारयन्ती सदाऽवतु ॥६७॥
कर्णयोः पश्चिमायां च दिशि मां भगमालिनी । अयोनिजा जगद्योनिर्बाला मां त्रिपुराऽवतु ॥६८॥
अनङ्गकुसुमा कण्ठे प्रतीच्यां दिशि सुन्दरी । त्रिपुराभैरवी माता नित्यं पातु महेश्वरी ॥६९॥
हृदि मारुतकाष्ठायां देवी चानङ्गमेखला । नाभावुदीच्यां दिशि मां मातङ्गी त्रिपुरापरा ॥७०॥
अनङ्गमदना देवी पातु त्रिपुरभैरवी । ऐशान्यां दिशि लिङ्गे च मदविभ्रममन्थरा ॥७१॥
वाग्वादिनी रक्षतु मां सदा त्रिपुरभैरवी । गुदमेढ्रान्तरे पातु रतिस्त्रिपुरभैरवी ॥७२॥
हृदयाभ्यन्तरे प्रीतिः पातु त्रिपुरभैरवी । भ्रूनासयोर्मध्यदेशे नित्यं पातु मनोभवः ॥७३॥
द्रावणी मां ग्रहात् पातु वाणी मां दुर्गमूर्धनि । क्षोभणा मां सदा पातु क्रव्याद्भ्योऽनिष्टभीतितः ॥७४॥
वशीकरणवाणी मामग्नितः पातु राजतः । आकर्षणाह्वया वाणी मां पातु शस्त्रघाततः ॥७५॥
मोहनः सर्वभूतेभ्यः पिशाचेभ्यो जलात्तथा । नित्यं पातु महाबाणस्तन्वानः काममुत्तमम् ॥७६॥
माला मां शास्त्रबोधाय शास्त्रवादे सदाऽवतु । पुस्तकं पातु मनसि सङ्कल्पं वर्धयन् मम ॥७७॥
वरः पातु सदा धाम्नि धामतेजो विवर्धयन् । अभयं ह्यभयं धत्तां सर्वेभ्यो भूतिभावनम् ॥७८॥
ऊर्ध्वाधोभावभूतस्थिततरकरणै रक्तकीर्णा सुचक्रा कालाग्निप्रख्यरोचिः सकलसुरगणैरर्चिता मुण्डमाला । ज्ञानध्यानैकतानप्रबलबलकरं तत्त्वभूतप्रतिष्ठं पातादूर्ध्वं तथाधः सकलभयभृतो भोगभीरोस्तु विद्या ॥७९॥
हः पातु हृदि मां नित्यं सः शीर्षे पातु नित्यशः । रः पातु गुह्यदेशे मां सौः पातु कण्ठपार्श्वयोः ॥८०॥
रकारो मम नाडीषु शिरः सौः पातु सर्वदा । शक्रः पातु सदाकाशे ब्रह्मा रक्षतु सर्वतः ॥८१॥
विद्या विद्याभाविनी कामरूपा स्थूला सूक्ष्मा मायया याऽऽदिमाया । ब्रह्मेन्द्राद्यैरर्चिता भूतिदात्री रक्षां कुर्यात् सर्वतो भैरवी माम् ॥८२॥
आद्या मध्या भाविनी नीतियुक्ता सम्यग्ज्ञानज्ञेयरूपापरा या । आदावन्ते मध्यभागे च तारा पायाद्देवी त्रैपुरी भैरवी या ॥८३॥
यन्मन्त्रभागतन्त्राणां यन्त्राणामपि केशवः । ब्रह्मा रुद्रश्च जानाति तत्त्वं नान्यो नमोऽस्तु तान् ॥८४॥
त्वं ब्रह्माणि भवानि विश्वभवितुर्लक्ष्मीरतिर्योगिनी त्वं वाग्मी सुभगा भवायुतयुतं मन्त्राक्षरं निष्कलम् । वर्णास्ते निखिला स्तनावचलितस्त्वं कामिनीकामदा त्वं देवि त्रिपुरे कवित्वममलं सौभाग्यमुच्चैः कुरु ॥८५॥
इदं तु कवचं देव्या यो जानाति स मन्त्रवित् । नाधयो व्याधयस्तस्य न भयं च सदा क्वचित् ॥८६॥
इति ते परमं गुह्यमाख्यातं कवचं परम् । तद्भजस्व महाभाग ततः सिद्धिमवाप्स्यसि ॥८७॥
इदं पवित्रं परमं पुण्यं कीर्तिविवर्धनम् । त्रिपुरायास्त्रिमूर्तेस्तु कवचं मयकोदितम् ॥८८॥
यः पठेत् प्रातरुत्थाय स प्राप्नोति मनोगतम् । लिखितं कवचं यस्तु कण्ठे गृह्वाति मन्त्रवित् ॥८९॥
न तस्य गात्रं कृन्तन्ति रणे शस्त्राणि भैरव । सङ्ग्रामे शास्त्रवादे च विजयस्तस्य जायते ॥९०॥
इदं कवचमज्ञात्वा यो जपेत् त्रिपुरां नरः । स शस्त्रघातमाप्नोति भैरवीं सुन्दरीमपि ॥९१॥
बीजमुच्चारयेत् स्वस्थो गतवाग्दोषनिश्चितः । संयोगबोधः प्रत्येकभेद-श्रवणगोचरः ॥९२॥
इति कालिकापुराणे पञ्चसप्ततितमाध्यायान्तर्गतं शिवप्रोक्तं  त्रिपुराकवचं  सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP