संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । अस्यश्र...

बगलामुखीवर्णकवच - श्रीगणेशाय नमः । अस्यश्र...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । अस्यश्रीबगलामुखीवर्णकवचस्य श्रीपरमेश्वरऋषिः , अनुष्टुप् छन्दः , श्रीबगलामुखीदेवता , ॐ बीजं , ह्लीं शक्तिः , स्वाहा कीलकं , बगलाप्रसादसिद्ध्यर्थे जपे विनियोगः । अथ ध्यानम् । जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् । गदाभि घातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥
ॐ प्रणवो मे शिरः पातु ललाटे ह्लीं सदाऽवतु । बकारो भ्रूयुगं पातु गकारः पातु लोचने ॥१॥
लकारः पातु मे जिह्वां मुकारं पातु मे श्रुतिम् । खीकारं पातु मे तालु सकारं चिबुकं तथा ॥२॥
वकारः पातु मे कण्ठं स्कन्धौ पातु दकारकः । बाहू ष्टकारकः पातु करौ पातु नकारकः ॥३॥
स्तनौ वकारकः पातु चकारो हृदयं मम । मकारः पातु मे नाभौ खकारो जठरं मम ॥४॥
कुक्षिं पकारकः पातु दकारः पातु मे कटिम् । स्तकारो जघनं पातु भकारः पातु मे गुदम् ॥५॥
गुह्यं यकारकः पातु जकारोऽवतु जानुनी । उरू ह्वकारकः पातु गुल्फौ पातु ककारकः ॥६॥
पादौ लकारकः पातु यकारो स्छिति सर्वदा । बुकारः पातु रोमाणि धिकाररस्तु त्वचं तथा ॥७॥
विकारः पातु सर्वाङ्गे नकारः पातु सर्वदा । प्राच्यां शकारकः पातु दक्षिणाशां यकारकः ॥८॥
वारुणीं ह्लीं सदा पातु कौबेर्यां प्रणवेन तु । भूमौ स्वकारकः पातु हकारोर्ध्वं सदाऽवतु ॥९॥
ब्रह्मास्त्रदेवता पातु सर्वाङ्गे सर्वसन्धिषु । इतिते कथितं देवि दिव्यमङ्घपञ्जरम् ॥१०॥
आयुरारोग्य सिद्ध्यर्थं महदैश्वर्यदायकम् । लिखित्वा ताडपत्रे तु कण्ठे बाहौ च धारयेत् ॥११॥
देवासुरपिशाचेभ्यो भयं तस्य नहि क्वचित् । कर्मणेन सन्द्दर्शो त्रिषुलोकेशु सिद्ध्यते ॥१२॥
महाभये राजे तु शतवारं पठेद्यहम् । गृहे रणे विवादे च सर्वापत्ति विमुच्यते ॥१३॥
एतत्कवचमज्ञात्वा यो ब्रह्मास्त्रमुपासते । न तस्य सिध्यते मन्त्रः कल्पकोटिशतैरपि ॥१४॥
॥ इति श्री ईश्वरपार्वतिसंवादे बगलावर्णकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP