संस्कृत सूची|संस्कृत साहित्य|कवच| अथ पञ्चाशीतितमः पटलः । श... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... परनाथकवचम् - अथ पञ्चाशीतितमः पटलः । श... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र परनाथकवचम् Translation - भाषांतर अथ पञ्चाशीतितमः पटलः । श्रीआनन्दभैरव उवाच वरानने वरारोहे सर्वज्ञाननिदानदे । आनन्दहृदयोल्लासे परमानन्दवर्धिनि ॥८५-१॥ कथितं कवचं पुण्यं रहस्यं चातिदुर्लभम् । न चोक्तं ज्ञानगम्यं तु महाजालनिसेवितम् ॥८५-२॥ परनाथस्य कवचं सार्वज्ञज्ञानसिद्धिदम् । इदानीं वद मे यत्नादानन्दकुलभैरवी ॥८५-३॥ श्रीआनन्दभैरवी उवाच श्रूयतां योगिनीनाथ योगविद्यापते प्रभो । परनाथस्य कवचं ज्ञानगम्यं पुरातनम् ॥८५-४॥ अतिगोप्यं योगसारं सर्वतन्त्रेषु दुर्लभम् । इदानीं नाथ यत्नेन कथयामि परं पदम् ॥८५-५॥ अस्य श्रीपरनाथमहाकवचस्य सदाशिव ऋषिः परमात्मा देवता ह्सौः बीजं ज्ञानशक्तिरानन्दं कीलकं सर्वाभीष्टसिद्ध्यर्थे विनियोगः । ॐङ्कारं वेदबीजं मे सदा पातु शिरोधनम् । ह्सौः महाप्रेतराजः कपालं पातु सर्वदा ॥८५-६॥ हाकिनीशः सहायाख्यः कामकेशगुणानि मे । वाराणसीपुरः पातु भ्रूमध्यपरदेवता ॥८५-७॥ षं रं शं वं सदा पातु हं क्षं पातु भ्रुवोर्दलम् । बाणलिङ्गं सदा पातु भ्रूपद्मयुवती मम ॥८५-८॥ कालानलः सदा पातु द्विदलस्थं परात्परम् । भ्रूगह्वरं सदानन्दं पातु त्रिपुरभैरवः ॥८५-९॥ अनाथलिङ्गः सर्वेशः पातु मे लोचनत्रयम् । अभयो मङ्गलः पातु ध्रुवाख्ये लोलजिह्विकाम् ॥८५-१०॥ पञ्चाननः सदा पातु वदनं कामसुन्दरः । उन्मत्तभैरवेन्द्रोऽथ गण्डयुग्मं सदावतु ॥८५-११॥ हिरण्याख्यः सदा पातु दन्ताग्रालिं श्मशानगः । महादेवः सदा पातु महाकाशः श्रुती मम ॥८५-१२॥ विकटाख्यो मञ्जुघोषः सदा पातु हनुस्थलम् । प्रणवात्मा सदा पातु कण्ठं मे नीलकण्ठभृत् ॥८५-१३॥ अपराजितः शुक्लवर्णः सदा पातु महामला । गलदेशं महाकाशं त्रिपुरा परमेश्वरी ॥८५-१४॥ मृत्युञ्जयश्च घोराख्यो विशुद्धं सर्वदाऽवतु । स्वरानीश्वरसंयुक्तान् योगीशः सर्वदाऽवतु ॥८५-१५॥ वामदेवः सदा पातु हृदयं परमेश्वरः । ईश्वरः सर्वदा पातु परदेवः सदाशिवः ॥८५-१६॥ अट्टहासः सदा पातु योगिनीकोटिभिः सह । अकालचक्रः सर्वज्ञश्चावधूतेश्वरो भुजौ ॥८५-१७॥ महाकालः सदा पातु भेरुण्डापतिरीश्वरः । पार्श्वदेशं सदा पातु काकिनीपरवल्लभः ॥८५-१८॥ अच्युतेशः सदा पातु कुक्षियुग्मं सदा मम । अथर्वेशः सदानन्दः पातु पृष्ठं सुरेश्वरः ॥८५-१९॥ तपिनीपतिरीशानो वीरभद्रो यतीश्वरः । नाभिमण्डलमापातु ममोदरमुमापतिः ॥८५-२०॥ घर्घरः पातु सततं रुद्रं राकिणिवल्लभम् । जटाजूटधरः पातु रुद्राणीं रौद्रदेवताम् ॥८५-२१॥ नितम्बं पातु योगेन्द्रः प्रभाद्यो मे कटिस्थलम् । स्वाधिष्ठानं सदा पातु षड्दलान्तः प्रकाशकः ॥८५-२२॥ अभयः सर्वदा पातु भर्गः पातु चतुर्दलम् । तरुणीशः सदा पातु कुण्डलीं डाकिनीपदम् ॥८५-२३॥ गुदरन्ध्रं सदा पातु पार्वतीप्रियवल्लभः । यज्ञनाथः सदा पातु ऊरुयुग्मं स्वमन्त्रवित् ॥८५-२४॥ जङ्घायुगं सदा पातु धर्मलक्ष्मीश्वरः प्रभुः । महाकालः पातु पादतलयुग्मं महीश्वरः ॥८५-२५॥ सर्वाङ्गं वरदः पातु वटुकः श्रीसदाशिवः । महारुद्रः श्रीपतीशः सदा उग्रः प्रपातु माम् ॥८५-२६॥ रणे द्यूते विवादे च शून्यागारे महाभये । पाताले पर्वतेऽरण्ये पातु वाग्वादिनीश्वरः ॥८५-२७॥ घण्टेश्वरः शङ्खनादो मुरारीशः प्रपातु माम् । परमानन्ददः पातु हितार्थी पथि पातु माम् ॥८५-२८॥ महाविद्यापतिः पातु प्रेतराजः प्रपातु माम् । पुत्रं मित्रं कलत्रं मे बन्धुं स्वजनमेव च ॥८५-२९॥ सर्वाधारः सदा पातु लिङ्गरूपी महेश्वरः । परमात्मा सदा पातु गुह्यदेशस्थदेवताम् ॥८५-३०॥ परिवारान्वितः पातु महाचन्द्रः सदाऽवतु । मारणोच्चाटने स्तम्भे विद्वेषे पातु मोहनः ॥८५-३१॥ मोहने द्रावणे स्थैर्ये वश्ये शान्तौ सदाशिवः । परनाथो गुरुः पातु पारिजातवनाश्रयः ॥८५-३२॥ सर्वभुक् कालरुद्रो मे सर्वत्र परिपातु माम् । इत्येतत् कथितं सर्वसिद्धिदं कवचं शुभम् ॥८५-३३॥ परनाथस्य देवस्य सार्वज्ञज्ञानसिद्धिदम् । कवचं दुर्लभं लोके सर्वतन्त्रेषु गोपितम् ॥८५-३४॥ यामले देवदेवेश प्रकाशितमहर्निशम् । यः पठेदेकवारं तु स रुद्रो नात्र संशयः ॥८५-३५॥ कीर्तिश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् । अस्य स्मरणमात्रेण राजत्वं योगिनां पतिः ॥८५-३६॥ भवेत् कामक्रोधजेता मृत्युजेता महाकविः । तस्यासाध्यं त्रिभुवने न किञ्चिदपि वर्तते ॥८५-३७॥ यः कण्ठे मस्तके वापि धारयेत् कवचं शुभम् । रक्तेन चन्दनेनापि कुङ्कुमेनापि वा लिखेत् ॥८५-३८॥ स भवेद् वीरपुत्रश्च महापातककोटिहा । अनायासेन देवेश योगसिद्धिमवाप्नुयात् ॥८५-३९॥ शतमष्टोत्तरं जप्त्वा पुरश्चर्याफलं लभेत् ॥८५-४०॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे परशिवकवचपाठो नाम पञ्चाशीतितमः पटलः ॥८५॥ N/A References : N/A Last Updated : November 30, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP