संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीगुरवे शिवायों नमः ।...

श्रीकामेश्वरकवचम् - ॐ श्रीगुरवे शिवायों नमः ।...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीगुरवे शिवायों नमः । श्रीदेव्यै सदासुफलदायिन्यै नमः । श्रीदेव्युवाच - भगवन् करुणाम्भोधे शास्त्राम्भोनिधिपारग । दासी परमभक्तास्मि वरं दातुमिहार्हसि ॥१॥
श्रीभैरव उवाच - कथयस्व महेशानि कमितो वरमिच्छसि । यत्किञ्चिन्मनसीष्टं स्यात्तद्दातुं ते क्षमोऽस्म्यहम् ॥२॥
श्रीदेव्युवाच - कामेश्वरस्य देवेश कवचं देवदुर्लभम् । शीघ्रं मे दयया ब्रूहि यद्यहं प्रेयसी तव ॥३॥
श्रीभैरवौवाच - श‍ृणुष्व परमेशानि कवचं मन्मुखोदितम् । महाकामेश्वरस्यास्य न देयं परमाद्भुतम् ॥४॥
यं धृत्वा यं पठित्वा च यं श्रुत्वा कवचोत्तमम् । त्रैलोक्याधिपतिर्भूत्वा सुखितोऽस्मि महेश्वरि ॥५॥
तदेवं वर्णयिष्यामि तव प्रीत्या वरानने । रहस्यं परमं तत्त्वं न दातव्यं दुरात्मने ॥६॥
अस्यश्रीकामेश्वरकवचमन्त्रस्य श्रीदक्षिणामूर्ति ऋषिः । पङ्क्ति छन्दः । श्रीकामेश्वरो देवता । श्रीं बीजं, ह्रीं शक्तिः, क्लीं कीलकम् । चतुर्वर्गफलप्राप्त्यर्थं कवचपाठे विनियोगः । अथ ध्यानम् । उद्यच्चन्द्रसमानदीप्तिममृतानन्दैकहेतुं परं चिद्रूपं भुवनैकसृष्टिप्रलयोद्भूतैकरक्षापरम् । कोटी चन्द्रगलत्सुधाद्भुततनुं हारादिभूषोज्ज्वलं शुलं खड्गवरौ तथाभयकरं कामेश्वरं भावये ॥
ऐँ कं कामेश्वरः पातु क्लीं शिवो मे ललाटकम् । सौं मे कर्णौ च कामेशः तारं मे लोचनद्वयम् ॥१॥
श्रीं गं डौं मे महाकालो ह्रीं नासां चन्द्रचूडकः । हं मे ओष्टौ त्रिपुरेशः सं मे दन्तौ च भैरवः ॥२॥
क्षं मे जिह्वां पातु देवो महाकामेश्वरः परः । सम्मोहनं सदा पातु महावटुकभैरवः ॥३॥
यं मे स्कन्धौ सदा पातु महामृत्युञ्जयस्तथा । ऊं मे भुजौ सदा पातु श्रीं देवस्त्रिपुरान्तकः ॥४॥
सं मे हस्तौ त्रिलोकेशः हं नखान् पातु सुन्दरः । क्षं दक्षः पातु शामेशो मं कुक्षिं कृत्तिका वरः ॥५॥
लं पार्श्वौ पातु मे बाला वं नाभिं ब्रह्मभूषकः । रं वस्तिं पातु मे देवो यं पृष्ठं विष्णुरूपकः ॥६॥
ऊं शिश्नं पातु विश्वेशः अमृतेश्वरभैरवः । यं मेढ्रे पातु मे रुद्रो रं गुह्यं गुह्यकेश्वरः ॥७॥
लं कटिं पात मे नित्यं शिवः परमकारणः । वं ऊरू त्रिपुराध्यक्षः लं जानू देवपालकः ॥८॥
मं जङ्घे पातु महिमा यं गुल्फौ सूर्यरूपकः । श्रीं जठरं हरः पातु ह्रीं मनोहरसुन्दरः ॥९॥
ॐ बुद्धिं पातु मे रुद्रः सौः रसं दक्षजापतिः । क्लीं रक्तं पातु मे देवो ऊर्ध्वं च वह्निरूपधृक् ॥१०॥
ऐं सौं सं गुह्यकः पातु मेरुः पशुपतिस्तथा । अस्थिं मे गिरिजानाथो मज्जां मे नीलकण्ठकः ॥११॥
शुक्रं भूतेश्वरः पातु मूर्धानं शङ्करोऽवतु । पादौ श्रीं सुन्दरीशानो देवः कालान्तकः प्रभुः ॥१२॥
पादादिशिरःपर्यन्तमघोरः पातु सर्वदा । शिरसः पादपर्यन्तं सद्योजातो ममावतु ॥१३॥
प्रौढरूपः सदा पातु स्वाहा मे सकलं वपुः । कामेश्वरः प्रभातेऽव्यान्मध्याह्ने कालभैरवः ॥१४॥
सायं पातु कुलेशानो निशीथे निष्कलेश्वरः । अर्धरात्रे वामदेवो निशान्ते सुमहोदयः ॥१५॥
सर्वदा सर्वतः पातु ऐं क्लीं सौं बीजरूपधृक् । पूर्वे मामसिताङ्गोऽव्यात् दक्षिणे रुरुभैरवः ॥१६॥
पश्चिमे पातु चण्डेशो ह्युत्तरे क्रोधभैरवः । ऐशान्यां पातु चोन्मत्तः कपालेशस्तथाग्निके ॥१७॥
नैरृत्यां भीषणः पातु वायौ संहारकोऽवतु । ऊर्ध्वं मे कालरुद्रश्च पाताले परमेश्वरः ॥१८॥
मध्ये सदाशिवः पातु त्रिकूटेशः सदावतु । दशदिक्षु सदा पातु महाकामेश्वरोऽवतु ॥१९॥
विस्मारितं च यत्स्थानं यत्स्थानं नामवरर्जितम् । तत्सर्वं पातु मे देवस्त्रिपुरःपतिरीश्वरः ॥२०॥
गृहे शर्वः सदा पातु बहिः पायाद्वृषध्वजः । पथि त्रिपुरसुन्दर्यः पातु सर्वत्र सर्वदा ॥२१॥
रणे राजकुले दुर्गे दुर्भिक्षे शत्रुसंसदि । द्यूते मारीभये राष्ट्रे विप्लवे वादिनां कुले ॥२२॥
कामेश्वरः सदा पातु भयस्थाने च सर्वदा । इत्येतत्कवचं गुह्यं त्रिषु लोकेषु दुर्लभम् ॥२३॥
मूलमन्त्रमयं दिव्यं त्रिलोकीसारमुत्तमम् । अदातव्यमभक्ताय कवचं गुह्यमीश्वरि ॥२४॥
अदृष्टव्यमश्रोतव्यं दीक्षाहीनाय मन्त्रिणे । परदीक्षाय शिष्याय पुत्राय शरजन्मने ॥२५॥
न दातव्यं न श्रोतव्यमित्याज्ञां मामकीं श‍ृणु । परं श्रीमहिमानं च श‍ृणु चास्य सुवर्मणः ॥२६॥
अदीक्षितो यदा मन्त्री विद्यां गृध्नुः पठेदिदम् । सुशिक्षित इति ज्ञेयो मान्त्रिकः साधकोत्तमः ॥२७॥
गुरुपूजां विधायास्य विधिवत्प्रपठेत्ततः । कवचं त्रिःसकृद्वापि यावज्ज्ञानं च वा पुनः ॥२८॥
एतच्छतार्थमावर्त्य त्रैलोक्यविजयी भवेत् । यः पठेन्मनसान्तस्तु रात्रौ ब्राह्मे मुहूर्तके ॥२९॥
पूजाकाले निशीथे तु तस्य हस्तस्य सिद्धयः । दुःस्वप्ने बन्धने घोरे कान्तारे सागरे भये ॥३०॥
रजःसत्त्वतमोरूपवर्म कामेश्वरस्य तु । काङ्क्षन्ते मनसा यद्यत्तत्तत्प्राप्नोति साधकः ॥३१॥
महाकविर्भवेन्मासात्सर्वसिद्धीश्वरो भवेत् । कुङ्कुमेन लिखित्वा वै भूर्जत्वचि रवौ दिने ॥३२॥
प्रातःकाले शुभर्क्षे च स्वर्णस्थं धारयेद्यदि । शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्बुधः । यद्यदिष्टं भवेत्तत्तत्साधको लभतेऽचिरात् ॥३३॥
यद्गृहे वर्तते वर्म श्रीकामेश्वरदैवतम् । विद्याकीर्तिर्धनारोग्यं लक्ष्मीर्वृद्धिर्न संशयः ॥३४॥
विना बलिं न संरक्ष्यं कवचं साधकत्तमैः । चेद्रक्ष्यं तत्सुतान् दारान्नायुर्भक्षति योगिनी ॥३५॥
बलिं दत्वा पठेद्वर्म धारयेन्मूर्ध्नि साधकः । पुत्रवान् धनवान् श्रीमान् नानाविद्यानिधिर्भवेत् । इह भोगान् समश्नाति परत्र मुक्तिभाग्भवेत् ॥३६॥
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः । नाशमायाति सर्वत्र कवचस्यास्य धारणात् ॥३७॥
मृतवत्सा वामबाहौ कवचस्यास्य धारणात् । बह्वपत्या जीववत्सा भवत्येव न संशयः ॥३८॥
रणेष्टत्वाचरेद्युद्धं हत्वा शत्रून् जयं लभेत् । जयं कृत्वा गृहं देवि स प्राश्यति सुखी नरः ॥३९॥
महाभये महाघोरे महामारीभये तथा । दुर्भिक्षे शत्रुसङ्ग्रामे पठेत्कवचमादरात् । सर्वं तत्प्रशमं याति कामेश्वरप्रसादतः ॥४०॥
कवचस्यास्य देवेशि वर्णितुं नैव शक्यते । महिमानं महादेवि जिह्वाकोटिशतैरपि ॥४१॥
इदं कवचमज्ञात्वा यो जपेत मनुं शिवे । सप्तलक्षप्रजप्तापि तस्य विद्या न सिद्ध्यति ॥४२॥
अदातव्यमिदं वर्म मन्त्रगर्भं रहस्यकम् । अवक्तव्यं महापुण्यं सर्वसारस्वतप्रदम् ॥४३॥
अदीक्षिताय नो दद्यात् कुचैलाय दुरात्मने । न देयं परशिष्येभ्योऽभक्तेभ्योऽपि विशेषतः ॥४४॥
शिष्येभ्यो भक्तियुक्तेभ्यः प्रदेयं भावनावशात् । इति श्रीदेवदेवेशि वर्म कामेश्वरस्य तु । गुह्यं गोप्यतमं गोप्यं कथितं तव भक्तितः ॥४५॥
इत्येष पटलो देवि परमाद्भुतकारणः । कथितो देवदेवेशि तव भक्तिवशान्मया ॥४६॥
न वक्तव्यो न दातव्यो दीक्षाहीनाय पार्वति । यथावद्गोपनीयोऽसौ सिद्ध्यष्टकफलो मतः ॥४७॥
यावत्कालं भवेद्गुप्तस्तावत्तु फलदायकः । न चेद्गुप्तो भवेद्देवि सिद्धिहानिर्भवेद्ध्रुवम् ॥४८॥
रहस्योद्घाटनायास्मान्महिमा हीयतान्मनोः । तस्मात्सर्वत्र गोप्तव्यः सायकैः पटलोत्तमः । यथेष्टकामदश्चेह परत्र मोक्षदः प्रिये ॥४९॥
इति श्रीविश्वसारतन्त्रे पार्वतीपरमेश्वरसंवादे श्रीकामेश्वरकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 17, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP