संस्कृत सूची|संस्कृत साहित्य|कवच|
हरिरुवाच । सर्वव्याधिहरं...

रोगनाशनवैष्णवकवचम् - हरिरुवाच । सर्वव्याधिहरं...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

हरिरुवाच । सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् । येन रक्षा कृता शम्भोर्दैत्यान्क्षपयतः पुरा ॥१॥ शम्भोर्नात्र कार्या विचारणा
प्रणम्य देवमीशानमजं नित्यमनामयम् । देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥२॥
बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् । प्रतीकारं अमोघाप्रतिमं सर्वं सर्वदुःखनिवारणम् ॥३॥
विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः । हरिर्मे रक्षतु शिरो हृदयञ्च जनार्दनः ॥४॥
मनो मम हृषीकेशो जिह्वां रक्षतु केशवः । प्रातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥५॥
प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च । वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः ॥६॥
पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् । दक्षिणन्तु गदादेवी सर्वासुरनिवारिणी ॥७॥
उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् । ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥८॥
पार्ष्णी रक्षतु शङ्खश्च पद्मं मे चरणावुभौ । सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥९॥
वराहो रक्षतु जले विषमेषु च वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥१०॥
हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु । साङ्ख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥११॥
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः । सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥१२॥ सूदनः
सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् । हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ॥१३॥
त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु । सर्वपापान्निगृह्णतु तथा नारायणो देवो बुद्धिं पालयतां मम ॥१४॥
शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् । वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥१५॥
पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः । दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥१६॥ दत्तात्रेयः कलयतु सर्वानरीन्नाशयतु रामः परशुना मम । रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः ॥१७॥
शत्रून्हलेन मे हन्याद्रमो यादवनन्दनः । प्रलम्बकेशिचाणूरपूतनाकंसनाशनः । कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥१८॥
अन्धकारतमोघोरं पुरुषं कृष्णपिङ्गलम् । पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥१९॥
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः । धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ॥२०॥
ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् । वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥२१॥
अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् । स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥२२॥
सिद्धिर्भवतु मे नित्यं यथा मन्त्रमुदाहृतम् । यो मां पश्यति चक्षुर्भ्यां यञ्चः पश्यामि चक्षुषा । सर्वेषां पापदुष्टानां विष्णुर्बध्नातु चक्षुषी ॥२३॥
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः । ते हि छिन्दन्तु पापान्मे मम हिंसन्तु हिंसकान् ॥२४॥ पापानि
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च । विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥२५॥
नदीसन्तारणे घोरे सम्प्राप्ते प्राणसंशये । अग्निचौरनिपातेषु सर्वग्रहनिवारणे ॥२६॥
विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे । जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥२७॥
अयं भगवतो मन्त्रो मन्त्राणां परमो महान् । विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम् । स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत् ॥२८॥
ॐ अनाद्यन्त जगद्बीज पद्मनाभ नमोऽस्तु ते । ॐ कालाय स्वाहा । ॐ कालपुरुषाय स्वाहा । ॐ कृष्णाय स्वाहा । ॐ कृष्णरूपाय स्वाहा । ॐ चण्डाय स्वाहा । ॐ चण्डरूपाय स्वाहा । ॐ प्रचण्डाय स्वाहा । ॐ प्रचण्डरूपाय स्वाहा । ॐ सर्वाय स्वाहा । ॐ सर्वरूपाय स्वाहा । ॐ नमो भुवनेशाय त्रिलोकधात्रे इह विटि सिविटि सिविटि स्वाहा । ॐ नमः अयोखेतये ये ये संज्ञापय  var  संज्ञायापात्र दैत्यदानवयक्षराक्षसभूतपिशाचकूष्माण्डान्तापस्मारकच्छर्दनदुर्धराणा- मेकाहिकद्व्याहिकत्र्याहिकचातुर्थिक मौहूर्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्वज्वरादीनां लूताकीटकण्टकपूतनाभुजङ्गस्थावरजङ्गमविषादीनामिदं शरीरं मम पथ्यं त्वं कुरु स्फुट स्फुट स्फुट प्रकोट लफट विकटदंष्ट्रः पूर्वतो रक्षतु । ॐ है है है है दिनकर्सहस्रकालसमाहतो जय पश्चिमतो रक्ष । ॐ निवि निवि प्रदीप्तज्वलनज्वालाकार महाकपिल उत्तरतो रक्ष । ॐ विलि विलि मिलि मिलि गरुडि गरुडि गौरीगान्धारीविषमोहविषमविषमां महोहयतु स्वाहा दक्षिणतो रक्ष । मां पश्य सर्वभूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजय तेन हीयते रिपुत्रासाहङ्कृतवाद्यतोभय रुदय वोभयोऽभयं दिशतु च्युतः तदुदरमखिलं विशन्तु युगपरिवर्तसहस्रसङ्ख्येयोऽस्तमलमिव प्रविशन्ति रश्मयः । वासुदेवसङ्कर्षणप्रद्युम्नश्चानिरुद्धकः । सर्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः ॥२९॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैष्णवकवचकथनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP