संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीगणेशाय नमः । नारद ...

श्रीसुब्रह्मण्यकवचम् - ॐ श्रीगणेशाय नमः । नारद ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीगणेशाय नमः । नारद उवाच- देवेश श्रोतुमिच्छामि ब्रह्मन् वागीश तत्त्वतः । सुब्रह्मण्यस्य कवचं कृपया वक्तुमर्हसि ॥१॥
ब्रह्मोवच महर्षे श‍ृणु मद्वाक्यं बहुना किं तवानघ । मन्त्राश्च कोटिशः सन्ति शम्भुविष्ण्वादिदेवताः ॥२॥
सहस्रनाम्नां कोट्यश्च ह्यङ्गन्यासाश्च कोटिशः । उपमन्त्रास्त्वनेके च कोटिशः सन्ति नारद ॥३॥
मालामन्त्राः कोटिशश्च ह्यश्वमेधफलप्रदाः । कुमारकवचं दिव्यं भुक्तिमुक्तिफलप्रदम् ॥४॥
सर्वसम्पत्करं श्रीमद्वज्रसारसमन्वितम् । सर्वात्मके शम्भुपुत्रे मतिरस्त्यत्र किं तव ॥५॥
धन्योऽसि कृतकृत्योऽसि भक्तोऽसि त्वं महामते । यस्येदं शरजं जन्म यदि वा स्कन्द एव च ॥६॥
तेनैव लभ्यते चैतत्कवचं शङ्करोदितम् । ऋषिश्छन्दो देवताश्च कार्याः पूर्ववदेव च ॥७॥
ध्यानं तु ते प्रवक्ष्यामि येन स्वामिमयो भवेत् । ओङ्कांररूपिणं देवं सर्वदेवात्मकं प्रभुम् ॥८॥
देवसेनापतिं शान्तं ब्रह्मविष्णुशिवात्मकम् । भक्तप्रियं भक्तिगम्यं भक्तानामार्तिभञ्जनम् ॥९॥
भवानीप्रियपुत्रं च महाभयनिवारकम् । शङ्करं सर्वलोकानां शङ्करात्मानमव्ययम् ॥१०॥
सर्वसम्पत्प्रदं वीरं सर्वलोकैकपूजितम् । एवं ध्यात्वा महासेनं कवचं वज्रपञ्जरम् ॥११॥
पठेन्नित्यं प्रयत्नेन त्रिकालं शुद्धिसंयुतः । सत्यज्ञानप्रदं दिव्यं सर्वमङ्गलदायकम् ॥१२॥
अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य परब्रह्म ऋषिः । देवी गायत्री छन्दः । प्रसन्नज्ञानसुब्रह्मण्यो देवता । ॐ बीजं, श्रीं शक्तिः, सौं कीलकम् । प्रसन्नज्ञानसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः-श्रीसुब्रह्मण्याय अङ्गुष्ठाभ्यां नमः । शक्तिधराय तर्जनीभ्यां नमः । षण्मुखाय मध्यमाभ्यां नमः । षट्त्रिंशत्कोणसंस्थिताय अनामिकाभ्यां नमः । सर्वतोमुखाय कनिष्ठिकाभ्यां नमः । तारकान्तकाय करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । भूर्भुवस्सुवरोम् (इति दिग्बन्धः) । ध्यानम् - षड्वक्त्रं शिखिवाहनं त्रियनं चित्राम्बरालङ्कृतं शक्तिं वज्रमयीं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ध्यायामीप्सितसिद्धये शिवसुतं स्कन्दं सुराराधितम् ॥
द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्यसमानतेजसम् । वन्दे मयूरासनमग्निसम्भवं सेनान्यमद्याहमभीष्टसिद्धये ॥
गाङ्गेयं वह्निगर्भं शरवणजनितं ज्ञानशक्तिं कुमारं ब्रह्मेशानामरेड्यं गुहमचलसुतं रुद्रतेजः स्वरूपम् । सोनान्यं तारकघ्नं सकलभयहरं कार्तिकेयं षडास्यं सुब्रह्मण्यं मयूरध्वजरथसहितं देवदेवं नमामि ॥
कनककुण्डलमण्डितषण्मुखं वनजराजिविराजितलोचनम् । निशितशस्त्रशरासनधारिणं शरवणोद्भवमीशसुतं भजे ॥
(लमित्यादि पञ्चपूजा ।) लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥
अथ कवचम् । सुब्रह्मण्यः शिरः पातु शिखां पातु शिवात्मजः । शिवः पातु ललाटं मे भ्रूमध्यं क्रौञ्चदारणः ॥१३॥
भुवौ पातु कुमारो मे नेत्रे पातु त्रिनेत्रकः । पायाद्गौरीसुतः श्रोत्रे गण्डयुग्मं हरात्मजः ॥१४॥
दक्षनासापुटद्वारं प्राणरूपी महेश्वरः । सर्वदेवात्मकः पातु जिह्वां सारस्वतप्रदः ॥१५॥
दन्तान् रक्षतु देवेशः तालुयुग्मं शिवात्मजः । देवसेनापतिः पातु चुबुकं चाद्रिजासुतः ॥१६॥
पार्वतीनन्दनः पातु द्वावोष्ठौ मम सर्वदा । षण्मुखो मे मुखं पातु सर्वदेवशिखामणिः ॥१७॥
सिंहगर्वापहन्ता मे ग्रीवां पातु सनातनः । तारकासुरसंहन्ता कण्ठं दुष्टान्तकोऽवतु ॥१८॥
सुभुजो मे भुजौ पातु स्कन्धमग्निसुतो मम । सन्धियुग्मं गुहः पातु करौ मे पातु पावनः ॥१९॥
कराङ्गुलीः श्रीकरोऽव्यात् सुररक्षणदीक्षितः । वक्षः स्थलं महासेनः तारकासुरसूदनः ॥२०॥
कुक्षिं पातु सदा देवः सुब्रह्मण्यः सुरेश्वरः । उदरं पातु रक्षोहा नाभिं मे विश्वपालकः ॥२१॥
लोकेशः पातु पृष्ठं मे कटिं पातु धराधरः । गुह्यं जितेन्द्रियः पातु शिश्नं पातु प्रजापतिः ॥२२॥
अण्डद्वयं महादेव ऊरुयुग्मं सदा मम । सर्वभूतेश्वरः पातु जानुयुग्ममघापहः ॥२३॥
जङ्घे मे विश्वभुक्पातु गुल्फौ पातु सनातनः । वल्लीश्वरः पातु मम मणिबन्धौ महाबलः ॥२४॥
पातु वल्लीपतिः पादौ पादपृष्ठं महाप्रभुः । पादाङ्गुलीः श्रीकरो मे इन्द्रियाणि सुरेश्वरः ॥२५॥
त्वचं महीपतिः पातु रोमकूपांस्तु शाङ्करिः । षाण्मातुरः सदा पातु सर्वदा च हरप्रियः ॥२६॥
कार्तिकेयस्तु शुक्लं मे रक्तं शरवणोद्भवः । वाचं वागीश्वरः पातु नादं मेऽव्यात्कुमारकः ॥२७॥
पूर्वस्यां दिशि सेनानीर्मां पातु जगदीश्वरः । आग्नेय्यामग्निदेवश्च क्रतुरूपी परात्परः ॥२८॥
दक्षिणस्यामुग्ररूपः सर्वपापविनाशनः । खड्गधारी च नैरृत्यां सर्वरक्षोनियामकः ॥२९॥
पश्चिमास्यां दिशि सदा जलाधारो जितेन्द्रियः । वायव्यां प्राणरूपोऽव्यान्महासेनो महाबलः ॥३०॥
उत्तरस्यां दिशि सदा निधिकर्ता स पातु माम् । शम्भुपुत्रः सदा पातु दिश्यैशान्यां महाद्युतिः ॥३१॥
ऊर्ध्वं ब्रह्मपतिः पातु चतुर्मुखनिषेवितः । अधस्तात्पातु विश्वात्मा सदा ब्रह्माण्डभृत्परः ॥३२॥
मध्यं पातु महासेनः शूरसंहारकृत्सदा । अहङ्कारं मनो बुद्धिं स्कन्दः पातु सदा मम ॥३३॥
गङ्गातीरनिवासी मामादियामे सदाऽवतु । मध्ययामे सुरश्रेष्ठस्तृतीये पातु शाम्भवः ॥३४॥
दिनान्ते लोकनाथो मां पुर्वरात्र्यां पुरारिजः । अर्धरात्रे महायोगी निशान्ते कालरूपधृत् ॥३५॥
मृत्युञ्जयः सर्वकालमन्तस्तु शिखिवाहनः । बहिः स्थितं शक्तिधरः पातु मां योगिपूजितः ॥३६॥
सर्वत्र मां सदा पातु योगविद्यो निरञ्जनः । पातु मां पञ्चभूतेभ्यः पञ्चभूतात्मकस्तदा ॥३७॥
तिष्ठन्तमग्निभूः पातु गच्छन्तं शूरसूदनः । विशाखोऽव्याच्छयानं मां निषण्णं तु सुरेश्वरः ॥३८॥
मार्गे मे नीलकण्ठश्च शैलदुर्गेषु नायकः । अरण्यदेशे दुर्गे चाभयं दद्याद्भयापहः ॥३९॥
भार्यां पुत्रप्रदः पातु पुत्रान् रक्षेत् हरात्मजः । पशून् रक्षेन्महातेजा धनं धनपतिर्मम ॥४०॥
राजराजार्चितः पातु ह्रस्वदेहं महाबलः । जीवनं पातु सर्वेशो महामणिविभूषणः ॥४१॥
सूर्योदये तु मां सर्वो ह्यश्विन्याद्याश्च तारकाः । मेषाद्या राशयश्चैव प्रभवाद्याश्च वत्सराः ॥४२॥
अयने द्वे षडृतवो मासाश्चैत्रमुखास्तथा । शुक्लकृष्णौ तथा पक्षौ तिथयः प्रतिपन्मुखाः ॥४३॥
अहोरात्रे च यामादि मुहूर्ता घटिकास्तथा । कलाः काष्ठादयश्चैव ये चान्ये कालभेदकाः ॥४४॥
ते सर्वे गुणसम्पन्नाः सन्तु सौम्यास्तदाज्ञया । ये पक्षिणो महाक्रूराः उरगाः क्रूरदृष्टयः ॥४५॥
उलूकाः काकसङ्घाश्च श्येनाः कङ्कादिसंज्ञकाः । शुकाश्च सारिकाश्चैव गृध्राः कङ्का भयानकाः ॥४६॥
ते सर्वे स्कन्ददेवस्य खड्गजालेन खण्डिताः । शतशो विलयं यान्तु भिन्नपक्षा भयातुराः ॥४७॥
ये द्रव्यहारिणश्चैव ये च हिंसापरा द्विषः । ये प्रत्यूहकरा मर्त्या दुष्टमर्त्या दुराशयाः ॥४८॥
दुष्टा भूपालसन्दोहाः ये भूभारकराः सदा । कायविघ्नकरा ये च ये खला दुष्टबुद्धयः ॥४९॥
ये च मायाविनः क्रूराः सर्वद्रव्यापहारिणः । ये चापि दुष्टकर्माणो म्लेच्छाश्च यवनादयः ॥५०॥
नित्यं क्षुद्रकरा ये च ह्यस्मद्बाधाकराः परे । दानवा ये महादैत्याः पिशाचा ये महाबलाः ॥५१॥
शाकिनीडाकिनीभेदाः वेताला ब्रह्मराक्षसाः । कूष्माण्डभैरवाद्या ये कामिनी मोहिनी तथा ॥५२॥
अपस्मारग्रहा ये च रक्तमांसभुजो हि ये । गन्धर्वाप्सरसः सिद्धा ये च देवस्य योनयः ॥५३॥
ये च प्रेताः क्षेत्रपालाः ये विनायकसंज्ञकाः । महामेषा महाव्याघ्रा महातुरगसंज्ञकाः ॥५४॥
महागोवृषसिंहाद्याः सैन्धवा ये महागजाः । वानराः शुनका ये च वराहा वनचारिणः ॥५५॥
वृकोष्ट्रखरमार्जाराः ये चातिक्षुद्रजन्तवः । अगाधभूता भूताङ्गग्रहग्राह्यप्रदायकाः ॥५६॥
ज्वालामालाश्च तडितो दुरात्मानोऽतिदुःखदाः । नानारोगकरा ये च क्षुद्रविद्या महाबलाः ॥५७॥
मन्त्रयन्त्रसमुद्भूताः तन्त्रकल्पितविग्रहाः । ये स्फोटका महारोगाः वातिकाः पैत्तिकाश्च ये ॥५८॥
सन्निपातश्लेष्मकाश्च महादुःखकरास्तथा । माहेश्वरा वैष्णवाश्च वैरिञ्चाश्च महाज्वराः ॥५९॥
चातुर्थिकाः पाक्षिकाश्च मासषाण्मासिकाश्च ये । सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥६०॥
सृष्टका ये महोत्पाता ये जाग्रत्स्वप्नदूषकाः । ये ग्रहाः क्रूरकर्तारो ये वा बालग्रहादयः ॥६१॥
महाशिनो मांसभुजो मनोबुद्धीन्द्रियापहाः । स्फोटकाश्च महाघोराः चर्ममांसादिसम्भवाः ॥६२॥
दिवाचोरा रात्रिचोरा ये सन्ध्यासु च दारुणाः । जलजाः स्थलजाश्चैव स्थावरा जङ्गमाश्च ये ॥६३॥
विषप्रदाः कृत्रिमाश्च मन्त्रतन्त्रक्रियाकराः । मारणोच्चाटनोन्मूलद्वेषमोहनकारिणः ॥६४॥
गरुडाद्याः पक्षिजाता उद्भिदश्चाण्डजाश्च ये । कूटयुद्धकरा ये च स्वामिद्रोहकराश्च ये ॥६५॥
क्षेत्रग्रामहरा ये च बन्धनोपद्रवप्रदाः । मन्त्रा ये विविधाकाराः ये च पीडाकरास्तथा ॥६६॥
यो चोक्ता ये ह्यनुक्ताश्च भूपातालान्तरिक्षगाः । ते सर्वे शिवपुत्रस्य कवचोत्तारणादिह ॥६७॥
सहस्रधा लयं यान्तु दूरादेव तिरोहिताः ।
फलश्रुतिः । इत्येतत्कवचं दिव्यं षण्मुखस्य महात्मनः ॥६८॥
सर्वसम्पत्प्रदं नृणां सर्वकायार्थसाधनम् । सर्ववश्यकरं पुण्यं पुत्रपौत्रप्रदायकम् ॥६९॥
रहस्यातिरहस्यं च गुह्याद्गुह्यतरं महत् । सर्वेदेवप्रियकरं सर्वानन्दप्रदायकम् ॥७०॥
अष्टैश्वर्यप्रदं नित्यं सर्वरोगनिवारणम् । अनेन सदृशं वर्म नास्ति ब्रह्माण्डगोलके ॥७१॥
सत्यं सत्यं पुनः सत्यं श‍ृणु पुत्र महामुने । एकवारं जपन्नित्यं मुनितुल्यो भविष्यति ॥७२॥
त्रिवारं यः पठेन्नित्यं गुरुध्यानपरायणः । स एव षण्मुखः सत्यं सर्वदेवात्मको भवेत् ॥७३॥
पठतां यो भेदकृत्स्यात् पापकृत्स भवेद्ध्रुवम् । कोटिसङ्ख्यानि वर्माणि नानेन सदृशानि हि ॥७४॥
कल्पवृक्षसमं चेदं चिन्तामणिसमं मुने । सकृत्पठनमात्रेण महापापैः प्रमुच्यते ॥७५॥
सप्तवारं पठेद्यस्तु रात्रौ पश्चिमदिङ्मुखः । मण्डलान्निगडग्रस्तो मुच्यते न विचारणा ॥७६॥
विद्वेषी च भवेद्वश्यः पठनादस्य वै मुने । कृत्रिमाणि च सर्वाणि नश्यन्ति पठनाद्ध्रुवम् ॥७७॥
यं यं च याचते कामं तं तमाप्नोति पूरुषः । नित्यं त्रिवारं पठनात्खण्डयेच्छत्रुमण्डलम् ॥७८॥
दशवारं जपन्नित्यं त्रिकालज्ञो भवेन्नरः । इन्द्रस्येन्द्रत्वमेतेन ब्रह्मणो ब्रह्मताऽभवत् ॥७९॥
चक्रवर्तित्वमेतेन सर्वेषां चैव भूभृताम् । वज्रसारतमं चैतत्कवचं शिवभाषितम् ॥८०॥
पठतां श‍ृण्वतां चैव सर्वपापहरं परम् । गुरुपूजापरो नित्यं कवचं यः पठेदिदम् ॥८१॥
मातुः स्तन्यं पुनः सोऽपि न पिबेन्मुनिसत्तम । कुमारकवचं चेदं यः पठेत्स्वामिसन्निधौ ॥८२॥
सकृत्पठनमात्रेण स्कन्दसायुज्यमाप्नुयात् । सेनानीरग्निभूः स्कन्दस्तारकारिर्गुणप्रियः ॥८३॥
षाण्मातुरो बाहुलेयः कृत्तिकाप्रियपुत्रकः । मयूरवाहनः श्रीमान् कुमारः क्रौञ्चदारणः ॥८४॥
विशाखः पार्वतीपुत्रः सुब्रह्मण्यो गुहस्तथा । षोडशैतानि नामानि श‍ृणुयात् श्रावयेत्सदा ॥८५॥
तस्य भक्तिश्च मुक्तिश्च करस्थैव न संशयः । गोमूत्रेण तु पक्त्वान्नं भुक्त्वा षण्मासतो मुने ॥८६॥
सहस्रं मूलमन्त्रं च जप्त्वा नियमतन्त्रितः । सप्तविंशतिवारं तु नित्यं यः प्रपठेदिदम् ॥८७॥
वायुवेगमनोवेगौ लभते नात्र संशयः । य एवं वर्षपर्यन्तं पूजयेद्भक्तिसंयुतः ॥८८॥
ब्रह्मलोकं च वैकुण्ठं कैलासं समवाप्स्यति । तस्मादनेन सदृशं कवचं भुवि दुर्लभम् ॥८९॥
यस्य कस्य न वक्तव्यं सर्वथा मुनिसत्तम । पठन्नित्यं च पूतात्मा सर्वसिद्धिमवाप्स्यति । सुब्रह्मण्यस्य सायुज्यं सत्यं च लभते ध्रुवम् ॥९०॥
इति श्रीस्कन्दपुराणानतः श्रीसुब्रह्मण्यकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP