संस्कृत सूची|संस्कृत साहित्य|कवच|
आनन्दभैरवी उवाच कवचं श‍ण...

ईश्वरसम्मोहनकवचम् - आनन्दभैरवी उवाच कवचं श‍ण...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

आनन्दभैरवी उवाच कवचं श‍णु चास्यैव लोकनाथ शिवापते । ईश्वरस्य परं ब्रह्म निर्वाणयोगदायकम् ॥१॥
कवचं दुर्लभं लोके नामसम्मोहनं परम् । कवचं ध्यानमात्रेण निर्वाणफलभाग्भवेत् ॥२॥
अस्य किं(पु)त्वत्रमाहात्म्यं तथापि तद्वदाम्यहम् । केवलं ग्रन्थिभेदाय निजदेहानुरक्षणात् ॥३॥
सर्वेषामपि योगेन्द्र देवानां योगिनां तथा । भावादि सिद्धिलाभाय कायनिर्मलसिद्धये ॥४॥
प्रकाशितं महाकाल तव स्नेहवशादपि । सर्वे मन्त्राः प्रसिद्ध्यन्ति सम्मोहकवचाश्रयाः ॥५॥
कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतम् । ईश्वरो देवता प्रोक्तस्तथा शक्तिश्च काकिनी ॥६॥
कीलकं क्रूं तथा ज्ञेयं ध्यानसाधनसिद्धये । हृदब्जभेदनार्थे तु विनियोगः प्रकीर्तितः ॥७॥
एतच्छ्रीसम्मोहनमहाकवचस्य ब्रह्मा ऋषिरनुष्टुप् छन्दः ईश्वरो देवता काकिनी शक्तिः क्रूं कीलकं ध्यानसाधनसिद्धये हृदब्जभेदार्थे जपे विनियोगः । प्रणवो मे पातु शीर्षं ललाटं च सदाशिवः । प्रासादो हृदयं पातु बाहुयुग्मं महेश्वरः ॥८॥
पृष्ठं पातु महादेव उदरं कामनाशनः । पार्श्वौ पातु कामराजो बालः पृष्ठतलान्तरम् ॥९॥
कुक्षिमूलं महावीरो ललितापतिरीश्वरः । मृत्युञ्जयो नीलकण्ठो लिङ्गदेशं सदावतु ॥१०॥
लिङ्गाधो मुद्रिका पातु पादयुग्ममुमापतिः । अङ्गुष्ठं पातु सततं पार्वतीप्राणवल्लभः ॥११॥
गुल्फं पातु त्र्यम्बकश्च जानुनी युवतीपतिः । ऊरुमूलं सदा पातु मञ्जुघोषः सनातनः ॥१२॥
सिमनी देशमापातु भैरवः क्रोधभैरवः । लिङ्गदेशोद्गमं पातु लिङ्गरूपी जगत्पतिः ॥१३॥
हृदयाग्रं सदा पातु महेशः काकिनीश्वरः । ग्रीवां पातु वृषस्थश्च कण्ठदेशं दिगम्बरः ॥१४॥
लम्बिकां पातु गणपो नासिकां भवनाशकः । भ्रूमध्यं पातु योगीन्द्रः महेशः पातु मस्तकम् ॥१५॥
मूर्ध्निदेशं मुनीन्द्रश्च द्वादशस्थो महेश्वरः । द्वादशाम्भोरुहं पातु काकिनीप्राणवल्लभः ॥१६॥
नाभिमूलाम्बुजं पातु महारुद्रो जगन्मयः । स्वाधिष्ठानाम्बुजं पातु सदा हरिहरात्मकः ॥१७॥
मूलपद्मं सदा पातु ब्रह्मेन्द्रो डाकिनीश्वरः । कुण्डलीं सर्वदा पातु डाकिनी योगिनीश्वरः ॥१८॥
कुण्डली मातृका पातु वटुकेशः शिरोहरः । राकिणीविग्रहं पातु वामदेवो महेश्वरः ॥१९॥
पञ्चाननः सदा पातु लाकिनीवज्रविग्रहम् । स्वस्थानं द्वादशारञ्च वीरः पातु सुकाकिनीम् ॥२०॥
वीरेन्द्रः कर्णिकां पातु द्वादशारं विषाशनः । षोडशारं सदा पातु क्रोधवीरः सदाशिवः ॥२१॥
मां पातु वज्रनाथेशोऽरिभयात् क्रोधभैरवः । षट्चक्रं सर्वदा पातु लाकिनीश्रीसदाशिवः ॥२२॥
षोडशाम्भोरुहान्तस्थं पातु धूम्राक्षपालकः । दिङ्नाथेशो महाकायो मां पातु परमेश्वरः । आकाशगङ्गाजटिलो द्विदलं पातु मे परम् । गङ्गाधरः सदा पातु हाकिनीं परमेश्वरः ॥२३॥
हाकिनी परशिवो मे भ्रूपद्मं परिरक्षतु । दण्डपाणीश्वरः पातु मनोरूपं द्विपत्रकम् ॥२४॥
साधुकेशः सदा पातु मनोन्मन्यादिवासिनम् । पिङ्गाक्षेशः सदा पातु भयभूमौ तनूं मम ॥२५॥
उन्मनीस्थानकं पातु रोधिनीसहितं मम । सुधाघटः सदा पातु ममानन्दादिदेवताम् ॥२६॥
आनन्दभैरवः पातु गूढदेशाधिदेवताम् । मायामयोपहा पातु सुषुम्नानाडिकाकलाम् ॥२७॥
इडाकलाधरं पातु कोटिसूर्यप्रभाकरः । पिङ्गलामिहिरं पातु चन्द्रशेखर ईश्वरः ॥२८॥
कोटिकालानलस्थानं सुषुम्नायां सदावतु । सुधासमुद्रो मां पातु रत्नकोटिमणीश्वरः ॥२९॥
शिवनाथः सदा पातु कुण्डलीचक्रमेव मे । विष्णुचक्रं महादेवः कालरात्रः कुलान्वितम् ॥३०॥
मृत्युजेता सदा पातु सहस्रारं सदा मम । सहस्रदलगं शम्भुं स्वयम्भूः पातु सर्वदा ॥३१॥
सर्वरूपिणमीशानं पातु शर्वो हि सर्वदा । सर्वत्र सर्वदा पातु श्रीनीलकण्ठ ईश्वरः ॥३२॥
सर्वबीजस्वरूपो मे बीजमालां सदावतु । मातृकां सर्वबीजेशो मातृकार्णं शिवो मम ॥३३॥
अहङ्कारं हरः पातु करमालां सदा मम । जलेऽरण्ये महाभीतौ पर्वते शून्यमण्डपे ॥३४॥
व्याघ्रभल्लूकमहिषपश्वादिभयदूषिते । महारण्ये घोरयुद्धे गगने भूतलेऽतले ॥३५॥
अत्युत्कटे शस्त्रघाते शत्रुचौरादिभीतिषु । महासिंहभये क्रूरे मत्तहस्तिभये तथा ॥३६॥
ग्रहव्याधिमहाभीतौ सर्पभीतौ च सर्वदा । पिशाचभूतवेतालब्रह्मदैत्यभयादिषु ॥३७॥
अपवादापवादेषु मिथ्यावादेषु सर्वदा । करालकालिकानाथः प्रचण्डः प्रखरः परः ॥३८॥
उग्रः कपर्दी भीदंष्ट्री कालाच्छन्नकरः कविः । क्रोधाच्छन्नो महोन्मत्तो गरुडीशो महेशभृत ॥३९॥
पञ्चाननः पञ्चरश्मिः पावनः पावमानकः । शिखा मात्रामहामुद्राधारकः क्रोधभूपतिः ॥४०॥
द्रावकः पूरकः पुष्टः पोषकः पारिभाषिकः । एते पान्तु महारुद्रा द्वाविंशतिमहाभये ॥४१॥
एते सर्वे शक्तियुक्ता मुण्डमालाविभूषिताः । अहङ्कारेश्वराः क्रुद्धा योगिनस्तत्त्वचिन्तकाः ॥४२॥
चतुर्भुजा महावीराः खड्गखेटकधारकाः । कपालशङ्खमालाढ्या नानारत्नविभूषिताः ॥४३॥
किङ्किणीजालमालाढ्या हेमनूपुरराजिताः । नानालङ्कारशोभाढ्याश्चन्द्रचूडाविभूषिताः ॥४४॥
सदानन्दयुताः श्रीदा मोक्षदाः कर्मयोगिनाम् । सर्वदा भगवान् पातु ईश्वराः पान्तु नित्यशः ॥४५॥
ब्रह्मा पातु मूलपद्मं श्रीविष्णुः पातु षड्दलम् । रुद्रः पातु दशदलमीश्वरः पात्वनाहतम् ॥४६॥
सदाशिवः पातु नित्यं षोडशारं सदा मम । परो द्विदलमापातु षट्शिवाः पान्तु नित्यशः ॥४७॥
अपराः पान्तु सततं मम देहं कुलेश्वराः । पूर्णं ब्रह्म सदा पातु सर्वाङ्गं सर्वदेवताः ॥४८॥
कालरूपी सदा पातु मनोरूपी शिरो मम । आत्मलीनः सदा पातु ललाटं वेदवित्प्रभुः ॥४९॥
वाराणसीश्वरः पातु मम भ्रूमध्यपीठकम् । योगिनाथः सदा पातु मम दन्तावलिं दृढम् ॥५०॥
ओष्ठाधरौ सदा पातु झिल्टीशो भौतिकेश्वरः । नासापुटद्वयं पातु भारभूतीशोऽतिथीश्वरः ॥५१॥
गण्डयुग्मं सदा पातु स्थाणुकेशो हरेश्वरः । कर्णदेशं सदा पातु अमरोऽर्धीश्वरो मम ॥५२॥
महासेनेश्वरस्तुण्डं मम पातु निरन्तरम् । श्रीकण्ठादिमहारुद्राः स्वाङ्गग्रन्थिषु मातृकाः ॥५३॥
मां पातु कालरुद्रश्च सर्वांङ्ग कालसंक्षयः । अकाल तारकः पातु उदरं परिपूरकः ॥५४॥
अगस्त्यादिमुनिश्रेष्ठाः पान्तु योगिन ईश्वराः । श्रीनाथेश्वर ईशानः पातु मे सूक्ष्मनाडिकाः ॥५५॥
त्रिशूली पातु पूर्वस्यां दक्षिणे मृत्युनाशनः । पश्चिमे वारुणीमत्तो महाकालः सदाऽवतु ॥५६॥
उत्तरे चावधूतेशो भैरवः कालभैरवः । ईशाने पातु शान्तीशो वायव्यां योगिवल्लभः ॥५७॥
मरुत्कोणे दैत्यहन्ता पातु मां सततं शिवः । वह्निकोणे सदा पातु कालानलमुखाम्बुजः ॥५८॥
ऊर्ध्वं ब्रह्मा सदा पातु अधोऽनन्तः सदाऽवतु । सर्वदेवः सदा पातु सर्वदेहगतं सुखम् ॥५९॥
इहार्हा वल्लभः पातु कालाख्येशो गुणो मम । रविनाथः सदा पातु हृदयं मानसं मम ॥६०॥
चन्द्रेशः पातु सततं भ्रूमध्यं मम कामदः । वज्रदण्डधरः पातु रक्ताङ्गेशस्त्रिलोचनम् ॥६१॥
बुधश्यामसुन्दरेशः पातु मे हृदयस्थलम् । सुवर्णवर्णगुर्वीशो मम कण्ठं सदाऽवतु ॥६२॥
सिन्दूरजलदच्छन्नाद्यर्कशुक्रेश्वरो गलम् । नाभिदेशं सदा पातु शनिश्यामेश ईश्वरः ॥६३॥
राहुः पातु महावक्त्रः केवलं मुखमण्डलम् । केतुः पातु महाकायः सदा मे गुह्यदेशकम् ॥६४॥
इन्द्रादिदेवताः पान्तु परिवारगणैर्युताः । शिरोमण्डलदिग्रूपं पान्तु वैकुण्ठवासिनः ॥६५॥
भैरवा भैरवीयुक्ताः सर्वदेहसमुद्भवाः । भीमदंष्ट्रा महाकाया मम पान्तु निरन्तरम् ॥६६॥
यज्ञभुङ्नीलकण्ठो मे हृदयं पातु सर्वदा । उन्मत्तभैरवाः पान्तु ईश्वराः पान्तु सर्वदा ॥६७॥
क्रोधभूपतयः पान्तु श्रीमायामदनान्विताः । फलश्रुतिकथनं इत्येतत् कवचं तारं तारकब्रह्ममङ्गलम् ॥६८॥
कथितं नाथ यत्नेन कुत्रापि न प्रकाशितम् । तव स्नेहवशादेव प्रसन्नहृदयान्विता ॥६९॥
कृपां कुरु दयानाथ तवैव कवचाद्भुतम् । हिताय जगतां मोहविनाशायामृताय च ॥७०॥
पठितव्यं साधकेन्द्रैर्योगीन्द्रैरुपवन्दितम् । दुर्लभं सर्वलोकेषु सुलभं तत्त्ववेदिभिः ॥७१॥
असाध्यं साधयेदेव पठनात् कवचस्य च । धारणात् पूजनात् साक्षात् सर्वपीठफलं लभेत् ॥७२॥
काकचञ्चुपुटं कृत्वा सप्तधा पञ्चधापि वा । कवचं प्रपठेद्विद्वान् गूढसिद्धिनिबन्धनात् ॥७३॥
काकिनीश्वरसंयोगं सुयोगं कवचान्वितम् । ईश्वराङ्गं विभाव्यैव कल्पवृक्षसमो भवेत् ॥७४॥
एतत्कवचपाठेन देवत्वं लभते ध्रुवम् । आरोग्यं परमं ज्ञानं मोहनं जगतां वशम् ॥७५॥
स्तम्भयेत् परसैन्यानि पठेद्वारत्रयं यदि । शान्तिमाप्नोति शीघ्रं स षट्कर्मकरणक्षमः ॥७६॥
आकाङ्क्षारसलालित्यविषयाशाविवर्जितः । साधकः कामधेनुः स्यादिच्छादिसिद्धिभाग्भवेत् ॥७७॥
सर्वत्र गतिशक्तिः स्यात् स्त्रीणां मन्मथरूपधृक् । अणिमालघिमाप्राप्तिगुणादिसिद्धिमाप्नुयात् ॥७८॥
योगिनीवल्लभो भूत्वा विचरेत् साधकाग्रणीः । यथा गुहो गणेशश्च तथा स मे हि पुत्रकः ॥७९॥
श्रीमान् कुलीनः सारज्ञः सर्वधर्मविवर्जितः । शनैः शनैर्मुदा याति षोडशारे यतीश्वरः ॥८०॥
यत्र भाति शाकिनीशः सदाशिवगुरुः प्रभुः । क्रमेण परमं स्थानं प्राप्नोति मम योगतः ॥८१॥
मम योगं विना नाथ तव भक्तिः कथं भवेत् । एतत्सम्मोहनाख्यस्य कवचस्य प्रपाठतः ॥८२॥
वाणी वश्या स्थिरा लक्ष्मीः सर्वैश्वर्यसमन्वितः । त्यागिता लभ्यते पश्चान्निःसङ्गो विहरेत् शिवः । सदाशिवे मनो याति सिद्धमन्त्री मनोलयः ॥८३॥
इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरव संवादेऽनाहतेश्वरसम्मोहनाख्यकवचं नाम त्रिषष्टितमः पटलः ॥

N/A

References : N/A
Last Updated : November 16, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP