संस्कृत सूची|संस्कृत स्तोत्र साहित्य|कवच| नारद उवाच । साधु साधु मह... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... कार्तवीर्यकवचकथनम् - नारद उवाच । साधु साधु मह... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र कार्तवीर्यकवचकथनम् Translation - भाषांतर नारद उवाच । साधु साधु महाप्राज्ञ सर्व तन्त्रविशारद । त्वया मह्यं समाख्यातं विधानं तन्त्रगोपितम् ॥१॥ अधुना तु महाभाग कार्तवीर्यहनूमतोः । कवचे श्रोतुमिच्छामि तद्वदस्वकृपानिधे ॥२॥ सनत्कुमार उवाच । शृणु विप्रेन्द्र वक्ष्यामि कवचं परमाद्भुतम् । कार्तवीर्यस्य येनासौ प्रसन्नः कार्यसिद्धिकृत् ॥३॥ सहस्रादित्यसङ्काशे नानारत्नसमुज्ज्वले । भास्वद्ध्वजपताकाढ्ये तुरगायुतभूषिते ॥४॥ महासंवर्तकाम्भोधिभीमरावविराविणि । समुद्धृतमहाछत्रवितानितवियत्पथे ॥५॥ महारथवरे दीप्तनानायुधविराजिते । सुस्थितं विपुलोदारं सहस्रभुजमण्डितम् ॥६॥ वामैरुद्दण्डकोदण्डान्दधानमपरैः शरान् । किरीटहारमुकुटकेयूरवलयाङ्गदैः ॥७॥ मुद्रिकोदरबन्धाद्यैर्मौञ्जीनूपुरकादिभिः । भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः ॥८॥ आबद्धकवचं वीरं सुप्रसन्नाननाम्बुजम् । धनुर्ज्यासिंहनादेन कम्पयन्तं जगत्त्रयम् ॥९॥ सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् । सर्वसम्पत्प्रदातारं विजयश्रीनिषेवितम् ॥१०॥ सर्वसौभाग्यदं भद्रं भक्ताभयविधायिनम् । दिव्यमाल्यानुलेपाढ्यं सर्वलक्षणसंयुतम् ॥११॥ रथनागाश्वपादातवृन्दमध्यगमीश्वरम् । वरदं चक्रवर्तीनं सर्वलोकैकपालकम् ॥१२॥ समानोदितसाहस्रदिवाकरसमद्युतिम् । महायोगभवैश्वर्यकीर्त्याक्रान्तजगत्त्रयम् ॥१३॥ श्रीमच्चक्रं हरेरंशादवतीर्णं महीतले । सम्यगात्मादिभेदेन ध्यात्वा रक्षामुदीरयेत् ॥१४॥ अस्याङ्गमूर्तयः पञ्च पान्तु मां स्फटिकोज्ज्वलाः । अग्नीशासुरवायव्यकोणेषु हृदयादिकाः ॥१५॥ सर्वतोऽस्त्रज्वलद्रूपा दरचर्मासिपाणयः । अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्रहाः ॥१६॥ क्षेमङ्करीशक्तियुतश्चौरवर्गविभञ्जनः । प्राचीं दिशं रक्षतु मे बाणबाणासनायुधः ॥१७॥ श्रीकरीशक्तिसहितो मारीभयविनाशकः । शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् ॥१८॥ महावश्यकरीयुक्तः सर्वशत्रुविनाशकृत् । महेषुचापधृक्पातु मम प्राचेतसीं दिशम् ॥१९॥ यशःकर्या समायुक्तो दैत्यसङ्घविनाशनः । परिरक्षतु मे सम्यग्विदिशं चैत्रभानवीम् ॥२०॥ विद्याकरीसमायुक्तः सुमहद्दुःखनाशनः । पातु मे नैरृतीं चापपाणिर्विदिशमीश्वरः ॥२१॥ धनकर्या समायुक्तो महादुरितनाशनः । इष्वासनेषुधृक्पातु विदिशं मम वायवीम् ॥२२॥ आयुःकर्या युतः श्रीमान्महाभयविनाशनः । चापेषुधारी शैवीं मे विदिशं परिरक्षतु ॥२३॥ विजयश्रीयुतः साक्षात्सहस्रारधरो विभुः । दिशमूर्द्ध्वामवतु मे सर्वदुष्टभयङ्करः ॥२४॥ शङ्खभृत्सुमहाशक्तिसंयुतोऽप्यधरां दिशम् । परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः ॥२५॥ महायोगसमायुक्तः सर्वदिक्चक्रमण्डलः । महायोगीश्वरः पातु सर्वतो मम पद्मभृत् ॥२६॥ एतास्तु मूर्तयो रक्ता रक्तमाल्यांशुकावृताः । प्रधानदेवतारूपाः पृथग्रथवरे स्थिताः ॥२७॥ शक्तयः पद्महस्ताश्च नीलेन्दीवरसन्न्निभाः । शुक्लमाल्यानुवसनाः सुलिप्ततिलकोज्ज्वलाः ॥२८॥ तत्पार्षदेश्वराः स्वस्ववाहनायुधभूषणाः । स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः ॥२९॥ एतास्तस्य समाख्याताः सर्वावरणदेवताः । सर्वतो मां सदा पान्तु सर्वशक्तिसमन्विताः ॥३०॥ हृदये चोदरे नाभौ जठरे गुह्यमण्डले । तेजोरूपाः स्थिताः पान्तु वाञ्छासुखवनद्रुमाः ॥३१॥ दिशं चान्ये महावर्णा मन्त्ररूपा महोज्ज्वलाः । व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥३२॥ कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः । सुमुखो मे मुखं पातु कर्णौ व्याप्तजगत्त्रयः ॥३३॥ सुकुमारो हनुं पातु भ्रूयुगं मे धनुर्धरः । नयनं पुण्डरीकाक्षो नासिकां मे गुणाकरः ॥३४॥ अधरोष्ठौ सदा पातु ब्रह्मज्ञेयो द्विजान्कविः । सर्वशास्त्रकलाधारी जिह्वां चिबुकमव्ययः ॥३५॥ दत्तात्रेयप्रियः कण्ठं स्कन्धौ राजकुलेश्वरः । भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः ॥३६॥ कुक्षिं रक्षतु मे विद्वान् वक्षः परपुरञ्जयः । करौ सर्वार्थदः पातु कराग्राणि जगत्प्रियः ॥३७॥ रेवाम्बुलीलासन्दृप्तो जठरं परिरक्षतु । वीरशूरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा ॥३८॥ सहस्रभुजभृत्पृष्टं सप्तद्वीपाधिपः कटिम् । ऊरू माहिष्मतीनाथो जानुनी वल्लभो भुवः ॥३९॥ जङ्घे वीराधिपः पातु पातु पादौ मनोजवः । पातु सर्वायुधधरः सर्वाङ्गं सर्वमर्मसु ॥४०॥ सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् । प्राणादिदशजीवेशान्सर्वशिष्टेष्टदोऽवतु ॥४१॥ वशीकृतेन्द्रियग्रामः पातु सर्वेन्द्रियाणि मे । अनुक्तमपि यत्स्थानं शरीरान्तर्बहिश्च यत् ॥४२॥ तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः । वज्रात्सारतरं चेदं शरीरं कवचावृतम् ॥४३॥ बाधाशतविनिर्मुक्तमस्तु मे भयवर्जितम् । बद्ध्वेदं कवचं दिव्यमभेद्यं हैहयेशितुः ॥४४॥ विचरामि दिवा रात्रौ निर्भयेनान्तरात्मना । राजमार्गे महादुर्गे मार्गे चौरादिसङ्कुले ॥४५॥ विषमे विपिने घोरे दावाग्नौ गिरिकन्दरे । सङ्ग्रामे शस्त्रसङ्घाते सिंहव्याघ्रनिषेविते ॥४६॥ गह्वरे सर्वसङ्कीर्णे सन्ध्याकाले नृपालये । विवादे विपुलावर्ते समुद्रे च नदीतटे ॥४७॥ परिपन्थिजनाकीर्णे देशे दस्युगणावृते । सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य सङ्कटे ॥४८॥ नानारोगज्वरावेशे पिशाचप्रेतयातने । मारीदुःस्वप्नपीडासु क्लिष्टे विश्वासघातके ॥४९॥ शारीरे च महादुःखे मानसे च महाज्वरे । आधिव्याधिभये विघ्नज्वालोपद्रवकेऽपि च ॥५०॥ न भवतु भयं किञ्चित्कवचेनावृतस्य मे । आगुन्तुकामानखिलानस्मद्वसुविलुम्पकान् ॥५१॥ निवारयतु दोर्दण्डसहस्रेण महारथः । स्वकरोद्धृतसाहस्रपाशबद्धान्सुदुर्जयान् ॥५२॥ संरुद्धगतिसामर्थ्यान्करोतु कृतवीर्यजः । सृणिसाहस्रनिर्भिन्नान्सहस्रशरखण्डितान् ॥५३॥ राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् । खड्गसाहस्रदलितान्सहस्रमुसलार्दितान् ॥५४॥ चौरादिदुष्टसत्त्वौघान्करोतु कमलेक्षणः । स्वशङ्खनादसन्त्रस्तान्सहस्रारसहस्रभृत् ॥५५॥ अवतारो हरेः साक्षात्पालयत्वखिलं मम । कार्तवीर्य महावीर्य सर्वदुष्टविनाशन ॥५६॥ सर्वत्र सर्वदा दुष्टचौरान्नाशाय नाशय । किं त्वं स्वपिषि दुष्टघ्न किं तिष्टसि चिरायसि ॥५७॥ उत्तिष्ठ पाहि नः सर्वभयेभ्यः स्वसुतानिव । ये चौरा वसुहर्तारो विद्विषो ये च हिंसकाः ॥५८॥ साधुभीतिकरा दुष्टाश्छद्मका ये दुराशयाः । दुर्हृदो दुष्टभूपाला दुष्टामात्याश्च पापकाः ॥५९॥ ये च कार्यविलोप्तोरो ये खलाः परिपन्थिनः । सर्वस्वहारिणां ये च पञ्च मायाविनोऽपरे ॥६०॥ महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये । येऽग्निदा गरदातारो वञ्चकाः शस्त्रपाणयः ॥६१॥ ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः । व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः ॥६२॥ छिद्रान्वेषरता नित्यं येऽस्मान्बाधितुमुद्यताः । ते सर्वे कार्तवीर्यस्य महाशङ्खरवाहताः ॥६३॥ सहसा विलयं यान्तु दूरादिव विमोहिताः । ये दानवा महादैत्या ये यक्षा ये च राक्षसाः ॥६४॥ पिशाचा ये महासत्त्वा ये भूतब्रह्मराक्षसाः । अपस्मारग्रहा ये च ये ग्रहाः पिशिताशनाः ॥६५॥ महालोहितभोक्तारो वेताला ये च गुह्यकाः । गन्धर्वाप्सरसः सिद्धा ये च देवादियोनयः ॥६६॥ डाकिन्यो द्रुणसाः प्रेताः क्षेत्रपाला विनायकाः । महाव्याघ्रमहामेघा महातुरगरूपकाः ॥६७॥ महागजा महासिंहा महामहिषयोनयः । ऋक्षवाराहशुनकवानरोलूकमूर्तयः ॥६८॥ महोष्ट्रखरमार्जारसर्पगोवृषमस्तकाः । नानारूपा महासत्त्वा नानाक्लेशसहस्रदाः ॥६९॥ नानारोगकराः क्षुद्रा महावीर्या महाबलाः । वातिकाः पैत्तिका घोरा श्लैष्मिकाः सान्निपातिकाः ॥७०॥ माहेश्वरा वैष्णवाश्च वैरिञ्च्याश्च महाग्रहाः । स्कान्दा वैनायकाः क्रूरा ये च प्रमथगुह्यकाः ॥७१॥ महाशत्रुग्रहा रौद्रा महामारीमसूरिकाः । ऐकाहिका व्द्याहिकाश्च त्र्याहिकाश्च महाज्वराः ॥७२॥ चातुर्थिकाः पाक्षिकाश्च मास्याः षाण्मासिकाश्च ये । सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥७३॥ स्वाप्निका ये महोत्पाता ये च दुःस्वाप्निका ग्रहाः । कूष्माण्डा जृम्भिका भौमा द्रोणाः सान्निध्यवञ्चकाः ॥७४॥ भ्रमिकाः प्राणहर्तारो ये च बालग्रहादयः । मनोबुद्धीन्द्रियहराः स्फोटकाश्च महाग्रहाः ॥७५॥ महाशना बलिभुजो महाकुणपभोजनाः । दिवाचरा रात्रिचरा ये च सन्ध्यासु दारुणाः ॥७६॥ प्रमत्ता वाऽप्रमत्ता वै ये मां बाधितुमुद्यताः । ते सर्वे कार्त्तवीर्यस्य धनुर्मुक्तशराहताः ॥७७॥ सहस्रधा प्रणश्यन्तु भग्नसत्त्वबलोद्यमाः । ये सर्पा ये महानागा महागिरिबिलेशयाः ॥७८॥ कालव्याला महादंष्ट्रा महाजगरसंज्ञकाः । अनन्तशूलिकाद्याश्च दंष्ट्राविषमहाभयाः ॥७९॥ अनेकशतशीर्षाश्च खण्डपुच्छाश्च दारुणाः । महाविषजलौकाश्च वृश्चिका रुक्तपुच्छकाः ॥८०॥ आशीविषाः कालकूटा महाहालाहलाह्वयाः । जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः ॥८१॥ मत्स्यका विषपुच्छाश्च ये चान्ये जलवासिनः । जलजाः स्थलजाश्चैव कृत्रिमाश्च महाविषाः ॥८२॥ गुप्तरूपा गुप्तविषा मूषिका गृहगोधिकाः । नानाविषाश्च ये घोरा महोपविषसंज्ञकाः ॥८३॥ येऽस्मान्बाधितुमिच्छन्ति शरीरप्राणनाशकाः । ते सर्वे कार्तवीर्यस्य खड्गसाहस्रदारिताः ॥८४॥ दूरादेव विनश्यन्तु प्रणष्टेन्द्रियसाहसाः । मनुष्याः पशवो त्वृक्षवानरा वनगोचराः ॥८५॥ सिंहव्याघ्रवराहाश्च महिषा ये महामृगाः । गजास्तुरङ्गा गवया रासभाः शरभा वृकाः ॥८६॥ शुनका द्वीपिनः शुभ्रा मार्जारा बिललोलुपाः । शृगालाः शशकाः श्येना गरुत्मन्तो विहङ्गमाः ॥८७॥ भेरुण्डा वायसा गूध्रा हंसाद्याः पक्षिजातयः । उद्भिज्जाश्चाण्डजाश्चैव स्वेदजाश्च जरायुजाः ॥८८॥ नानाभेदकुले जाता नानाभेदाः पृथग्विधाः । येऽस्मान्बाधितुमिच्छन्ति सन्ध्यासु च दिवा निशि ॥८९॥ ते सर्वे कार्तवीर्यस्य गदासाहस्रदारिताः । दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः ॥९०॥ ये चाक्षेमप्रदातारः कूटमायाविनश्च ये । मारणोत्सादनोन्मूलद्वेषमोहनकारकाः ॥९१॥ विश्वासघातका दुष्टा ये च स्वामिद्रुहो नराः । ये चाततायिनो दुष्टा ये पापा गोप्यहारिणः ॥९२॥ दाहोपघातगरलशस्त्रपातातिदुःखदाः । क्षेत्रवित्तादिहरणबन्धनादिभयप्रदाः ॥९३॥ ईतयो विविधाकारो ये चान्ये दुष्टजातयः । पीडाकरा ये सततं छिद्रमिच्छन्ति बाधितुम् ॥९४॥ ते सर्वे कार्तवीर्यस्य चक्रसाहस्रदारिताः । दूरादेव क्षयं यान्तु विनष्टबलसाहसाः ॥९५॥ ये मेघा ये महावर्षा ये वाता याश्च विद्युतः । ये महाशनयो दीप्ता ये निर्घाताश्च दारुणाः ॥९६॥ उल्कापाताश्च ये घोरा ये महेन्द्रायुधादयः । सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः ॥९७॥ राहुश्च केतवो घोरा नक्षत्रा राशयस्तथा । तिथयः सङ्क्रमा मासा हायना युगनायकाः ॥९८॥ मन्वन्तराधिपाः सिद्धा ऋषयो योगसिद्धयः । निधयो ऋग्यजुःसामाथर्वणाश्चैव वह्नयः ॥९९॥ ऋतवो लोकपालाश्च पितरो देवसंहतिः । विद्याश्चैव चतुःषष्टिभेदा या भुवनत्रये ॥१००॥ ये त्वत्र कीर्तिताः सर्वे ये चान्ये नानुकीर्तिताः । ते सन्तु नः सदा सौम्याः सर्वकालसुखावहाः ॥१०१॥ आज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः । कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः ॥१०२॥ दशास्यदर्पहा रेवालीलादृप्तः सुदुर्जयः । दुःखहा चौरदमनो राजराजेश्वरः प्रभुः ॥१०३॥ सर्वज्ञः सर्वदः श्रीमान् सर्वशिष्टेष्टदः कृती । राजचूडामणिर्योगी सप्तद्वीपाधिनायकः ॥१०४॥ विजयी विश्वजिद्वाग्मी महागतिरलोलुपः । यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञेयः सनातनः ॥१०५॥ माहिष्मतीपतिर्योधा महाकीर्तिर्महाभुजः । सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः ॥१०६॥ शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्योगिवल्लभः । महाभागवतो धीमान्महाभयविनाशनः ॥१०७॥ असाध्यी विग्रहो दिव्यो भावो व्याप्तजगत्त्रयः । जितेन्द्रियो जितारातिः स्वच्छन्दोऽनन्तविक्रमः ॥१०८॥ चक्रभृत्परचक्रघ्नः सङ्ग्रामविधिपूजितः । सर्वशास्त्रकलाधारी विरजा लोकवन्दितः ॥१०९॥ वीरो विमलसत्त्वाढ्यो महाबलपराक्रमः । विजयश्रीमहामान्यो जितारिर्मन्त्रनायकः ॥११०॥ खड्गभृत्कामदः कान्तः कालघ्नः कमलेक्षणः । भद्रवादप्रियो वैद्यो विबुधो वरदो वशी ॥१११॥ महाधनो निधिपतिर्महायोगी गुरुप्रियः । योगाढ्यः सर्वरोगघ्नो राजिताखिलभूतलः ॥११२॥ दिव्यास्त्रभृदमेयात्मा सर्वगोप्ता महोज्ज्वलः । सर्वायुधधरोऽभीष्टप्रदः परपुरञ्जयः ॥११३॥ योगसिद्धो महाकायो महावृन्दशताधिपः । सर्वज्ञाननिधिः सर्वसिद्धिदानकृतोद्यमः ॥११४॥ इत्यष्टशतनामोक्त्या मूर्तयो दश दिक्पथि । सम्यग्दशदिशो व्याप्य पालयन्तु च मां सदा ॥११५॥ स्वस्थाः सर्वेन्द्रियाः सन्तु शान्तिरस्तु सदा मम । शेषाद्या मूर्तयोऽष्टौ च विक्रमेणैव भास्वराः ॥११६॥ अग्निनिरृतिवाय्वीशकोणगाः पान्तु मां सदा । मम सौख्यमसम्बाधमारोग्यमपराजयः ॥११७॥ दुःखहानिरविघ्नश्च प्रजावृद्धिः सुखोदयः । वाञ्छाप्तिरतिकल्याणमवैषम्यमनामयम् ॥११८॥ अनालस्यमभीष्टं स्यान्मृत्युहानिर्बलोन्नतिः । भयहानिर्यशः कान्तिर्विद्या ऋद्धिर्महाश्रियः ॥११९॥ अनष्टद्रव्यता चैव नष्टस्य पुनरागमः । दीर्घायुष्यं मनोहर्षः सौकुमार्यमभीप्सितम् ॥१२०॥ अप्रधृष्यतमत्वं च महासामर्थ्यमेव च । सन्तु मे कार्तवीर्यस्य हैहयेन्द्रस्य कीर्तनात् ॥१२१॥ य इदं कार्तवीर्यस्य कवचं पुण्यवर्द्धनम् । सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥१२२॥ सर्वशान्तिकरं गुह्यं समस्तभयनाशनम् । विजयार्थप्रदं नॄणां सर्वसम्पत्प्रदं शुभम् ॥१२३॥ शृणुयाद्वा पठेद्वापि सर्वकामानवाप्नुयात् । चौरैर्हृतं यदा पश्येत्पश्वादिधनमात्मनः ॥१२४॥ सप्तवारं तदा जप्येन्निशि पश्चिमदिङ्मुखः । सप्तरात्रेण लभते नष्टद्रव्यं न संशयः ॥१२५॥ सप्तविंशतिधा जप्त्वा प्राचीदिग्वदनः पुमान् । देवासुरनिभं चापि परचक्रं निवारयेत् ॥१२६॥ विवादे कलहे घोरे पञ्चधा यः पठेदिदम् । विजयो जायते तस्य न कदाचित्पराजयः ॥१२७॥ सर्वरोगप्रपीडासु त्रेधा वा पञ्चधा पठेत् । स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते ॥१२८॥ सम्यग्द्वादशधा रात्रौ प्रजपेद्बन्धमुक्तये । त्रिदिनान्निगडाद्बद्धो मुच्यते नात्र संशयः ॥१२९॥ अनेनैव विधानेन सर्वसाधनकर्मणि । असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः ॥१३०॥ यात्राकाले पठित्वेदं मार्गे गच्छति यः पुमान् । न दुष्टचौरव्याघ्राद्यैर्भयं स्यात्परिपन्थिभिः ॥१३१॥ जपन्नासेचनं कुर्वञ्जलेनाञ्जलिना तनौ । न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते ॥१३२॥ कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥१३३॥ रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥१३४॥ सम्पदस्तस्य जायन्ते जनास्तस्य वशे सदा । यः सेवते सदा विप्र श्रीमच्चक्रावतारकम् ॥१३५॥ तस्य रक्षां सदा कुर्याच्चक्रं विष्णोर्महात्मनः । मयैतत्कवचं विप्र दत्तात्रेयान्मुनीश्वरात् ॥१३६॥ श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्टदम् ॥१३७॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यकवचकथनं नाम सप्तसप्ततितोमोऽध्यायः ॥७७॥ बृहन्नारदीयपुराण । N/A References : N/A Last Updated : November 18, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP