संस्कृत सूची|संस्कृत साहित्य|कवच|
कपिकटकधुरीणः कार्मुकन्यस्...

श्रीरामकवचम् - कपिकटकधुरीणः कार्मुकन्यस्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

कपिकटकधुरीणः कार्मुकन्यस्तबाणः क्षपितदितिजसैन्यः क्षत्रियेष्वग्रगण्यः । जलधिरचितसेतुर्जानकीतोषहेतुः पथि पथि गुणसान्द्रः पातु मां रामचन्द्रः ॥१॥
श्रीमत्किरीटविभ्राजिशिरा रामः शिरोऽवतु । कुटिलालकसंशोभिललाटान्तः सुरार्थितः ॥२॥
माणिक्यमौक्तिकोद्भासितिलकः सूर्यवंशजः । ललाटं पातु सुभूर्मे कौसल्यानन्दनो भ्रूवौ ॥३॥
धनुर्विद्यापारदृश्वा नेत्रे पात्वब्जलोचनः । लसन्नासापुटो नासां विश्वामित्रवृतोऽवतु ॥४॥
बिम्बोष्ठोऽव्यान्मदीयौष्ठौ शम्भुकार्मुकभञ्जनः । कुन्दकोशलसद्दन्तो दन्तान्मे जानकीपतिः ॥५॥
मनोज्ञरसनो जिह्वां पातु लोकमयान्तकृत् । वाचं व्याख्याविदग्धोऽव्याच्यक्तसाम्राज्यसम्भ्रमः ॥६॥
आस्यं चन्द्रोपमास्योऽव्याद्रामचन्द्रो वनेचरः । कम्बुग्रीवोऽवतु ग्रीवां खरदूषणसैन्यजित् ॥७॥
चारुदीर्घकरः पाणी मारीचमृगलुब्धकः । कङ्कणाङ्गदमुद्राढयोऽङ्गुलीस्त्यक्तप्रियाकृतिः ॥८॥
पातु पीनांसयुग्मोऽसौ हनूमन्नयनोत्सवः । हारकौस्तुभभृत्कण्ठमूलं सुग्रीवसख्यकृत् ॥९॥
उरः पातु महोरस्कः तालात्मासुरखण्डनः । मध्यं कृशलसन्मध्यः पातु वाल्यङ्गभेदनः ॥१०॥
दर्भशायी विभुः पातु वलीस्त्रिवलिपल्लवः । तनुदरः पातु कुक्षिं कृतसेतुर्महार्णवे ॥११॥
निम्ननाभिः प्रभुः पातु नाभिं कपिचमूपतिः । पीताम्बरः स्फुरत्काञ्चीद्योतमानकटिद्वयः ॥१२॥
ङ्काप्राकारनिर्भेदी रामः पात कटिं मम । ऊरू करिकरोरुर्मे चारुबाणधनुर्धरः ॥१३॥
जृम्भिरावणसैन्याब्धिकुम्भसम्भवकोटिधूः । जानुनी वृत्तविलसज्जानुयुग्मो ममावतु ॥१४॥
कम्भकर्णादिनिर्भङ्गदम्भोळासमसायकः । जङ्धे तुङ्गेभदन्ताभजङ्घायुग्मोऽवतु प्रभुः ॥१५॥
दशाननशिरोरण्यपरश्वधपराक्रमः । मुक्ताङ्कुरसमश्रीमद्गुल्फों गुल्फौ ममावतु ॥१६॥
ससम्भ्रमसुरश्रेणीशिरोजुष्टाङ्ध्रिपल्लवः । पादौ रक्षतु मे नित्यं विभीषणपदप्रदः ॥१७॥
नखान् पातु नखश्रेणीशशिद्योतितदिङ्मुखः । अग्निज्वालोदितस्वीयसीतो वीतच्छिदाकृतिः ॥१८॥
रक्तपादतलादित्यः पातु पादतले मम । प्राप्तायोध्यापुरैश्वर्यः प्राच्यां पातु मनोरमः ॥१९॥
धर्मप्रवर्तकः पायादवाच्यां नीरदद्युतिः । पातु प्रतीच्यां यज्वीन्द्रो हनूमत्पारमेष्ठयदः ॥२०॥
उदीच्यामुद्गतायोगविदेहतनयाप्रियः । अधोऽधःकृतपापैघः पातु रामोऽखिलाग्रणीः ॥२१॥
ऊर्ध्वमुन्नीतसज्जीवनानासङ्घसुखप्रदः । य इदं रघुनाथस्य कवचं बिभृयान्नरः ॥२२॥
यतिना वादिराजेन रचितं निर्मलं दृढम् । स्प्रष्टुं तं नैव रक्षांसि पापानि रिपवोऽपि वा ॥२३॥
विपदो व्याधयो वाऽपि शक्नुवन्ति शरोपमाः । अरिं जित्वा तु संसारं यास्यत्यन्तेऽपुनर्भवम् ॥२४॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं श्रीरामकवचं सम्पूर्णम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP