संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीगणेशाय नमः । श्रीग...

श्रीसौभाग्यकवचम् - ॐ श्रीगणेशाय नमः । श्रीग...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीगणेशाय नमः । श्रीगुरुभ्योनमः हरिः ॐ । कैलासशिखरे रम्ये सुखसीनं सुरार्चितम् । गिरीशं गिरिजा नत्वा स्तोत्रैर्वेदार्थगोचरैः  ॥१॥
प्रणम्य परया भक्त्या तमपृच्छत्कृताञ्जलिः । श्रीदेव्युवाच - रहस्यं रक्षणकरं सर्वसम्पत्करं वद ॥२॥
ईश्वर उवाच - एतत्सौभाग्यकवचं रहस्यातिरहस्यकम् । सौभाग्यकवचं देवि श‍ृणु सौभाग्यदं परम् ॥३॥
(मूलविद्यया ऋष्यादिन्यासम्) ध्यानम् - शोणप्रभं सोमकलावतंसं पाणिस्फुरत्पञ्चशरेक्षुचापम् । प्राणप्रियं नौमि पिनाकपाणिं कोणत्रयस्थं कुलदैवतं मे ॥
इक्षुकोदण्डपुष्पेषुपाशाङ्कुशचतुर्भुजाम् । उद्यत्सूर्यनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ॥
अथ कवचम् । ॐ शिखायां सततं पातु महात्रिपुरसुन्दरी । शिरः कमेश्वरी नित्या तत्पूर्वाङ्गं भगमालिनी ॥१॥
नित्यक्लिन्ना च तद्दक्षं भेरुण्डा पश्चिमं शिरः । वह्निवासिन्यस्य वामं वज्रेश्वर्यलकांस्तथा ॥२॥
शिवदूती ललाटं च त्वरिता तस्य दक्षिणम् । तद्वामपार्श्वमवतात्तथैव कुलसुन्दरी ॥३॥
नित्या पातु भ्रुवोर्मध्यं भ्रुवं नीलपताकिनी । वामभ्रुवं च विजया नयनं सर्वमङ्गला ॥४॥
ज्वालामालिन्यक्षि वामं चित्रा रक्षतु नासिकाम् । दक्षश्रोत्रं तु गणपः स्वयं पातु महोद्यमः ॥५॥
दक्षसव्यन्तु बटुकः कपोलं क्षेत्रपालकः । दक्षनासापुटं दुर्गा तदन्यं पातु भारती ॥६॥
अणिमा दक्षिणं शङ्खं महिमा च तदन्यकम् । दक्षगण्डं तु गरिमा लधिमा चोत्तरं तथा ॥७॥
ऊर्ध्वमोष्ठं  प्राप्तिसिद्धिः प्राकाम्यमधरोष्ठकम् । ईषित्वमूर्ध्वदन्तांश्च वशित्वमधरांस्तथा ॥८॥
इछासिद्धिस्तु रसनां मोक्षसिद्धिस्तु तलुकम् । तालुमूलद्वयं ब्राह्मी माहेश्वर्यौत्तरक्षताम् ॥९॥
कुमारी चिबुकं पातु तदधः पातु वैष्णवी । कण्ठं रक्षतु वाराही इन्द्राणी रक्षतादधः ॥१०॥
कृकाटिकां तु चामुण्डा महालक्ष्मीस्तु सर्वतः । सर्वसंक्षोभिणीमुद्रा स्कन्धं रक्षतु दक्षिणम् ॥११॥
तदन्यं द्राविणीमुद्रा पायादंसद्वयं क्रमात् । आकर्षवश्यमुद्रे द्वे चोन्मादिन्यथ दक्षिणम् ॥१२॥
भुजं महाङ्कुशा वामं खेचरी दक्षकक्षकम् । वामकक्षं बीजमुद्रा योनिःस्थाद्दक्षबाहुकम् ॥१३॥
लसत्त्रिखण्डिनी मुद्रा वामबाहुं प्रपालयेत् । कामाकर्षिणिका नित्यं रक्षताद्दक्षकूर्परम् ॥१४॥
कूर्परं वाममवताद्बुध्याकर्षिणिका तथा । अहङ्काराकर्षिणी तु प्रकोष्ठं पातु दक्षिणम् ॥१५॥
शब्दाकर्षिणिका वामं स्पर्शाकर्षिणिकावतु । तन्मध्यं दक्षिणं पातु रूपाकर्षिणिकेतरम् ॥१६॥
रसाकर्षिणिका पातु मणिबन्धं च दक्षिणम् । गन्धाकर्षिणिका वामं चित्ताकर्षिणिकावतु ॥१७॥
करभं दक्षिणं धैर्याकर्षिणी पातु वामकम् । स्मृत्याकर्षिण्यसौ पाणिं नामाकर्षिणि दक्षिणम् ॥१८॥
बीजाकर्षिण्यसौ पायात्सततं दक्षिणाङ्गुलीः ।  आत्माकर्षिण्यदक्षिण्याममृताकर्षिणी नखान् ॥१९॥
शरीराकर्षिणी वामनखान् रक्षतु सर्वदा । अनङ्गकुसुमा शक्तिः पातु दक्षस्तनोपरि ॥२०॥
अनङ्गमेखला चान्यस्तनोर्ध्वमभिरक्षतु । अनङ्गमदना दक्षस्तनं तच्चूचुकं पुनः ॥२१॥
रक्षतादनिशं देवी अनङ्गमदनातुरा । स्तनयोर्मध्यमं पायादनङ्गमदनातुरा अनङ्गरेखा वामञ्च वक्षोजं तस्य चूचुकम् ॥२२॥
अनङ्गवेगिनी क्रोडामनङ्गस्याङ्कुशावतु । अनङ्गमालिनी पायाद्वक्षस्थलमहर्निशम् ॥२३॥
सर्वसंक्षोभिणी हृच्च सर्वविद्राविणी परा । कुक्षिं सर्वाकर्षिणी पातु पातु पार्श्वं तु दक्षिणम् ॥२४॥
आह्लादिनी वामपार्श्वं मध्यं सम्मोहिनी परा । सा सर्वस्तम्भिनी पृष्ठं नाभिं वै सर्वजृम्भिणी ॥२५॥
वशङ्करी वस्तिदेशं कटिं सा सर्वरञ्जिनी । उन्मादिनी तु सर्वाद्या पायाज्जघनमण्डलम् ॥२६॥
सर्वार्थसाधिनीशक्तिर्नितम्बं रक्षतादथ । दक्षस्फिचं सदा पातु सर्वसम्पत्प्रपूरिणी ॥२७॥
सर्वमन्त्रमयीशक्तिः पातु वामस्फिचं मम । पायात्ककुन्दरद्वन्द्वं सर्वद्वन्द्वक्षयङ्करी ॥३१॥
सर्वसिद्धिप्रदा देवी वृषणं पातु दक्षिणम् । सर्वसम्पत्प्रदा देवी वृषणं पातु वामकम् ॥३२॥
सर्वप्रियङ्करी देवी  गुह्यं रक्षतु मे सदा । मेढ्रं रक्षतु मे देवी सर्वमङ्गलकारिणी ॥३३॥
सर्वकामप्रदा देवी पातु मुष्कं तु दक्षिणम् । तयोर्मद्ध्यं सदा पातु सर्वकामफलप्रदा । पायात्तदन्यं देवी तु सर्वदुःखविमोचिनी ॥३४॥
सर्वमृत्युप्रशमनी देवी पातु गुदं मम । पातु देवी देहमद्ध्यं सर्वविघ्ननिवारिणी ॥३५॥
सर्वाङ्गसुन्दरी देवी रक्षताद्दक्षसक्थिकम् । वामसक्थितलं पायत्सर्वसौभाग्यदायिनी ॥३६॥
अष्ठीवं मम सर्वज्ञा देवी रक्षतु दक्षिणम् । अन्यष्ठीवं सर्वशक्तिर्देवी पातु चिरं मम ॥३७॥
सर्वैश्वर्यप्रदा देवी दक्षजानुं सदावतु । सर्वज्ञानमयी देवी तदन्यज्जानु रक्षतु ॥३८॥
अव्यादियं दक्षजङ्घां सर्वव्याधिविनाशिनी । तदन्यं पातु देवी च सर्वाधारस्वरूपिणी ॥३९॥
सर्वपापहरा देवी दक्षगुल्-भं सदावतु । सर्वानन्दमयी देवी वामगुल्फं सदावतु ॥४०॥
पार्ष्णिं मे दक्षिणं पायात्सर्वरक्षास्वरूपिणी । अव्यात्सव्यं सदा पार्ष्णिं सर्वेप्सितफलप्रदा ॥४१॥
दक्षाङ्घ्रिं वशिनी पातु पूर्वं वाग्देवता मम । सर्वकामेश्वरी पुर्वं सदा वाग्देवतोत्तरम् ॥४२॥
मोदिनी प्रपदं पातु दक्षिणं विमलेतरम् । अङ्गुलीररुणा पातु दक्षपादनखोज्ज्वला ॥४३॥
तदन्यं जयिनी पायात्सदा वाग्देवतेतरम् । दक्षपादलं सर्वेश्वरी वाग्देवता मुदा ॥४४॥
वामपादतलं पायात्कौलिनी देवता मम । कुर्वन्तु जृम्भणा बाणास्त्रैलोक्यकर्षणं मम ॥४५॥
मोहं संहरताद्दिक्षु कोदण्डं भृङ्गमौर्विकम् । करोतु सततं पाशी वशीकरणमुत्तमम् ॥४६॥
विदधात्वङ्कुशा नित्यं स्तम्भनं शत्रुसङ्गरे । पीठं मे कामरूपाख्या पातु कामान्निकामतः ॥४७॥
पूर्णं पूर्णगिरेः पीठं पायादर्थं मदीयकम् । जालन्धरस्य जालन्ध्रं पीठं रक्षतु मे सदा ॥४८॥
(/पूर्णं पुर्णागिरीपीठं पयादर्थं मदीयकम् ॥४८॥) सायुज्यं तनुतां प्राज्यं श्रीपीठं श्रीकरं मम । कामेश्वरी चात्मतत्त्वं रक्षेद्वज्रेश्वरी च माम् ॥४९॥
विद्यातत्त्वं शैवतत्त्वं पायाच्छ्री भगमालिनी । कामं छिन्द्यान्महाशत्रुममृतार्णवमासनम् ॥५०॥
क्रोधं बोधापहं हन्याद्रक्तपोताम्बुजासनम् । लोभं दिव्यासनं भिन्द्याद्देव्यात्मा दिव्यरूपभाक् ॥५१॥
मोहं संहरताच्चक्रं मदं मन्त्रासनं महत् । मात्सर्यं नाशयेन्नित्यं मम साध्यासनं जवात् ॥५२॥
आधारं त्रिपुरा रक्षेत्स्वाधिष्ठानं पुरेश्वरी । मणिपूरं मणिद्योतं पायात्त्रिपुरसुन्दरी ॥५३॥
अव्यादनाहतं भव्यं  नित्यं त्रिपुरवासिनी । विशुद्धं त्रिपुराश्रीश्च आज्ञा त्रिपुरमालिनी ॥५४॥
इडां मे त्रिपुरा सिद्धा त्रिपुराम्बा च पिङ्गलाम् । सुषुम्नां पातु मे नित्यं महात्रिपुरसुन्दरी ॥५५॥
त्रैलोक्यमोहनं चक्रं रोमकूपांश्च पातु मे । सर्वाशापूरकं चक्रं सप्तधातूंश्च रक्षतु ॥५६॥
सर्वसंक्षोभणं चक्रं प्राणाद्यं वायुपञ्चकम् । सौभाग्यदायकं चक्रं नागाद्यानिलपञ्चकम् ॥५७॥
सर्वार्थसाधकं चान्तःकरणानां चतुष्टयम् । सर्वरक्षाकरं चक्रं पायात्पूर्तेष्टकं च मे ॥५८॥
सर्वरोगहरं चक्रं रक्षतान्मे गुणत्रयम् । सर्वसिद्धिप्रदं चक्रं ममाव्यात्कोशपञ्चकम् ॥५९॥
सर्वानन्दमयं चक्रं यशः कीर्तिं च रक्षतु । सौन्दर्यमन्मथः पायाद्रतिः पातु रतिं मम ॥६०॥
प्रीतिर्मे पातु सा प्रीतिरुत्साहं च वसन्तकः । सङ्कल्पं कल्पकोद्यानं महालक्ष्मीर्मम श्रियम् ॥६१॥
कान्तिं कपालिनी रक्षेन्मन्दिरं मम मन्डपम् । पुत्रान्  शङ्खनिधिः पायाद्भार्यां पद्मनिधिस्तथा ॥६२॥
मार्गे मां भैरवी रक्षेन्मातङ्गी मुकुटं सदा । अष्टदिक्षु महेन्द्राद्याः सायुधाःपान्तु मां सदा ॥६३॥
पायादूर्ध्वदिशं ब्रह्मा विष्णुश्चक्रायुधो त्वधः । अनावृतानि स्थानानि कवचेन तु यानि मे ॥६४॥
तानि रक्षन्तु सततं शिवादि गुरवः क्रमात् । एतत्सौभाग्यकवचं स्वकरे यस्तु धारयेत् ॥६५॥
त्रिसन्ध्यं पठति प्रीत्या श‍ृणुयाद्वा समाहितः । तस्य शीघ्रेण सिध्यन्ति सिद्धयस्त्वणिमादयः ॥६७॥
ब्रह्मवित्तु गिरीशेन्द्रकन्र्परविभिः समः । विहरत्खिलान् लोकान् सिद्धगन्धर्वसेवितः ॥६८॥
तस्य स्मरणमात्रेण महाभूतपिशाचकाः । कीटवत्प्रपलायन्ते कूषमाण्डा भैरवादयः ॥६९॥
तस्याङ्घ्रितोयपतनात् प्रशाम्यन्ति महारुजः । तत्पादकमलासक्तरजोलेशाभिमर्शनात् ॥७०॥
वश्यं भवति शीघ्रेण त्रैलोक्यं सचराचरम् । भूपालमहिला भूपाः किमु माया विमोहिताः ॥७१॥
इति श्रीवामकेश्वरतन्त्रे नित्या षोडशार्णवर सौभाग्यकवचं समाप्तम् । शुभमस्तु । श्रीशुभम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP