संस्कृत सूची|संस्कृत साहित्य|कवच|
देव्युवाच ॥ भूतनाथ ! महा...

गुरुकवचं - देव्युवाच ॥ भूतनाथ ! महा...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

देव्युवाच ॥ भूतनाथ ! महादेव ! कवचं तस्य मे वद ।  गुरुदेवस्य देवेश ! साक्षाद्ब्रह्मस्वरूपिणः ॥१॥
ईश्वर उवाच ॥ अथा ते कथयामीशे ! कवचं मोक्षदायकम् ।  यस्य ज्ञानं विना देवि ! न सिद्धिर्न च सद्गतिः ॥२॥
ब्रह्मादयोऽपि गिरिजे ! सर्वत्र जयिनः स्मृताः ।  अस्य प्रसादात् सकला वेदागमपुरःसराः ॥३॥  कवचस्यास्य देवेशि ! ऋषिर्विष्णुरुदाहृतः ।  छन्दो विराड् देवता च गुरुदेवः स्वयं शिवः ॥४॥  छतुर्वर्गे ज्ञानमार्गे विनियोगः प्रकीर्त्तितः ।  सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥५॥
वामोरुस्थितशक्तिर्यः सर्वत्र परिरक्षतु । परमाख्यो गुरुः पातु शिरसं मम वल्लभे ! ॥६॥
परापराख्यो नासां मे परमेष्ठी मुखं सदा ।  कण्ठं मम सदा पातु प्रह्लादानन्दनाथकः ॥७॥
बाहू द्वौ सनकानन्दः कुमारानन्द एव च ।  वशिष्ठानन्दनाथश्च हृदयं पातु सर्वदा ॥८॥  क्रोधानन्दः कटिं पातु सुखानन्दः पदं मम ।  ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने ॥९॥  सर्वत्र गुरवः पान्तु सर्वे ईश्वररूपिणः ।  इति ते कथितं भद्रे ! कवचं परमं शिवे ! ॥१०॥  भक्तिहीने दुराचारे दत्त्वैतन्मृत्युमाप्नुयात् ॥ अस्यैव पठनाद्देवि ! धारणात्छ्रवणात् प्रिये ! ॥११॥  जायते मन्त्रसिद्धिश्च किमन्यत् कथयामि ते ।  कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते ! ॥१२॥
धारणान्नाशयेत् पापं गङ्गायां कल्मषं यथा ।  इदं कवचमज्ञात्वा यदि मन्त्रं जपेत् प्रिये ! ॥१३॥  तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चितम् ।  शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥१४॥
॥ इति कङ्कालमालिनीतन्त्रे गुरुकवचं समाप्तम् ॥

N/A

References : N/A
Last Updated : November 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP