संस्कृत सूची|संस्कृत साहित्य|कवच|
हरिः ॐ । अस्य श्रीगरुडकव...

गरुडकवचम् - हरिः ॐ । अस्य श्रीगरुडकव...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

हरिः ॐ । अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारदभगवानृषिः वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः ।
ॐ शिरो मे गरुडः पातु ललाटे विनतासुतः । नेत्रे तु सर्पहा पातु कर्णौ पातु सुरार्चितः ॥१॥
नासिकां पातु सर्पारिः वदनं विष्णुवाहनः । सूर्यसूतानुजः कण्ठं भुजौ पातु महाबलः ॥२॥ (सूर्येतालू च कण्ठे च)
हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः । नखान् नखायुधः पातु कक्षौ मुक्तिफलप्रदः ॥३॥
स्तनौ मे विहगः पातु हृदयं पातु सर्पहा । (हृदयं पातु सर्वदा) नाभिं पातु महातेजाः कटिं मे पातु वायुनः ॥४॥ (कटिं पातु सुधाहरः)
ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा । पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ॥५॥  (ऊरू पातु महावीरः जानुनि चण्डविक्रमः । जङ्घे दुण्ढायुधः पातु गुल्फौ विष्णुरथः सदा ॥५॥)
सुपर्णः पातु मे पादौ तार्क्ष्यः पादाङ्गुली तदा । रोमकूपानि मे वीरो त्वचं पातु भयापहा ॥६॥
इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् । यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति ॥७॥ (विषदोषं प्रणश्यति)
त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः । द्वादशाहं पठेद्यस्तु मुच्यते शत्रुबन्धनात् ॥८॥
एकेवारं पठेद्यस्तु मुच्यते सर्वकिल्बिषैः । वज्रपञ्जरनामेदं कवचं बन्धमोचनम् ॥९॥
॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम् ॥
कालसर्पदोष, नागदोष, शत्रुबाधा निवारणार्थं गरुडकवचस्तोत्रम्

N/A

References : N/A
Last Updated : November 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP