संस्कृत सूची|संस्कृत साहित्य|कवच|
नन्दगोप उवाच । रक्षतु त्...

बालकृष्णरक्षाकवचम् - नन्दगोप उवाच । रक्षतु त्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

नन्दगोप उवाच । रक्षतु त्वामश्षाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥१४॥
येन दंष्ट्राग्रविधृता धारयत्यवनिर्जगत् । वराहरूपधृग्देवस्स त्वां रक्षतु केशवः ॥१५॥
नखाङ्कुरविनिर्भिन्नवैरिवक्षस्थलो विभुः । नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥१६॥
वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् । त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥१७॥
शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः । गुह्यं च जठरं विष्णुर्जङ्घे पादौ जनार्दनः ॥१८॥
मुखं बाहू प्रबाहू च मनः सर्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥१९॥
शार्ङ्गचक्रगदापाणेश्शङ्खनादहताः क्षयम् । गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥२०॥
त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः । हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥२१॥
इति विष्णुपुराणे पञ्चमभागे पञ्चामाध्यायान्तर्गतं नन्दगोपकृतं बालकृष्णरक्षाकवचं समाप्तम्म् ।

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP