संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीभैरव उवाच - श‍ृणु ...

राज्ञीकवचम् - ॐ श्रीभैरव उवाच - श‍ृणु ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीभैरव उवाच - श‍ृणु देवि प्रवक्ष्यामि राज्ञीकवचमुत्तमम् । त्रैलोक्यविजयं नाम दिव्यं भोगापवर्गदम् ॥१॥
मूलमन्त्रमयं साध्यमष्टसिद्धिप्रदायकम् । सर्वैश्वर्यप्रदं लोके सर्वागमविनिश्चितम् ॥२॥
पठनाद्धारणाद्देवि महापातकनाशनम् । महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥३॥
विरूपाक्षः शिवो देवि विष्णुर्नारायणो बली । ब्रह्मा पितामहो लोके जिष्णुर्गीर्वाणनायकः ॥४॥
महोनिधिस्तथा सूर्यस्तारकाधिपतिः शशी । रत्नाकरश्च जलधिः शेषश्चानन्ततां गतः ॥५॥
श्रीराज्ञ्याः कवचस्यास्य पठनाद्धारणात्सदा । बहुनोक्तेन किं देवि कवचस्यास्य धारणात् ॥६॥
मर्त्योप्यमर्त्यतां याति राज्ञीपदमवाप्नुयात् ॥७॥
ऋषिरस्य महादेवि ब्रह्मा छन्द उदाहृतम् । गायत्रं देवता राज्ञी माया बीजमुदाहृतम् ॥८॥
शरच्छक्तिः कीलकं च कामराजो महेश्वरि । भोगापवर्गसिद्ध्यर्थे विनियोगः प्रकीर्तितः ॥९॥
अस्य श्रीमहाराज्ञिकवचमन्त्रस्य, ब्रह्मा ऋषिः, गायत्रं छन्दः, श्रीमहाराज्ञी देवता, ह्रीं बीजं, सौः शक्तिः, क्लीं कीलकं, आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं महाराज्ञीप्रीत्यर्थं पाठे विनियोगः ॥
ध्यानम् - ॐ लक्ष्मीर्मे शिरः पातु ह्रीं ललाटं सरस्वती । श्रीं बाला पातु मे नेत्रे त्र्य श्रं पातु श्रुती मम ॥१॥
रां दुर्गा पातु मे नासां क्लीं मुखं पातु शारिका । सौः कण्ठं वैखरी पातु भं भुजौ पातु मे शिवा ॥२॥
गं हस्तौ पातु मे काली वं वक्षस्त्रिपुराऽवतु । षडश्रं पातु मे मध्यं वृत्तं पार्श्वौ ममावतु ॥३॥
त्यै पृष्ठं पातु मे ब्राह्मी रां नाभिं पातु वैष्णवी । ज्ञ्यै गुदं पातु रुद्राणी ह्रीं कटिं मे पराजिता ॥४॥
स्वां कौमारी पातु जानू हां जङ्घेऽवतु चण्डिका । स्वाहा गुल्फौ च वाराही ॐ पादौ नारसिंहिका ॥५॥
विस्मारितं च यत्स्थानं यत्स्थानं नामवर्जितम् । तत्सर्वं पातु मे राज्ञी मूलविद्यामयी परा ॥६॥
वासुकिः पूर्वतः पातु नीलनागोऽनलेऽवतु । तक्षको दक्षिणे पातु नैरृते पद्मनायकः ॥७॥
कार्कोटकः पश्चिमेऽव्याद्वायव्यां शङ्खपालकः । कुलिकश्चोत्तरे पातु शेष ईशानमण्डले ॥८॥
ब्राह्मी ब्राह्मे मुहूर्तेऽव्याद्दिनादौ वैष्णवी मम । रुद्राणी पातु मध्याह्ने सायं पात्वपराजिता ॥९॥
निशादौ पातु कौमारी निशीथे चण्डिकावतु । निशान्ते पातु वाराही सर्वदा नारसिंहिका ॥१०॥
असिताङ्गः क्षितेः पातु पयसो रुरुभैरवः । चण्डो मां पवनात्पातु क्रोधेशः पातु माऽनलात् ॥११॥
उन्मत्तः सोमतः पातु भीषणः सूर्यतोऽवतु । याजकाच्च कपालेशो व्योम्नः संहारकोऽवतु ॥१२॥
सदा समन्ततः पातु वपुर्वसुदलं पातु मम । गुरवः पान्तु सर्वत्र दिगीशः पातु सर्वतः ॥१३॥
वृत्तत्रयं पातु नित्यं धरा गेहं सदाऽवतु । श्रीचक्रं पातु भीतिभ्यो योगिन्यः पान्तु सर्वदा ॥१४॥
ऊर्ध्वं चाधः सदा पातु दिग्भ्यो राज्ञीश्वरः शिवः । सर्वत्र सर्वदा सर्वं वपुर्भूतेश्वरोऽवतात् ॥१५॥
पादादिमूर्धपर्यन्तं वपुः सर्वत्र मेऽवतु । शिरसः पादपर्यन्तं राज्ञी पञ्चदशाक्षरी ॥१६॥
इत्येवं कवचं राज्ञ्या मन्त्रगर्भं जयावहम् । त्रैलोक्यविजयं नाम दारिद्र्यभयनाशनम् ॥१७॥
सर्वरोगहरं साक्षात्सिद्दिदं पापनाशनम् । महाभयहरं देवि मूलविद्यामयं परम् ॥१८॥
परमार्थप्रदं नित्यं भोगमोक्षैककारणम् । यः पठेत्कवचं देवि रणे राजभये क्षणात् ॥१९॥
सङग्रामेषु रिपुञ्जित्वा विजयी गृहमेष्यति । पठनात्कवचस्यास्य राजकोपः प्रशाम्यति ॥२०॥
द्यूते धनं लभेद्द्युती श्मशाने सिद्धिमाप्नुयात् । त्रिवारं यः पठेद्रात्रौ रेतःस्रावे महेश्वरि ॥२१॥
तस्य राज्ञी महाविद्या स्वप्नेऽभीष्टप्रदा भवेत् । स्वयम्भूकुसुमैः शुद्धै रेतःस्तन्योभयाङ्कितैः ॥२२॥
रसैर्भूर्जे लिखेद्वर्म रवौ प्रातर्महेश्वरि । चीरतन्तुभिरव्यक्तं लाक्षया वेष्टितं तथा ॥२३॥
सुवर्णगुटिकान्तःस्थं पूजयेद्यन्त्रराजवत् । गुटिकैषा महाविद्या राज्ञीमूर्तिरिवापरा ॥२४॥
मूलविद्यामयी देवि कुक्षिस्था भोगदायिनी । पृष्ठस्था बलदा देवि कुक्षिस्था रोगनाशिनी ॥२५॥
सर्वार्थसाधनी लोके यथाभीष्टफलप्रदा । गुटिकेयं शुभा राज्ञ्या न देया यस्य कस्यचित् ॥२६॥
इदं कवचमीशानि मूलविद्यामयं परम् । सारस्वतप्रदं लक्ष्मीपुत्रपौत्रविवर्धनम् ॥२७॥
आयुष्करं पुष्टिकरं श्रीकरं च यशस्करम् । चतुःषष्ट्यादितन्त्राणां सारमादाय वर्णितम् ॥२८॥
श्मशाने यः पठेत्सायं महाचीनक्रमेश्वरः । स साधको महादेवि राज्ञीपुत्रो भविष्यति ॥२९॥
इदं ते मम सर्वस्वं त्रैलोक्यविजयाभिधम् । कवचं मन्त्रगर्भं च गोपनीयं स्वयोनिवत् ॥३०॥
इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीराज्ञीकवचम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP